2023-09-20 08:16:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकप्रशंसा ]
 
पूर्वभागः ।
 
मनुजस्येव [^१]संस्कारवतो बुद्धिपूर्वा [^२]प्रवृत्तिः । तथा हि-[^३]अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य
जयशब्दमियमार्या- मामुद्दिश्य पॅ[^४]परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमै-
थुन [^५]निद्रे रासंज्ञामात्र वे दिनो भवन्ति । इदं तु महच्चित्रम्' इत्युक्तवति भूभुजि कुमारपालितः किं-
चित्स्मितवदनोऽ [^६]वादीत् - [^८]'किमंत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो [^८]विहङ्गविशेषा ये[^९]यथा-
श्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्य [^१०]प्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रय
ले
-
त्ने
न वा संस्कारातिशय उपजायत इति नातिचित्रम् । [^११]अन्यदेतेषामपि पुरा पुरुषाणामिवातिप-
रि [^१२]स्फुटाभिधांधाना वागासीत् । अभिग्निशापा [^१३]त्त्वरफुटालापत्ता शुकानामुपजाता, कॅ[^१४]करिणां च जिह्वाप-
Beykeny
 

 

 
[ टि ] --
सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपिंपि मनुजस्येव मनुष्यस्येव

संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति ।
किमाश्चर्यमित्यर्थः। तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्ध्वंवीकृतो दक्षिणचरणोऽप-
सव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्य-
क्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन

पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः,
निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् ।
इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः
किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां

निराकुर्वन्नाह – किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः
सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन
स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन खास्वानुभवोऽपि सूचितः । अत्रापि कारणान्तर साचिव्यं दर्शयन्नाह -

तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तस्यानु -
न्धोऽविच्छित्तिस्तेन वा पुरुषाणाम् अर्थात्प्रेक्षावतां प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दार्ढ्यमुपजायत उत्पद्यते ।
ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारणमस्तीत्याशयेनाह -
अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्वं प्राची -

नपुरुषाणामिवातिपरिस्फुटमतिविशदमभिधानं नाम यस्यामेवंविधा वागासीत् । तु पुनरर्थे । अग्निशापादस्फुटा-
लापता शुकादीनामुप- जातेति स्पष्टम् । अत्रायं प्रवादः । छद्मना गृहीतरूपस्य वह्नेर्यादृशं संवादं श्रुतवाञ्छुकस्तथै-
वो॒ोक्त॑
वो [^1]क्तवानिति तं प्रति क्रुद्धेन वहिह्निना स शप्तः । करिणां हस्तिनां च जिह्वापरिवृत्तिः स्वभावजनितां तां दूरीकृत्य
तत्स्थले तदितर [^2]रसनायाः प्रक्षेपः । सा च गजानामेव नान्येषामित्यन्यत्र विस्तरः । शुक इत्यविशदाक्षरत्वमिति ।
 
टिप्प० -

 
[^
1]F. पुरा तारकासुरपीडितैरमरैः प्रार्थितो ब्रह्मा अग्निसकाशात्कार्तिकेयनामानं देवसेनानायकं
कुमारं प्राप्तुमादिदेश । अग्निमन्विष्यन्तो देवास्तु 'कुत्राग्निरिति' समीपगं करिणं पप्रच्छुः । 'अश्वत्थेऽन्त-
र्हितोभिग्निरिति' स उवाच । अथाभिग्नि- र्निष्क्रम्य 'तव जिह्वा प्रतीपा भविष्यति' इति करिणं शप्त्वा पुनरन्त-

र्हितः । ततोऽद्वयर्थग्न्यर्थं देवैः पृष्टः शुकः शमीवृक्षेऽग्निं निर्दिदेश । ततोऽप्यभिव्यक्तो वह्निः 'तवाऽस्फुटा वाग्
भविष्यति' इति शुकमशपदिति महाभारतम् ।
[^
2]F. रसनाया जिह्वायाः परिवृत्तिर्विपरीतभावेनावस्थितिः

'जिह्वा प्रतीपा भविष्यति' इति शापवचने प्रतीपशब्दप्रयोगात् ।
 
पाठा० -

 
[^
]G. संस्कारवती.
[^
]G. वाक्प्रवृत्तिः
[^
]G. एतेन.
[^
]G. अतिपरिस्फुटाक्षरम्.
[^
]G. निद्रामात्र.
[^
]G. नृपमवादीत्.

[^७]G.
देव किमत्र.
[^
]G. विहङ्गम.
[^
]G. यथाश्रुतम्
[^
० तत्राप्यत्रान्य. 0]G. तत्राप्यत्रान्य.
[^
११]G. अन्यच्च
[^
१२]G. स्फुटाक्षरा.
[^
१३]G. अपरिस्फुटा.

[^
१४]G. सारिकाणाम्