This page has not been fully proofread.

शुकप्रशंसा ]
 
पूर्वभागः ।
 
मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि-अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य
जयशब्दमियमार्या मामुद्दिश्य पॅरिस्फुटाक्षर गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमै-
थुननिद्रे संज्ञामात्र वे दिनो भवन्ति । इदं तु महचित्रम्' इत्युक्तवति भूभुजि कुमारपालितः किं-
चित्स्मितवदनोऽवादीत् - 'किमंत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो विहङ्गविशेषा येथा-
श्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्राप्यन्य जन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रय
लेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यदेतेषामपि पुरा पुरुषाणामिवातिप-
रिस्फुटाभिधांना वागासीत् । अभिशापावरफुटालापत्ता शुकानामुपजाता, कॅरिणां च जिह्वाप-
Beykeny
 

 
सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपिं मनुजस्येव मनुष्यस्येव
संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति ।
किमाश्चर्यमित्यर्थः। तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्ध्वंकृतो दक्षिणचरणोऽप-
सव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्य-
क्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन
पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः,
निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् ।
इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः
किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां
निराकुर्वन्नाह – किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः
सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन
स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन खानुभवोऽपि सूचितः । अत्रापि कारणान्तर साचिव्यं दर्शयन्नाह -
तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तस्यानु -
न्धोऽविच्छित्तिस्तेन वा पुरुषाणाम् अर्थात्प्रेक्षावतां प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दार्ढ्यमुपजायत उत्पद्यते ।
ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारणमस्तीत्याशयेनाह -
अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्व प्राची -
नपुरुषाणामिवातिपरिस्फुटमतिविशदमभिधानं नाम यस्यामेवंविधा वागासीत् । तु पुनरर्थे । अग्निशापादस्फुटा-
लापता शुकादीनामुपजातेति स्पष्टम् । अत्रायं प्रवादः । छद्मना गृहीतरूपस्य वह्नेर्यादृशं संवादं श्रुतवाञ्छुकस्तथै-
वो॒ोक्त॑वानिति तं प्रति क्रुद्धेन वहिना स शप्तः । करिणां हस्तिनां च जिह्वापरिवृत्तिः स्वभावजनितां तां दूरीकृत्य
तत्स्थले तदितररसनायाः प्रक्षेपः । सा च गजानामेव नान्येषामित्यन्यत्र विस्तरः । शुक इत्यविशदाक्षरत्वमिति ।
 
टिप्प० - 1 पुरा तारकासुरपीडितैरमरैः प्रार्थितो ब्रह्मा अग्निसकाशात्कार्तिकेयनामानं देवसेनानायकं
कुमारं प्राप्तुमादिदेश । अग्निमन्विष्यन्तो देवास्तु 'कुत्रानिरिति' समीपगं करिणं पप्रच्छुः । 'अश्वत्थेऽन्त-
हितोभिरिति' स उवाच । अथाभिनिष्क्रम्य 'तव जिह्वा प्रतीपा भविष्यति' इति करिणं शत्वा पुनरन्त-
र्हितः । ततोऽद्वयर्थ देवैः पृष्टः शुकः शमीवृक्षेऽग्निं निर्दिदेश । ततोऽप्यभिव्यक्तो वह्निः 'तवाऽस्फुटा वाग्
भविष्यति' इति शुकमशपदिति महाभारतम् । 2 रसनाया जिह्वायाः परिवृत्तिर्विपरीतभावेनावस्थितिः
'जिह्वा प्रतीपा भविष्यति' इति शापवचने प्रतीपशब्दप्रयोगात् ।
 
पाठा० -१ संस्कारवती. २ वाक्प्रवृत्तिः ३ एतेन. ४ अतिपरिस्फुटाक्षरम्. ५ निद्रामात्र. ६ नृपमवादीत्.
देव किमत्र. ८ विहङ्गम. ९ यथाश्रुतम् १० तत्राप्यत्रान्य. ११ अन्यच्च १२ स्फुटाक्षरा. १३ अपरिस्फुटा.
१४ सारिकाणाम्