2023-09-01 12:45:23 by Lakshmainarayana achar

This page has been fully proofread twice.

विनन्दतु नीलसरोरुहचाद पद [^१]द्वयमुक्तिविकासनकारु ।
यतः किल कीलितकुण्डलि [^२]धाम व्यभादिव मञ्जुलमौक्तिक [^३]दाम ॥ १ ॥
 
उपोद्धातः
 
'गद्यं कवीनां निकषं वदन्ति ।'
 
कवे: काव्यकौशलं गद्येनैव पूर्णतया परीक्ष्यत इति हि सर्वथा सत्यम् । पद्यं ह्येकचरणस्यापि सौन्दर्येण संवहत्येव कामप्यभिख्याम् । किन्तु गद्यं सर्वतः सौन्दर्यं विना निजरचयितुः प्रददाति पाण्डित्यपरिचयमनायासादेव । किञ्च पद्ये छन्दोबन्धानुरोधेन न स्वच्छन्दमभिरुचितशब्दशय्या यथावन्निर्वाहयितुं सुशका । किन्तु गद्ये नाऽयं प्रतिबन्धः । अत्र हि यथास्थलविनिवेशितैर्मौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैर्हार इव
निजभावोद्गार: सहृदयानां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसामग्रीदारिद्र्यं न पुरः प्रतिबन्धकं भवति । पद्ये छन्दसोऽनुरोधेन कल्पनायाः शरीरं बलादेवाऽऽकुञ्चनीयं भवति । पुरः प्रदृश्यमानेऽपि हि विस्तृते कल्पनाऽङ्गणे, छन्दःप्रतिबन्धवशात्पङ्गूक्रियते कविरयम् । गद्ये तु हृदयोत्थितं कल्पनोदूगारं यथामनोरथमविकृतरूपेणैव प्रकटयितुं नान्तरायः कश्चित् ।

पद्ये हि नियताक्षरबन्धेनोत्पादिता संगीतानुगामिनी कापि गतिर्निभृततरमुत्पादयति माधुर्यं मानसे, येन हि मनागभावशैथिल्येऽपि श्लोकः [^४]श्लोकमुपयाति । गद्यं तु पुनरनाविष्कृतभावमाधुर्यं पुर एव पिशुनयति कार्पण्यं कवेः । पदान्तानुप्रास ('तुक' 'काफिया') सापेक्षे छन्दसि तु निबद्धार्थनिर्वाहो मन्ये न यस्यकस्यचित्कवेः कार्यम् । तत्र ह्यनुप्रासपरवशो बलादेव स्वाभिप्रेतमर्थं विरूपयति, अप्रचलितशब्दबन्धेन लाञ्छयति वा पदबन्धमात्मीयम् । अत एवाऽक्षराणां विरूप [^५]करणं कविसंप्रदायेनाऽप्यनुमतमेत-
स्मिन् । एवंविधे छन्दसि विवशतया विरूढपि वैगुण्ये समालोचकपुंगवस्थापि मनो मनाङ् मार्दवमुपयात्येव । भवति च कश्चि [^६]दपदेशः कवेरपि स्वकीयामशक्तिं गोपयितुम् । किन्तु गद्ये किञ्चिदप्यवद्ये संघटिते निर्वचनमभ्युपगन्तव्या भवति स्वीयैव स्थूलता । पाशकक्रीडायां पराजितः प्रमादमात्मीयं पाशकानामुपरि
निपातयितुमासादयत्यवसरम् । परं बुद्धिबल(शतरञ्ज) क्रीडायां विजितस्य क: स्यादपदेशोऽन्यः ? अत एव गद्यगुम्फः पूर्णपरिनिष्ठितस्यैव कवेः कार्यमित्यधिगन्तव्यं भवति । गद्ये हि स्वच्छदर्पण इवाऽविकलं प्रतिफलिता विभाति कवयितुः प्रतिभा । तत एव हि चिरात्प्रसिद्धं कविगोष्ठ्याम्- 'गद्यं कवीनां निकषं
वदन्ति' इति ।
भारतीयकवीनां सर्वविदितेऽपि सामर्थ्ये, संस्कृतसाहित्यमिदं गद्यकाव्यैर्भूयस्तरां शून्यमिति प्रत्यक्षमीक्ष्यतेऽस्माभिः ।प्रसिद्ध्यनुसारम् - भगवतो वाल्मीकेर्यथैव सेयं छन्दोबन्धरीतिर्लोकेऽस्मिन् प्रसृता, तथैवास्या माधुर्यप्रभावस्था कविषु बद्धास्पदो बभूव यथा गद्यगुम्फः शनैः शनैर्विरलतामवाप वराकः । पद्यबन्धश्चावश्यकतातोऽप्यधिकमासादयामास प्रसारम् । नाट्यम्, गीतम् वादिनम्, काव्यम्, कोषः,आयुर्वेदः, इतिहासः, पुराणम्, धर्मः, दर्शनम्, एतदादिषु सर्वत्र पद्यबन्धस्यैव प्रसारो बभूव । किं बहुना - एकमेकं च मिलित्वा द्वे भवत इति हि गणितशास्त्रमपि पद्यबद्धमेवाऽत्राविरभूत् । पद्यकविताया
मादकता भारतमात्रस्य वातावरणे तथा दृढतथा व्याप्ताऽभूद् यथा व्यतीतेऽपि बहुतिथे समये मदोऽसौ
 
[^१]G. उक्तीनां विकासने कारु ( शिल्पि, निपुणम् ) उपास्यदेवतायाः पदद्वयम् ।
[^२]G. सर्पाणां तेजः ।
[^३]G. छन्दोऽप्येतन्नामकम् ।
[^४]G. प्रशंसाम् । श्कोकोयं प्रशस्यो भवतीत्यर्थः ।
[^५]G. ' रलयोर्डलयोश्चैव शषयोर्बवयोस्तथा' इत्यादि । 'अपि माषंमषं कुर्याच्छन्दोभङ्गं न कारयेम्' इत्यादिः किंवदन्ती च ।
[^६G. 'बहाना' ।