2023-09-01 12:42:30 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

विनन्दतु नीलसरोरुहचाद पदद्वयं [^१]द्वयमुक्तिविकासनकार ।
रु ।
यतः किल कीलितकुण्डलिघा [^२]धाम व्यभादिव मञ्जुलमौक्तिक [^३]दाम ॥ १ ॥
 

 
उपोद्धातः
 

 
'गद्यं कवीनां निकषं वदन्ति ।'
 
कबेः

 
कवे:
काव्यकौशलं गद्येनैव पूर्णतया परीक्ष्यत इति हि सर्वथा सत्यम् । पचंद्यं ह्येकचरणस्यापि सौन्दर्येण
संवहत्येव कामप्यभिख्याम् । किन्तु गधंद्यं सर्वतः सौन्दर्यं विना निजरचयितुः प्रददाति पाण्डित्यपरिचय-
मनायासादेव । किञ्च पद्ये छन्दोबन्धानुरोधेन न स्वच्छन्दमभिरुचित शब्दशय्या यथावन्निर्वाहयितुं सुशका ।
किन्तु गधेद्ये नाऽयं प्रतिबन्धः । अत्र हि यथास्थल विनिवेशितैर्मौक्तिकानुकारिभिः प्रसन्नमधुरैः पदैर्हार इव

निजभावोद्गार: सहृदयानां हृदि सुकरतया स्थापयितुं शक्यो यदि हि काव्यसामग्रीदारिद्र्यं न पुरः
प्रतिबन्धकं भवति । पद्ये छन्दसोऽनुरोधेन कल्पनायाः शरीरं बलादेवाऽऽकुञ्चनीयं भवति । पुरः प्रदृश्य-
मानेऽपि हि विस्तृते कल्पनाऽङ्गणे, छन्दःप्रतिबन्धवशात्पङ्गूक्रियते कविरयम् । गद्ये तु हृदयोत्थितं कल्प-
नोदूगारं यथामनोरथमविकृतरूपेणैव प्रकटयितुं नान्तरायः कश्चित् ।
 
पथे

 
पद्ये
हि नियताक्षरबन्धेनोत्पादिता संगीतानुगामिनी कापि गतिर्निभृततरमुत्पादयति माधुर्यं मानसे,
येन हि मनागभावशैथिल्येऽपि श्लोकः [^४]श्लोकमुपयाति । गद्यं तु पुनरनाविष्कृतभावमाधुर्यं पुर एव पिशु-
नयति कार्पण्यं कवेः । पदान्तानुप्रास ('तुक' 'काफिया') सापेक्षे छन्दसि तु निबंद्धार्थनिर्वाहो मन्ये न
यस्य
यस्यकस्यचिस्त्कवेः कार्यम् । तत्र ह्यनुप्रासपरवशो बलादेव स्वाभिप्रेतमर्थं विरूपयति, अप्रचलितशब्दन-
न्धेन लान्ञ्छयति वा पदबन्धमात्मीयम् । अत एवाऽक्षराणां विरूप [^५]करणं कविसंप्रदायेनाऽप्यनुमतमेत-

स्मिन् । एवंबिविधे छन्दसि विवशतया विरूद्वेपि वैगुण्ये समालोचकपुंगवस्थापि मनो मनाङ् मार्दवमुपया.
त्य
त्येव । भवति च कश्चिदर् [^६]दपदेशः कवेरपि स्वकीयामशक्तिं गोपयितुम् । किन्तु गथेद्ये किञ्चिदप्यवचेद्ये संघटिते
निर्वचनमभ्युपगन्तव्या भवति स्त्रीवीयैव स्थूलता । पाशक क्रीडायां पराजितः प्रमादमात्मीयं पाशकानामुपरि

निपातयितुमासादयत्यवसरम् । परं बुद्धिबल (शतरञ्ज) क्रीडायां विजितस्य क्रःक: स्यादपदेशोऽन्यः ? अत
एव गद्यगुम्फः पूर्णपरिनिष्ठितस्यैव कवेः कार्यमित्यधिगन्तव्यं भवति । गद्ये हि स्वच्छदर्पण वाऽविकलं
प्रतिफलिता विभाति कवयितुः प्रतिभा । तत एव हि चिरात्प्रसिद्ध कविगोष्ठ्याम्- 'गद्यं कवीनां निकर्षं

दन्ति' इति ।
 
0
 

भारतीय कवीनां सर्वविदितेऽपि सामर्थ्ये, संस्कृतसाहित्यमिदं गद्यकाव्यैर्भूयस्तरां शून्यमिति प्रत्यक्षमी-
क्ष्यतेऽस्माभिः । प्रसिद्ध्यनुसारम् - भगवतो वाल्मीकेर्यथैव सेयं छन्दोबन्धरीतिर्लोकेऽस्मिन् प्रसृता, तथै-
वास्या माधुर्यप्रभावस्था कविषु बद्धास्पदो बभूव यथा गद्यगुम्फः शनैः शनैर्विरलतामवाप राकः । पद्य-
बन्धश्नाचावश्यकतातोऽप्यधिकमासादयामास प्रसारम् । नाट्यम्, गीतम् वादिनम्, काव्यम्, कोषः,
आयुर्वेदः, इतिहासः, पुराणम्, धर्मः, दर्शनम्, एतदादिषु सर्वत्र पद्यबन्धस्यैव प्रसारो बभूव । किं
बहुना - एकमेकं च मिलित्वा द्वे भवत इति हि गणितशास्त्रमपि पद्यबद्ध मेवाऽत्राविरभूत् । पद्यकविताया

मादकता भारतमात्रस्य वातावरणे तथा दृढतथा व्याप्ताऽभूद् यथा व्यतीत्रेतेऽपि बहुतिथे समये मदोऽसौ
 

 
[^
]G. उक्तीनां विकासने कारु ( शिल्पि, निपुणम् ) उपास्यदेवतायाः पदद्वयम् ।
[^
]G. सर्पाणां तेजः ।
[^
]G. छन्दोऽप्येत
न्नामकम् ।
[^
]G. प्रशंसाम् । श्कोकोयं प्रशस्यो भवतीत्यर्थः ।
[^
]G. ' लयोर्डलयोश्चैव शषयोर्बवयोस्तथा' इत्यादि । 'अपि माणं
षंमषं कुर्याच्छन्दोभङ्गं न कारयेम्' इत्यादिः किंवदन्ती च ।
[^
G. 'बहाना' ।