2024-04-01 12:13:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५६५
 
मध्याहः ]
 
उत्तरभागः ।
 
वृन्देषु, अरविन्ददलशकल किंजल्क विच्छु रितमिच्छाविलोडितो - [^१]त्रुटित बिसकाण्डच्छेददन्तुरं
निपानसरःपङ्कमारोहत्सु करि- यूथेषु, रक्ततामरसकान्तिषु ललनाकपोलोपान्तेषु दलितमुक्ता-

क्षोदानुकारिणीषु विराजमानासु घर्मजलकणिकावलीषु, स्म[^२]स्म- र्यमाणायां ज्योत्स्नायाम्, गृह्यमाणेषु
तुषारगुणेषु [^३]वाञ्छ्यमाने पयोदकालाभ्यागमे, अभ्यर्ध्थ्यमाने दिवसपरिणामे, प्रदोषदर्शना-
का

काङ्क्षिषु
हृदयेषु, उत्थाय सरस्तीरकल्पितमनवरतापतज्जलासार- सेकनिवारितोष्णकरकिरण-
संतापम्, एकसंतानावली [^४]धारा- वर्षवेगवाहिन्या निर्झरिण्येव फुल्यया परिक्षिप्तम्, अन्तरा
लम्बित- जलजम्चूबूप्रवालसहितान्धकारम्, आमुक्तकुसुमपल्लवलता वृता- खिलस्तम्भसंचै [^५]चयम्, आ-
मोदमानसरसस्फुटितार विन्दराशि- दत्तप्रकरम्, आकीर्णसरसबिस [^६]काण्डम्, अकाण्डकल्पि-

तप्रावृट्कालमितस्ततो वर्षन्तीभिः शैवलप्रवालमञ्जरीभिः, जलदेव- ताभिरिव सद्यः स्नानाई-
र्द्र-
 
[ टि ]--
तेषु महिषवृन्देषु रक्ताक्षसमूहेषु सत्सु । अरविन्देति । अरविन्दस्य कुशेशयस्य दलशकलानि पत्रखण्डानि
किंजल्कं च केसरं ताभ्यां विच्छुरितं कर्बुरितमिच्छया विलोडितेन मथनेनोत्त्रुटितानि यानि वि- तानि यानि बिसकाण्डानि
तेषां छेदा तैर्दन्तुरं मनोहरमेतादृशं निपानसरो 'निवाण' इति लोके प्रसिद्धं यत्सरस्तटाकं तस्य पङ्कं कर्दमं
करियूथेषु हस्तिवृन्देष्वारोहत्सु प्रविशत्सु सत्सु । रक्तं यत्ता-
मरसं कमलं तद्वत्कान्तिर्येषामेवंविधेषु ललनानां
कपोलानामुपान्तेषु समीपेषु [^1]सत्सु । दलितेति । दलिता म्रदिता या मुक्ता मौक्ति- कानि तासां क्षोदश्चूर्
णं तदनुकारिणीषु तत्सादृश्यकरणशीलासु धर्मजलस्य प्रम्स्वेदस्य कणिकानामावलीषु श्रेणिषु विराजमानासु शोभ-
मानासु सत्सु । ज्योत्स्नायां चन्द्रिकायां स्मर्यमाणायां स्मृति- गोचरी क्रियमाणायां सत्याम्, तुषारगुणेषु हिमगुणेषु
गृह्यमाणेषु सत्सु । पयोदकालस्य प्रावृदवट्समयस्याभ्यागम आगमने वाञ्छ्यमान ईप्स्यमाने सति । दिवसस्य वासरस्य
रामेऽवसानेऽभ्यर्थ्यायमाने प्रार्थ्यमाने सति । प्रदोषो यामिनीमुखं तस्याकाङ्क्षिषु वाञ्छकेषु हृदयेषु मनःसु
सत्सु, उत्थायोत्थानं कृत्वा जलमण्डपमयासीदिति दूरेणान्वयः । जलमण्डपं विशेषयन्नाह - सर इति
सरसस्तटाकस्य तीरं तटं तस्मिन्कल्पितं विहितमनवरतं निरन्तरमापतन्क्षरन्यो जलासारो वेगवद्वृधृष्टिस्तेन सेकः
सिञ्चनं तेन निवारितो दूरीकृत उष्णकरस्य सूर्यस्य किरणसंतापो येन स तम् । एकसंतानानामेक- परम्पराणा-
मावलीभिर्यो धारावर्षस्तस्य वेगं वहतीत्येवंशीलया निर्झ- रिण्येव नदोद्येव कुल्यया सारिण्या परिक्षिप्तं वलय-
तम् । अन्तरेण । अन्तरा मध्य आलम्बैि [^2]म्बितानि जलजम्बूप्रवालानि वेतसकिस- लयानि तैराहितः स्थापितो-
ऽन्धकारो यस्मिन् । आमुक्तेति। [^3]आमुक्ता मुकुलकुसुमपल्लवा याभिरेवंविधा या लता वयस्ता- भिरावृत
आच्छादितोऽखिलस्तम्भसंचयः समग्रस्थूणासमूहो यस्मैिन् । आमोदेति । आमोदमानानि विदूरगगन्धवन्ति
सरसानि रसोपयु- क्तानि स्फुटितानि विकसितानि यान्यरविन्दानि कमलानि तेषां राशिः समूहस्तस्य दत्तः
प्रकरो निवहो [^4]यस्मिन् । आकीर्णेति । आंकीर्णानि व्याक्षिप्तानि सरसबिसकाण्डानि मृणालसमूहा यस्मिन् ॥
अकाण्डेऽप्रस्तावे कल्पितः कृतः प्रावृट्कालो वर्षासमयस्तमिव । काभिः । शैवलानि तेषां प्रवालमञ्जर्यः किस-
लयवल्लर्यस्ताभिः । किं कुर्वन्तीभिः । इतस्ततो वर्षन्तीभिर्यत्र तत्र निपतन्तीभिः । पुनः कीदृशं जलमण्डपम् ।
बह्वीभिर्वाराङ्गनाभिर्वारयोषिद्भिरुपेतं सहितम् । कथंभूताभिः । सद्यस्तत्कालं यत्स्नानं तेनार्द्र: समुन्नश्चिक-
टिप्प० -

 
[^
1]F. इयमव्युत्पन्नता तु चिरानुवृत्तैव टीकाकारस्य । ललनाकपो- लेषु इति न स्वतन्त्रम्, अपि तु
रक्ततामरससदृशेषु ललना कपोलेषु (अधिकरणेषु ) धर्मजलकणिकावलीषु विराजमानासु सतीष्वित्य- न्वयः ।

[^2]F
.2 अन्तरा मध्ये आलम्बितानि लम्बनेन गृहीतानि जलानि यैः तादृशा ये जम्बूनां प्रवालाः पल्लवाः तैः,
जम्बूपल्लवानां हारित्याधि- क्याच्छ्यामतेत्याशयः ।
[^
3]F. आमुक्ताभिस्तस्मिन्स्थाने न्यस्ताभिः कुसुमपल्लवलता-

भिरावृत इति सरलोऽर्थः ।
[^
4]F. पाठान्तरेषु नीचैर्विधृतं विशेषणद्वयमपि ग्रन्थस्थं रसिकैरा- योज्यमेतन्मध्ये ।
 
'
 
पाठि० -

 
[^
]G. त्रुटित.
[^
]G. स्मर्यमाणायां च .
[^
]G. आवाञ्छ्यमाने.
[^
]G. धारावेग .
[^
]G. संचयमतनु रिचन्दन चर्चा
र्द्रमरकतश्यामपद्मिनी पलाशा- स्तीर्णसमस्त भूतलमामोद.
[^
]G. काण्डाकाण्डकल्पि
 
त.