This page has not been fully proofread.

५६५
 
मध्याहः ]
 
उत्तरभागः ।
 
वृन्देषु, अरविन्ददलशकल किंजल्क विच्छु रितमिच्छाविलोडितो त्रुटित बिसकाण्डच्छेददन्तुरं
निपानसरःपङ्कमारोह करियूथेषु, रक्ततामरसकान्तिषु ललनाकपोलोपान्तेषु दलितमुक्ता-
क्षोदानुकारिणीषु विराजमानासु घर्मजलकणिकावलीषु, स्मर्यमाणायां ज्योत्स्नायाम्, गृह्यमाणेषु
तुषारगुणेषु वाञ्छ्यमाने पयोदकालाभ्यागमे, अभ्यर्ध्यमाने दिवसपरिणामे, प्रदोषदर्शना-
का हृदयेषु, उत्थाय सरस्तीरकल्पितमनवरतापतज्जलासार सेकनिवारितोष्णकरकिरण-
संतापम्, एकसंतानावलीधारावर्षवेगवाहिन्या निर्झरिण्येव फुल्यया परिक्षिप्तम्, अन्तरा
लम्बितजलजम्चूप्रवालसहितान्धकारम्, आमुक्तकुसुमपल्लवलता वृताखिलस्तम्भसंचैयम्, आ-
मोदमानसरसस्फुटितार विन्दराशिदत्तप्रकरम्, आकीर्णसरसबिसकाण्डम्, अकाण्डकल्पि-
तप्रावृट्कालमितस्ततो वर्षन्तीभिः शैवलप्रवालमञ्जरीभिः, जलदेवताभिरिव सद्यः स्नानाई-
तेषु महिषवृन्देषु रक्ताक्षसमूहेषु सत्सु । अरविन्देति । अरविन्दस्य कुशेशयस्य दलशकलानि पत्रखण्डानि
किंजल्कं च केसरं ताभ्यां विच्छुरितं कर्बुरितमिच्छया विलोडितेन मथनेनोत्रुटितानि यानि विसकाण्डानि
तेषां छेदा तैर्दन्तुरं मनोहरमेतादृशं निपानसरो 'निवाण' इति लोके प्रसिद्धं यत्सरस्तटाकं तस्य पङ्कं कर्दमं
करियूथेषु हस्तिवृन्देष्वारोहत्सु प्रविशत्सु सत्सु । रक्तं यत्तामरसं कमलं तद्वत्कान्तिर्येषामेवंविधेषु ललनानां
कपोलानामुपान्तेषु समीपेषु सत्सु । दलितेति । दलिता म्रदिता या मुक्ता मौक्तिकानि तासां क्षोदचूर्ण
तदनुकारिणीषु तत्सादृश्यकरणशीलासु धर्मजलस्य प्रम्वेदस्य कणिकानामावलीषु श्रेणिषु विराजमानासु शोभ-
मानासु सत्सु । ज्योत्स्नायां चन्द्रिकायां स्मर्यमाणायां स्मृतिगोचरी क्रियमाणायां सत्याम्, तुषारगुणेषु हिमगुणेषु
गृह्यमाणेषु सत्सु । पयोदकालस्य प्रावृदसमयस्याभ्यागम आगमने वाञ्छ्यमान ईप्स्यमाने सति । दिवसस्य वासरस्य
रामेऽवसानेऽभ्यर्थ्याने प्रार्थ्यमाने सति । प्रदोषो यामिनीमुखं तस्याकाङ्क्षिषु वाञ्छकेषु हृदयेषु मनःसु
सत्सु, उत्थायोत्थानं कृत्वा जलमण्डपमयासीदिति दूरेणान्वयः । जलमण्डपं विशेषयन्नाह - सर इति ।
सरसस्तटाकस्य तीरं तटं तस्मिन्कल्पितं विहितमनवरतं निरन्तरमापतन्क्षरन्यो जलासारो वेगवद्वृष्टिस्तेन सेकः
सिञ्चनं तेन निवारितो दूरीकृत उष्णकरस्य सूर्यस्य किरणसंतापो येन स तम् । एकसंतानानामेकपरम्पराणा-
मावलीभिर्यो धारावर्षस्तस्य वेगं वहतीत्येवंशीलया निर्झरिण्येव नदोव कुल्यया सारिण्या परिक्षिप्तं वलय-
तम् । अन्तरेण । अन्तरा मध्य आलम्बैितानि जलजम्बूप्रवालानि वेतसकिसलयानि तैराहितः स्थापितो-
ऽन्धकारो यस्मिन् । आमुक्तेति । आमुक्ता मुकुलकुसुमपलवा याभिरेवंविधा या लता वयस्ताभिरावृत
आच्छादितोऽखिलस्तम्भसंचयः समग्रस्थूणासमूहो यस्मैिन् । आमोदेति । आमोदमानानि विदूरगगन्धवन्ति
सरसानि रसोपयुक्तानि स्फुटितानि विकसितानि यान्यरविन्दानि कमलानि तेषां राशिः समूहस्तस्य दत्तः
प्रकरो निवहो यस्मिन् । आकीर्णेति । आंकीर्णानि व्याक्षिप्तानि सरसबिसकाण्डानि मृणालसमूहा यस्मिन् ॥
अकाण्डेऽप्रस्तावे कल्पितः कृतः प्रावृदकालो वर्षासमयस्तमिव । काभिः । शैवलानि तेषां प्रवालमञ्जर्यः किस-
लयवल्लर्यस्ताभिः । किं कुर्वन्तीभिः । इतस्ततो वर्षन्तीभिर्यत्र तत्र निपतन्तीभिः । पुनः कीदृशं जलमण्डपम् ।
बह्वीभिर्वाराङ्गनाभिर्वारयोषिद्भिरुपेतं सहितम् । कथंभूताभिः । सद्यस्तत्कालं यत्नानं तेनाई: समुन्नश्चिक-
टिप्प० - 1 इयमव्युत्पन्नता तु चिरानुवृत्तैव टीकाकारस्य । ललनाकपोलेषु इति न स्वतन्त्रम्, अपि तु
रक्ततामरससदृशेषु ललना कपोलेषु (अधिकरणेषु ) धर्मजलकणिकावलीषु विराजमानासु सतीष्वित्यन्वयः ।
.2 अन्तरा मध्ये आलम्बितानि लम्बनेन गृहीतानि जलानि यैः तादृशा ये जम्बूनां प्रवालाः पल्लवाः तैः,
जम्बूपलवानां हारित्याधिक्याच्छ्यामतेत्याशयः । 3 आमुक्ताभिस्तस्मिन्स्थाने न्यस्ताभिः कुसुमपल्लवलता-
भिरावृत इति सरलोऽर्थः । 4 पाठान्तरेषु नीचैर्विटतं विशेषणद्वयमपि ग्रन्थस्थं रसिकैरायोज्यमेतन्मध्ये ।
 
'
 
पाठि० -१ त्रुटित. २ स्मर्यमाणायां च ३ आवाञ्छ्यमाने. ४ धारावेग ५ संचयमतनु रिचन्दन चर्चा
मरकतश्यामपद्मिनी पलाशास्तीर्णसमस्त भूतलमामोद. ६ काण्डाकाण्डकल्पि