2024-04-01 12:36:47 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५६४
 
कादम्बरी ।
 
"वैशम्पायन वियोगदुःखं परिणामसुखमौषधमिव बहु मन्यमानो मुहूर्तमिव [^१]स्थित्वा विश्रान्तः
सुखितैरङ्गैरापूरिते तृतीयार्धया- मशङ्खे शरीरस्थितिकरणायोतिष्ठत् । उत्थाय च यत्रैव काद-
म्री तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरा- त्मा पुनरेव संव-
[^२]संवर्गिताशेषराजलोकः शरीरस्थितिमकरोत् ।
 
[ कथायाभू-
SO
 

 
कृताहारश्चान्तर्व्ज्वलतो मदनानलस्य वैशम्पायनविरहशोकामेग्नेश्च बहिरपि संतापदानाय
साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टा- स्वपि दिक्षु युगपत्प्रसारितकर: करोम्ययत्नेनैव
संतापमित्याकलथ्य्ये- व गगनतलमध्यमारूढे सवितरि, आतपव्याजेन रजतद्रव मिवोत्त- प्तमुद्भिगिरति
रश्मिजाले निर्भिद्य विशन्तीष्विव शरीरमा तपकणिका- सु, [^३]पुञ्ज्यमानप्राणिसंघातासु तलप्रवेशा-
त्संकटायमानासु पादपच्छायासु, बहिरालोकयितुं चाप्यपारयन्तीषु र्हे[^४]दृष्टिषु, [^५]ज्वैलत्खिव
स्विव दिङ्युखेषु, दुःस्पर्शासु भूमिषु, निःसंचारेषु पथिषु, संर्के[^६]संकटप्रपाकुटीरोदरोदपीति पुञ्जितेष्व-
ध्वन्येषु, नाँ[^७]नाडिंघमधम- श्वासातुरेषु स्वनीटाडावस्थायिषु पत्ररथेषु, पल्वलान्तर्जल प्रवेशितेषु महिष-
>
 

 
[ टि ]--
म्पायनस्य वियोगदुःखं विरहकृच्छ्रमौषधमिव, अर्थात्कटु- कभैषज्यमिव परिणामे प्रान्ते सुखं सौख्यकृद्द्वहु यथा
स्यात्तथा मन्यमानो जानानो मुहूर्तमिव घटिकाद्वयसदृशमिव स्थित्वा विश्रा- न्तो विश्रामं गतः सुखितैः सुखं
प्राप्तैरङ्गैस्तृतीयोऽर्धो यस्मिन्नेवंविधो यो यामः प्रहरस्तस्य शङ्खे जलज आपूरिते वादिते सति शरीर- स्थितिकर-
णायोदतिष्ठदुत्थितो बभूव । उत्थाय चोत्थानं कृत्वा यत्रैव यस्मिन्नेव स्थले कादम्बरी तत्रैव तस्मिन्नेव प्रदेशे
वैशम्पायन इति स्वधैर्यावष्टम्भेनैव स्वकीयसत्त्वावलम्बनेनैव हृदयं चेतः संस्तभ्य संस्तम्भनं कृत्वा शून्योऽ-
न्तरात्मा चेतो यस्य स तथा पुनरेव द्वितीयत्रा- वारमेव [^1]संवर्गित एकीभूतोऽशेषः समग्रो राजलोको यस्यैवंभू- तः
शरीर स्थितितिं देहपालनामकरोदकल्पयत् ।
 

 
कृतो विहित आहारो भोजनं येनैवंविधश्च सन्मदनानलस्य कामवहेह्ने- रन्तर्मध्ये ज्वलतः प्रज्वलतः सतो वैश-
म्पायनस्य विरहो वियोगस्त- स्माद्यः शोकः शुक् स एवाग्निर्वहिह्निस्तस्य च बहिरपि ज्वलतः सतः संतापदानाय
तप्तिवितरणाय साहायकमिव साहाय्यमिव कर्तुं विधातुमुपरिस्थितश्चातिकष्टमतिकृच्छ्रमष्टास्वपि दिक्षु युगपदेकवारं

प्रसारितकरो विस्तारित किरणोऽयत्नेनैवा प्रयासेनैवाहं संतापं करो- मीत्याकलय्येवाकलनां कृत्वेव गगनतलमध्यं
सवितरि सूर्य आरूढे प्राप्ते सति, आतपव्याजेनालोकमिषेणोत्तप्तमुष्णीकृतं रजतद्रवमिव रूप्यरसमिव रश्मिजाले
किरणसमूह उद्गिरत्युद्वमति सति, शरीरं देहं निर्भिद्य द्विधा कृत्वा विशन्तीष्विव प्रवेशं कुर्वन्तीष्विवात पकपक- णिकासु
सत्सु । पुञ्जयमानः संघातीक्रियमाणः प्राणिसंघातो जीवस- मूहो यास्वेवंविधासु पादपच्छायासु तलप्रवेशादधोगम-
नातू त्। किर- णानामिति शेषः । संकटायमानासु संकीर्यमाणासु सत्सु । बहिर- प्यालोकयितुं वीक्षितुं दृष्टिषु नेत्रे-
ध्
ष्वपारयन्ती व्ष्वशक्नुवतीषु सत्सु । ज्वलत्स्त्रिव दह्यमानेष्विव दिखेष्वाशाननेषु सत्सु । दुर्दुःखेन स्पर्शो यासा
मेवंविधासु भूमिषु सत्सु, निःसंचारेषु संचरणरहितेषु पथिषु मार्गेषु सत्सु । संकटा अविस्तीर्णा याः प्रपाः पानी-
यशालास्तासां कुटीराणि तेषामुदरेषु मध्येषूदकस्य पानमुदपी तिस्तदर्थं पुञ्जितेषु संघीभूतेष्वध्वन्येष्व ध्वनी नेषु
सत्सु । नाडिं धमतीति नाडिंधम एवं- विधो यः श्वासो निःश्वासस्तेनातुरेषु पीडितेषु स्वनीडानि स्वकीय- कुलाया.
स्तेष्ववस्था यिष्ववस्थानकारिषु पत्ररथेषु पक्षिषु सत्सु । पल्वलान्यखातसरांसि तेषामन्तर्जले प्रवेशितेषु प्रवेश कारि-
टिप्प० -

 
[^
1]F. 'संवर्जितराजलोकः' इत्येव पाठः । विसर्जितो राजन्यगणो येन सः, शरीरस्थितिकरणे
विसर्जनस्यैवौचित्यात् ।
 
पाठा० -

 
[^
]G. निद्राविश्रान्तसुखितैः; स्थित्वा विश्रान्तसुखितै : .
[^
]G. संवर्जितराजलोकः, .
[^
]G. पुञ्जमान, .
[^
]G. दृष्टिषु
आलोकेषु, दुरालोकेषु.
[^
]G. दिङ्मुखेषु ज्वलत्स्विव.
[^
]G. निःसंकट, .
[^
]G. नाडिंघम.