कादम्बरी /597
This page has not been fully proofread.
५६४
कादम्बरी ।
"वैशम्पायन वियोगदुःखं परिणामसुखमौषधमिव बहु मन्यमानो मुहूर्तमिव स्थित्वा विश्रान्तः
सुखितैरङ्गैरापूरिते तृतीयार्धयामशङ्खे शरीरस्थितिकरणायोतिष्ठत् । उत्थाय च यत्रैव काद-
म्वरी तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरात्मा पुनरेव संव-
गिताशेषराजलोकः शरीरस्थितिमकरोत् ।
[ कथायाभू-
SO
कृताहारश्चान्तर्व्वलतो मदनानलस्य वैशम्पायनविरहशोकामेश्च बहिरपि संतापदानाय
साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टास्वपि दिक्षु युगपत्प्रसारितकर करोम्ययत्नेनैव
संतापमित्याकलथ्येव गगनतलमध्यमारूढे सवितरि, आतपव्याजेन रजतद्रव मिवोत्तप्तमुद्भिरति
रश्मिजाले निर्भिद्य विशन्तीष्विव शरीरमा तपकणिकासु, पुज्यमानप्राणिसंघातासु तलप्रवेशा-
त्संकटायमानासु पादपच्छायासु, बहिरालोकयितुं चाप्यपारयन्तीषु र्हेष्टिषु, ज्वैलत्खिव
दिङ्युखेषु, दुःस्पर्शासु भूमिषु, निःसंचारेषु पथिषु, संर्केटप्रपाकुटीरोदरोदपीति पुञ्जितेष्व-
ध्वन्येषु, नाँडिंघमश्वासातुरेषु स्वनीटावस्थायिषु पत्ररथेषु, पलवलान्तर्जल प्रवेशितेषु महिष-
>
म्पायनस्य वियोगदुःखं विरहकृच्छ्रमौषधमिव अर्थात्कटुकभैषज्यमिव परिणामे प्रान्ते सुखं सौख्यकृद्द्वहु यथा
स्यात्तथा मन्यमानो जानानो मुहूर्तमिव घटिकाद्वयसदृशमिव स्थित्वा विश्रान्तो विश्रामं गतः सुखितैः सुखं
प्राप्तैरङ्गैस्तृतीयोऽध यस्मिन्नेवविधो यो यामः प्रहरस्तस्य शङ्खे जलज आपूरिते वादिते सति शरीरस्थितिकर-
णायोदतिष्ठदुत्थितो बभूव । उत्थाय चोत्थानं कृत्वा यत्रैव यस्मिन्नेव स्थले कादम्बरी तत्रैव तस्मिन्नेव प्रदेशे
वैशम्पायन इति स्वधैर्यावष्टम्भेनैव स्वकीयसत्त्वावलम्बनेनैव हृदयं चेतः संस्तभ्य संस्तम्भनं कृत्वा शून्योऽ-
न्तरात्मा चेतो यस्य स तथा पुनरेव द्वितीयत्रारमेव संवर्गित एकीभूतोऽशेषः समग्रो राजलोको यस्यैवंभूतः
शरीर स्थिति देहपालनामकरोदकल्पयत् ।
कृतो विहित आहारो भोजनं येनैवंविधश्च सन्मदनानलस्य कामवहेरन्तर्मध्ये ज्वलतः प्रज्वलतः सतो वैश-
म्पायनस्य विरहो वियोगस्तस्माद्यः शोकः शुक् स एवाग्निर्वहिस्तस्य च बहिरपि ज्वलतः सतः संतापदानाय
तप्तिवितरणाय साहायकमिव साहाय्यमिव कर्तुं विधातुमुपरिस्थितश्चातिकष्टमतिकृच्छ्रमष्टास्वपि दिक्षु युगपदेकवारं
प्रसारितकरो विस्तारित किरणोऽयत्नेनैवा प्रयासेनैवाहं संतापं करोमीत्याकलय्येवाकलनां कृत्वेव गगनतलमध्यं
सवितरि सूर्य आरूढे प्राप्ते सति, आतपव्याजेनालोकमिषेणोत्तप्तमुष्णीकृतं रजतद्रवमिव रूप्यरसमिव रश्मिजाले
किरणसमूह उद्गिरत्युद्वमति सति, शरीरं देहं निर्भिद्य द्विधा कृत्वा विशन्तीष्विव प्रवेशं कुर्वन्तीष्विवात पकणिकासु
सत्सु । पुञ्जयमानः संघातीक्रियमाणः प्राणिसंघातो जीवसमूहो यास्वेवंविधासु पादपच्छायासु तलप्रवेशादधोगम-
नातू । किरणानामिति शेषः । संकटायमानासु संकीर्यमाणासु सत्सु । बहिरप्यालोकयितुं वीक्षितुं दृष्टिषु नेत्रे-
ध्वपारयन्ती व्वशक्नुवतीषु सत्सु । ज्वलत्स्त्रिव दह्यमानेष्विव दिखेष्वाशाननेषु सत्सु । दुर्दुःखेन स्पर्शो यासा
मेवंविधासु भूमिषु सत्सु, निःसंचारेषु संचरणरहितेषु पथिषु मार्गेषु सत्सु । संकटा अविस्तीर्णा याः प्रपाः पानी-
यशालास्तासां कुटीराणि तेषामुदरेषु मध्येषूदकस्य पानमुदपी तिस्तदर्थं पुञ्जितेषु संघीभूतेष्वध्वन्येष्व ध्वनी नेषु
सत्सु । नाडिं धमतीति नाडिंधम एवंविधो यः श्वासो निःश्वासस्तेनातुरेषु पीडितेषु स्वनीडानि स्वकीयकुलाया.
स्तेष्ववस्था यिष्ववस्थानकारिषु पत्ररथेषु पक्षिषु सत्सु । पल्वलान्यखातसरांसि तेषामन्तर्जले प्रवेशितेषु प्रवेश कारि-
टिप्प० - 1 'संवर्जितराजलोकः' इत्येव पाठः । विसर्जितो राजन्यगणो येन सः, शरीरस्थितिकरणे
विसर्जनस्यैवौचित्यात् ।
पाठा० -१ निद्राविश्रान्तसुखितैः; स्थित्वा विश्रान्तसुखितै : २ संवर्जितराजलोकः, ३ पुअमान, ४ दृष्टिषु
आलोकेषु, दुरालोकेषु. ५ दिङ्मुखेषु ज्वलत्स्विव. ६ निःसंकट, ७ नाडिंघम.