2024-04-02 11:23:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पटमण्डपे दैनिक कार्यकरणम् ]
 
उत्तरभागः ।
 
५६३
 
-
 
शून्यदृष्टिर्गन्धमादने शनैः शनैर्वास भवनमयासीत् । तत्र चापनीत- समायोगो विमुच्यापि
शयनीये [^१]तरुतालवृन्तानिलेन संवी [^२]ज्ये मानोऽङ्ग संवाहकारिभिश्च शनैः शनैरपनीयमानागमनखेदः

सकलरजनी प्रजागर
खिन्नोऽपि चाप्राप्त निद्रासुखो दुःखासिकया पुनरपि दुःखान्तर हेतुं चिन्ता -
मेवाविशत्- 'यदि तावदप्रतिमुक्तस्ता- तेनाम्बया वा, महति शोकार्णवे नि [^३]क्षिप्य तौ, तनय-
विरहशोक- विक्लवं तातं शुकनासमम्बां च मनोरंमामना श्वास्यास्मादेव प्रदेशा- द्गच्छामि तदा
मयापि वैशम्पायनस्यानुकृतं भवति । निवृत्त्य पुन- र्गमने चामुक्ति पक्षमाशङ्कते मे हृदयम् ।
तत्किं करोमि ? [^४]- थवाऽस्थान एवाप्रतिमुक्तिशङ्का मे, प्रियसुहृदात्मानं मां च परित्य- जताध्य-
प्यपरेण प्रकारेण गै[^५]गमनमुत्पादयता कादम्बरीसमीपगम- नोपायचिन्तापर्याकुलमतेरुपकृतमेव ।
तदधुना वैशम्पायन प्रत्याप्रत्या- नयनाय यान्तं न तातो नाम्यावापि नार्यशुकनासोऽपि निवारयितुं शक्नोति
माम् । गतश्च वैशम्पायनसहित स्तेनैव पार्थेश्वे [^६]न पुर- स्ताद्गमिष्यामि ।' इति निश्चित्य तत्काल कृतं
 

 
[ टि ]--
शनैः शनैर्मन्दं मन्दं वासभवनं वासगृहमयासीदगमत् । तत्रेति । तस्मिन्वास भवनेऽपनीतो दूरीकृतः समा-
[^1]योगः संबन्धः । अन्येषामिति शेषः । येनैवंभूतोऽङ्गानि हस्तपादादीनि विमुच्य । तत्प्रयोजकप्रयत्नाभावादिति
भावः । शयनीये शय्यायां तरूणां वृक्षाणां तालवृन्तानि व्यञ्जनानि तेषामनिलेन वायुना संवीज्यमान उद्धूय-
मानोऽङ्गस्य शरीरस्य संवाहः संमर्दस्तत्कारिभिस्तत्करण- शीलैश्च । शनैः शनैर्मन्दमन्दमपनीयमानो दूरी क्रियमाण
आगम- नखेदो यस्यैवंभूतः । सकला समग्रा या रजनी तस्यां प्रजागरो जागरणं तेन खिन्नोऽपि खेदं प्राप्तोऽपि
दुःखेन कृच्छ्रेणासिकाव- स्थानं तयाऽप्राप्तं निद्रासुखं येनैवंविधः पुनरपि द्वितीयवारमप्येक- स्माद्दुःखादन्यानि
दुःखानि दुःखान्तराणि तेषां हेतुं निदानभूतां चिन्तां मानसीव्यथामविशत्प्रविष्टोऽभूत् । यदिति । तावदादौ

तातेन तारापीडेनाम्बया विलासवत्या वाऽप्रतिमुक्तोऽवि [^2]सृ- ष्टस्तौ मातृपितरौ महति गरिष्ठे शोकार्णवे शुक्समुद्रे
निक्षिप्य पात- यित्वा । तनयेति । तनयस्य वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकस्तेन विक्लवं विधुरं
तातं शुकनासमम्बां च मनोरमामनाश्वा- स्याश्वासनामकृत्वा स्मादेव प्रदेशात्स्थानायदि गच्छामि व्रजामि, तदा

मयापि चन्द्रापीडेनापि वैशम्पायनस्यानुकृतं भवति सादृश्यं कृतं स्यात् । निवृत्त्य व्याघुट्य पुनर्गमने च मे मम
हृदयं चेतोऽमुक्तिपै- [^3]पक्षमाशङ्कत आरेकते । तदिति हेत्वर्थे । अहं किं करोमि किं कुर्वे । अथवेति पक्षान्तरे
मे ममाप्रतिमुक्तिशङ्का ततो मोचनं स्यान्न वेति संदेहः अस्थान एवानवसर एव । अयुक्तैवेत्यर्थः । यतः प्रिय-

सुहृदा वल्लभमित्रेण वैशम्पायनेनात्मानं स्वं मां च चन्द्रापीडं परि- त्यजता त्यागं कुर्वताप्यपरेणान्येन प्रकारेण
विधानेन गमनं यात्रामु- त्पादयतोत्पत्तिं कुर्वता कादम्बर्या गन्धर्वसुतायाः समीपेऽभ्यर्णे गमनं यानं तस्योपाय-
चिन्तया पर्याकुला व्याकुला मतिर्यस्यैवंभूतस्य ममो- पकृतमेव । उपकारः कृत इत्यर्थः । एतन्मिषेण तत्र गमनं
सुखेन भविष्यतीत्यर्थः । तत्तस्माद्धेतोवैशम्पायनस्य प्रत्यानयनं पश्चादान- यनं तस्मै यान्तं व्रजन्तं न
तातस्तारापीडो नाम्बापि विलासवत्यपि नार्यशुकनासोऽपि मां चन्द्रापीडं निवारयितुं प्रतिषेधयितुं शक्नोति

समर्थो भवति । गतश्चेति । तत्र प्राप्तश्च वैशम्पायनसहितस्तेनैव पूर्वपरिशीलितेन पार्श्वेन वामदक्षि-
णयोरन्यतरेण पुरस्तादग्रे गमि- ष्यामि ब्व्रजिष्यामि इति निश्चित्य निश्चयं कृत्वा तत्कालकृतं तदात्व- विहितं वैश-
टिप्प० -

 
[^
1]F. गात्रात् अपनीतः समायोगः परिच्छदो येन ।
[^
2]F. अननुमत इति यावत् ।
[^
3]F. पितृ-
भ्यामविसर्जनपक्षम् ।
 
पाठा०—

 
[^
]G. तनु.
[^
]G. वीज्यमानो, .
[^
]G. निःक्षिप्य .
[^
]G. अस्थानप्रतिमुक्ति .
[^
]G. गमनमप्युत्पादयता.
[^
]G. अग्रतो.