This page has not been fully proofread.

५६२
 
कादम्बरी ।
 
[ कथायाम्-
तैकपार्श्वम्, अपरपार्श्वेऽपि कल्पितेन्द्रायुधावस्थानम्, उपवाह्य करेणुकाक्रान्तबाह्याङ्गणम्, अशे-
ष रावहितबहुवेत्तृलोकम्, महत्त्वाद्गम्भीरतयाने कसत्त्वशरणतया च महाजलनिधिमनुकुर्वा-
णम्- -तथा हि सवेलावनमिव यामावस्थिताने ककरिघटापरिकरेण, अन्तः प्रविष्टमहाशैलमिव
गन्धमादनेन, सकल्लोलमिव संचरत्संभ्रान्तकर्मान्तिकलोकोर्मिपरम्पराभिः, सावर्तमिव प्राहरि-
कजनमण्डलावस्थानैः, सलक्ष्मीकमिव वराङ्गनाभिः, सरत्नमिव महापुरुषैः, सहंसमालमिव
सितपताकाभिः, सफेनपटलमिव कुसुमप्रकरैः, हरिमिवानन्तभोगपरिकरं कायमानमविशत् ।
प्रविश्य चागृहीत प्रतिकर्मतया मलिनवेशाभिरुद्विग्नदीनमुखीभिरितस्ततो वँराङ्गनाभिर्या-
मिकलोकेन कर्मान्तिकैश्च प्रणम्यमानस्तूष्णीमिवालोककारकेणेव मदामोदेना वेदिते निसृष्ट-
.
 
योग्या उपवाह्या याः करेणुका हस्तिन्यस्ताभिराकान्तं व्याप्तं बाह्याङ्गणं यस्मिन् । अशेषेति । अशेषाणि
समग्राणि- यानि द्वाराणि तेष्ववहितः स्थापितो बहुवेतृलोको यस्मिन् । महत्त्वादायतत्वाद्गम्भीर तयाऽलब्धमध्य-
तयानेके ये सत्त्वाः प्राणिनस्तेषां शरणतयाश्रयतया च महाजलनिधिं महासमुद्रमनुकुर्वाणं विडम्बमानम् ।
तत्सादृश्यादिति भावः । तदेव दर्शयन्नाह
-- तथा हीति । सह वेलावनेन वर्तमानमिव । केन । यामाव-
स्थिताश्चतुष्किकास्थिता या अनेक करिघटास्तासां परिकरेणोपस्करेण । उच्चैस्त्वसाम्यात्करिघटानां वनसाम्यम्;
परिकरस्य श्वेतत्वसाम्याद्वेलायाः सादृश्यम् । अन्तः प्रविष्टो मध्यगतो महाशैलो महान्पर्वतो यस्मिन्नेवंभूत-
मिव । केन । गन्धमादनेन । गन्धमादननाम्ना गजेनेत्यर्थः । उच्चत्वकृष्णत्व साम्याद्गन्धमादनस्य पर्वतो-
पमानम् । सह कल्लोलेन तरङ्गेण वर्तमानमिव । काभिः । संचरन्त इतस्ततो भ्रमन्तः संभ्रान्ताश्च-
किता ये कर्मान्तिकलोकाः सेवकजनास्त एवोर्मिपरम्पराः ताभिः । सहावर्तेन पयसां भ्रमेण वर्तमानमिव ।
कैः । प्राहरिका ये जनास्तेषां मण्डलेनावस्थानैरुपवेशनैः । सह लक्ष्म्या वर्तमानमिव । काभिः । वराङ्गना-
भिरयोषिद्भिः । एतेन तासां लक्ष्मीतुल्यता सूचिता । सह रत्नेन मणिना वर्तमानमिव । कैः । महापुरुषैः
सत्पुरुषैः । एतेन महापुरुषाणां रत्नसादृश्यमाविष्कृतम् । सह हंसमालया सितच्छदपङ्ख्या वर्तमानमिव ।
काभिः । सितपताकाभिः श्वेतवैजयन्तीभिः । तासां हंसपकिसादृश्यादिति भावः । सह फेनपटलेन वर्त-
मानमिव । कैः । कुसुमानां पुष्पाणां प्रकरैः समूहै: । हरिमिवँ कृष्णमिव । अनन्तः संख्यातुमयोग्यो यो भोग-
स्तस्य परिकरः परिवारो यस्मिन् । हरिपक्षेऽनन्तस्य शेषनागस्य भोगः शरीरं तदेव परिकरो यस्येत्यर्थः । एवं-
विधं कार्य॑मानमविशत् । प्रवेशं चकारेत्यर्थः ।
 

 
प्रविश्य च प्रवेशं कृत्वा चागृहीतमनात्तं प्रतिकर्माङ्गसंस्कृतं याभिस्तासां भावस्तत्ता तथा मलिनः श्यामो
वेषो नेपथ्यं यासां ताभिः । उद्विममुद्वेगं प्राप्तमत एव दीनं स्वल्पतया दृश्यमानं मुखं यासामेवंविधाभिः ।
इतस्ततः संचर द्भिरिति शेषः । वराङ्गनाभिर्वरयोषिद्भिर्यामिकलोकेन चतुष्किकास्थितजनेन कर्मान्तिकैश्च दासा-
दिभिश्च प्रणम्यमानो नमस्क्रियमाणस्तूष्णीमिव जोषमिवालोककारकेण जनोत्सारकवेत्रिणा मदो दानं तस्या-
मोदेन परिमलेन चावेदिते ज्ञापिते गन्धमादने गजविशेषे निसृष्टा दत्ता शून्योपयोगरहिता दृष्टिर्हग्येनैवंभूतः
 
टिप्प० - 1 अयं लेखकदोषः स्याद् यत् 'वेत्रिलोक' इति स्थाने 'वेत्तृ' इति दृश्यते । अस्तु, वेत्री
राजप्रासादे वेत्रदण्डधारी । 2 'सहरिमिवानन्तभोगपरिकरैः' इत्येव पाठो योग्यः । पूर्व महाजलनिधि-
साम्यस्य प्रक्रान्तत्वात् 'हरिमिव' इत्युक्तौ स्वातन्त्र्येण हरेः साम्ये सिद्धे पूर्वप्रक्रान्तस्य तस्य स्पष्टम-
संगतिः । अनन्तैः भोग्यवस्तूनां परिकरैः समारम्भैः सहरिमिव ( इरिणा शयानेन नारायणेन सहित-
मिव) । पक्षेऽर्थष्टीकायाम् । 3 पटमण्डपम् । 4 राज्ञां समीपे 'आलोकय' इति भालोकं दर्शनं
जनयति स आलोककारकः तेनेव हस्तिनो मदामोदेन आवेद्यमाने सूध्यमाने ।
 
पाठा० - १ अवस्थित २ यामकस्थित ३ वाराङ्गनाभिः ४ च.
 
.
 
.