कादम्बरी /594
This page has not been fully proofread.
चन्द्रापीडस्य चेतसि चिन्ता ]
उत्तरभागः ।
५६१
नैरलंकृता मेदिनी । नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम् । न गुरवोऽनुवृत्त्या सुखं
स्थापिताः । न स्निग्धबन्धूनामुपकृतम् । न प्रणयिनो निर्विशेष विभवतां नीताः । न साधवः
परिवर्धिताः । नानुजीविनः संविभक्ताः । न दृष्टाः श्रुता वाऽङ्गनाः । न जातेन जीवलोकसुखा-
न्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामे कोऽपि हि प्राप्तः । किमेतत्तेन कृतम् ?'
इत्याक्षिप्तंचेताश्चिन्तयंश्रिम तस्मिन्नेव तरुतले स्थित्वा शून्यहृदयोऽपि यथाक्रियमाण-
प्रसादसंमानसंभावनासंभावित विसंसर्ज सकलमेव राजकम् । उत्थाय तत्क्षणकृतमुत्तम्भित -
तुङ्गतरतोरणाबद्धचन्दनमाल मुभयपार्श्वे स्थापितोत्पलत्र मुखपूर्ण हेमकलशम्, द्वारात्प्रभृति सिक्त-
मृष्टभूविभागम् अन्तर्बहिश्च प्रकीर्णसुरभिकुसुमप्रकरम् इतस्ततः संचरता कर्मान्तिकलो-
केन गृहीत विविधभृङ्गारम्, मणिचामरतालवृन्तरत्नपादुकापकरणपाणिभिर्वारवनिताभिश्चा-
कीर्णम्, वितानतलवर्तिना मदामोदाधिवासित दिगाननेन राजहस्तिना गन्धमादनेन सनाथीक-
१
"
7
-
न
>
नालंकृता न विभूषिता । आकल्पस्थाध्यायुगान्तस्थायि दिशोयायि दिग्गमनशीलं च यशः श्लोको न विप्रकीर्णं
न विस्तारितम् । गुरवो हिताहितोपदेष्टारोऽनुवृत्त्यानुकूल्येन सुखं यथा स्यात्तथा न स्थापिता नैकत्र स्थितिं
कारिताः : स्निग्धाः स्नेहवन्तो ये बन्धवो भ्रातरस्तेषां नोपकृतमुपकृतिर्न कृता । प्रणयिनः सुहृदो निर्विशेष
विभवतामशेषैश्वर्यतां न नीता न प्रापिताः । साधवः सज्जना न परिवर्धिता न वृद्धिं प्रापिताः । अनुजीविनः
सेवका न संविभेक्ता न संविभागीकृताः । नै कामुकतया दृष्टा वीक्षिताः श्रुता आकर्णिता वाङ्गनाः स्त्रियः ।
जातेनोत्पन्नेन सता जीवलोकसुखानि सांसारिकसौख्यानि नानुभूतानि । न भुक्तानीत्यर्थः । तेन वैशम्पाय-
मेन पुरुषार्थसाधनानां पुरुषार्थकरणानां धर्मार्थकामानां मध्य एकोऽप्यन्यतरोऽपि न प्राप्तः । तेन वैशम्पा-
यनेनैतत्किं कृतं किं विहितम् । इति पूर्वोक्त प्रकारेणाक्षिप्तचेता व्याकुलहृदयश्चिरमिव बहुकालसदृशं चिन्तय-
न्ध्यायंस्तस्मिन्नेव पूर्वोक्त एव तरुतले वृक्षतले स्थित्वा शून्यं हृदयं चेतो यस्यैवंभूतोऽपि यथायोग्यं क्रियमाणा
विधीयमाना प्रसादो वस्त्रादिप्रदानम्, संमानमत्यादरः तयोः संभावना चिन्तना तया संभावित संस्कृतं
सकलमेव समग्रभेव राजकं राजसमूहं विससर्ज गृहगमनाय निदेशं दत्तवान् । उत्थायोत्थानं कृत्वा तत्क्षणं
तत्कालं कृतं विहितमुत्तम्भितं नियन्त्रितं तुङ्गतरमुच्चैस्तरं यत्तोरणं तत्राबद्धा चन्दनमाला यस्मिन् । उभयेति ।
उभयपार्श्वयोर्वामदक्षिणयोः स्थापितो विन्यस्त उदूर्ध्वं पल्लवो मुखे यस्यैवंभूतः पूर्णहेमकलशो यस्मिन् । द्वारा-
प्रभृति प्रोल्या आरभ्य सिक्तः सिञ्चितो मृष्टः शोधितो भूमिभागो यस्मिन् । अन्तर्बहिश्च प्रकीर्णोऽव-
ध्वस्तः सुरभिकुसुमानां सुगन्धपुष्पाणां प्रकरः समूहो यस्मिन् । इतस्ततः संचरता भ्रमता कर्मान्तिकलोकेन
गृहीतो विविधोऽनेकविधो भृङ्गारः कनकालुका यस्मिन् । मणीति । मणिखचिता एताः चामराणि
वालव्यजनानि, तालवृत्तानि व्यजंनानि, रत्नानां मणीनां पादुका 'पावडी' इति प्रसिद्धा आदौ यस्मिन्नेता-
दृशमुपकरणमुपस्करः पाणौ हस्ते यासामेवंविधाभिर्वारवनिताभिर्वैश्याभिराकीर्णं मृतम् । वितानेति । विता-
'नमुल्लोचस्तस्य तलमधोभागस्तत्र वर्तिना मदस्य दानस्य य आमोदः परिमलस्तेन अधिवासितं सुरभीकृतं
दिशै आननं येनैवंभूतेन राजहस्तिना नृपकरिणा गन्धमादनेन सनाथीकृतं सहित मेकपार्श्व यस्मिन् । अपर्-
पापि तदितरपापि कल्पितं विरचितमिन्द्रायुधस्याश्वस्यावस्थानमुपवेशनस्थलं यस्मिन् । उपवाहयितुं
टिप्प० – 1 सम्यक् स्वधनांशदानेन परितोषिताः । 2 एतस्मात्पूर्व 'नाभ्यागताः कृता निस्तृषः' इति
पाठोऽप्यावश्यकः । अभ्यागताः याचका मनोरथपूरणेन निस्तृषो निर्लालसा न कृता इत्यर्थः । 3 दिशामिति
बहुवचनं युक्तम् ।
पाठा०- -१ विशेष. २ न दृष्टश्रुताभ्यागताः कृताः निस्तुषः नः नाम्यागताः कृता निस्तृषः न. ३ काममोक्षा-
णाम्. ४ चिरमेव. ५ विसर्ज्य ६ संमृष्ट. ७ दिङ्मण्डलेन.
७१ का०
'