कादम्बरी /593
This page has not been fully proofread.
५६०
[ कथामाम्-
दाम्करोत्येव । मत्त इव तस्मादपि बिभेत्येवापराधिजनः । मयीव तस्मिन्नपि सर्वाः संपदः ।
तमप्यालोक्य मामिवोत्पद्यते स्पृहा लोकस्य । अथागच्छंस्तातेनाम्बया वाऽऽर्यशुकनासेन मनो-
. रमया च तनयस्नेहोचितेन सौहार्देन न संभावितः ? विनयाधिक्येच्छुना तातेन शुकमासेन वा
किंचित्पीडा करमभिहितम् ? ताडितो वा ? तत्रापि नैवासावेवं स्नेहतः पिशुनस्वभावो वा,
गुरुजनाभक्तो वा, गुणोपादाम विमुखो वा, तरलचित्तो वा, यत्किंचनकारी यः कश्चिदिव
क्षुद्रप्रकृतिरौढ्यपुत्रतागर्वितो दुःशिक्षितो दुर्विनीतो वा, पुत्रैकतादुर्ललितो वा, यो जम्मनः
प्रभृति सर्वप्रकारोपकारिणो गुरुजनस्योपरि खेद्मेवं कुर्यादनुबन्धाद्विरमेद्वा । प्रशमस्यापीह-
शस्य नैष कालः । अद्याप्यसौ विद्वजनोचिते गार्हस्थ्य एव न निवेशितः, देवपितृमनुष्याणा-
मानृण्यमेव नोपगतः, अगत्वा चानृण्यमृणत्रयेण बद्धः क गतः ? न तेन पुत्रपौत्रसंतत्या वंशः
प्रतिष्ठां नीतः । नानन्तदक्षिणैर्महाऋतुभिरिष्टम् । न सत्रकूपप्रपा प्रासादतटाकारामादिभिः कीर्त-
नोऽपि प्रसादान्वस्त्रादिप्रदानरूपान्करोत्येव सृजत्येव । मत्त इव मदिव तस्मादपि वैशम्पायनादप्य-
पराधिजनो बिभेत्यव भीतिं प्राप्नोत्येव । मयीन मदिव तस्मिन्नपि वैशम्पायनेऽपि सर्वाः समप्राः संपदों
विभूतयः । तमपि वैशम्पायनमप्यालोक्य निरीक्ष्य मामिव चन्द्रापीडमिव लोकस्य जनस्यापि स्पृहा
बाञ्छोत्पद्यते जायते । आगच्छन्नसौ तातेनाम्बयां वार्यशुकनासेन मनोरमया वा तनयः पुत्रस्तस्मिन्स्लेहः
श्री तिस्तस्यो चितेन योग्येन सौहार्देन प्रीत्या न संभावितो नालोचितः ? विनयः प्रश्रयस्तस्याधिक्यमधिकता
तदिच्छतीत्येवंशीलेन तातेन शुकनासेन वा किंचिन्मनाक्पीडाकर पीडाजनकमभिहितं कथितम् ।
ताडितो वा प्रहतो वा : तत्रापि ताडनादिष्वप्यसौ वैशम्पायनो मद्विषये स्नेहेतः स्नेहान्नैव पिशुनस्वभावः खल-
प्रकृति: । गुरुजनानां पित्रादीनां वाऽभक्तोऽनाराधकः । गुणानामुपादानं ग्रहणं तत्र विमुखः परायुखो वा ।
तरलं चित्तं यस्य स तथा चञ्चलहृदयो वा । यत्किंचन यत्तत्करोतीत्येवंशीलः स तथा यः कश्चिदिन क्षुद्रप्रकृतिस्तु-
च्छखभाव आढ्यपुत्रतया वा, गर्वितः स्मयं प्राप्तो दुःशिक्षितो दुरध्यापितो दुर्विनीतो वा प्रश्रयरहितः, पुत्रस्यै-
कतैक्यं तया दुर्ललितो दुश्चेष्टितो वा यो जन्मनः प्रभृत्युत्पत्तिमाय सर्वप्रकारेणोपकारिण उपकृतिविधायिनो
गुरुजनस्य मातृप्रभृतिलोकस्योपर्येवं खेदं कुर्याद्विदभ्यात् । अनुबन्धात्संबन्धाद्वा विरमेन्निवर्तेत । ईदृशस्यैता दशस्य
प्रशमस्यापि नैष कालो नायं समयः । अत्र सर्वत्र वाशब्दो विकल्पार्थः । अद्याप्यय यावत्, स वैशम्पायनो
विद्वज्जनोचिते पण्डितलोकयोग्ये गार्हस्थ्ये गृहस्थाश्रम एव न निवेशितो न स्थापितः । देवाश्च पितरच मनु-
घ्याच तेषामानृण्यम नृणभावमेव नौपगतो न प्राप्तः । सुतोत्पादकत्वाभावादिति भावः । आनृण्यमगत्वा प्राप्य
च ऋणत्रयेण पूर्वोक्तेन बद्धो नियन्त्रितः क्व गतः क्व प्राप्तः । तेन वैशम्पायनेन पुत्रपौत्रसंतत्या वंशोऽन्वयो
न प्रतिष्ठां नीतो न प्रौढिमारोपितः । अनन्ता अपरिमिता दक्षिणा यज्ञसमाप्तेरनन्तरं दानं येष्वेवंविधैर्महा-
तुभिर्महायज्ञैर्नेष्टं न यज्ञाः कृताः । संत्रेति । सत्राणि दानशालाः, कूपा अवटाः, प्रपाः पानीमशालाः, प्रासादा
देवभूपानां सद्मानि, तटाकानि सरांसि आरामाः कृत्रिमवनानि, एतत्प्रभृतिभिः कीर्तनैर्नामभिर्मेदिनी वसुधा
टिप्प० -1 'नैवासापेवं वञ्चन-पिशुनस्वभावो वा' इत्यपि पाठः । असौ (वैशम्पायनः) एवं वञ्चनः
प्रतारकः पिशुनः खलः स्वभावो यस्य तथाभूतो नास्तीत्यन्वयः । 2 अनु पश्चाद् बन्धः अनुगत्यं तस्मात् ।
3 ' नापूर्तैः कीर्तनैः' इति पाठः । आसमन्तात् विश्वजनानां तृप्तिसाधनैः कर्मभिः, कीर्तनैः कीर्तनीयैः
कायैः ।
पाठा० -१ अध्यागच्छन्. २ च. ३ एवमखेहलः; एव वञ्चना; एव मम लेहस्य ४ राजपुत्रता. ५ अपूर्वैः
कीर्तनैः.