This page has not been fully proofread.

वैशम्पायनस्थावस्थाश्रवणम् ]
 
भिधायोत्थाय स्नात्वा कन्दमूलफलैर्वनवासोचितां शरीरस्थितिमकरोत् । निर्वर्तित शरीर
स्थितौ तस्मिन्वयमपि कृतवन्तः । अनेनैव च क्रमेण विस्मितान्तरात्मानो रात्रौ च दिवा च
किमेतदिति तर्हेत्तान्तमेवानुभावयन्तो दिनत्रयं स्थित्वा निष्प्रत्याशास्तदागमनानयनयोः सुक्क-
तशम्बेलसंविधानं तत्परिकरं तन्त्र स्थापयित्वा चागता वयम् । यचायतो न प्रेषितः संवाद-
कस्तदेकं तावदन्तरा गच्छतो देवस्थासौं न परापतत्येव । अपरमपि चिराप्रविष्टमात्रस्यैव
देवस्य मा पुनरागमनकेशोऽभूत्' इति ।
 
उत्तरभागः ।
 
चन्द्रापीडस्य तु तं स्वप्नेऽप्यनुत्प्रेक्षणीयं वैशम्पायनवृत्तान्तमाकर्ण्य युगपदुद्वेग विस्मयाभ्या
माक्रान्तहृदयस्योदपादि चेतसि – 'किं पुनरीदृशस्य सर्वपरित्यागकारिणो वनवासैकशरणस्थ
वैराग्यस्य कारणं भवेत् । स्वयं च न पश्यामि किंचित्स्खलितम् । तातप्रसादानु मामिव
समपि चरणतळलुलितचूडामणयोऽर्चयन्त्येव राजानः । ममेव तस्यापि चेच्छोधिकेषु सर्वोप-
भोगेषु न किंचिदपि हीयते । ममेव तस्याप्याज्ञा न विहन्यत एव । अहमिव सोऽपि प्रसा-
द्वैतोरत्र निष्फलैवांभ्यर्थना प्रार्थना । इत्यभिधायेत्युक्त्वोत्थायोत्थानं कृत्वा स्नात्वा च कन्दमूलफलैः कृत्वा वन
बासस्योचितां योग्यां शरीर स्थितिं देहंसाधन मकरोदकल्पयत् । निर्वर्तिता निष्पादिता शरीरस्थितिर्येनैवं विधे तरिम
ग्वैशम्पायने सत्यपि वयमपि कृतवन्तो निष्पादितवन्तः । शरीर स्थिति मिति शेषः । अनेनैव क्रमेण परिपाच्य
विस्मितो विस्मयं प्राप्तोऽन्तरात्मा येषामेवंभूता वयं रात्रौ निशायां च दिवा वासरे च किमेतदिति तद्वृत्तान्त
सदुदन्तमनुभावयन्तोऽनुचिन्तयन्तो दिनत्रयं स्थित्वावस्थानं कृत्वा तस्य वैशम्पायनस्यागमनमानयनं च तयोग
निष्प्रत्याशा निराशाः सन्तः सुकृतमेव शम्बलं पाथेयं तस्य संविधानं करणं तस्य तदेव च परिकर परिच्छद
तत्र तस्मिन्प्रदेशे स्थापयित्वा च वयमागता आयाताः । यच्चेति । यदप्रतः संवादक: संदेशहारको न प्रेषितो
न प्रहितः । तत्र नियामकद्वयम् । तदेव दर्शयन्नाह - तदेक मिति । एकं तावद्देवस्य गच्छतोऽन्तरा मध्ये
ऽसौ न परापतत्येव न मिलितुं शक्नोलेव । अपरमप्यन्यदपि नियामकम् । चिराद्वहुकालेन प्रविष्टमात्रस्यागतमा
शस्य देवस्य पुनर्द्वितीयवारमागमनक्लेशो माभूत् । माब्योगे लुङ् ।
 
• चन्द्रापीडस्य तु स्वप्नेऽपि स्वप्नदशायामप्यनुत्प्रेक्षणीयमवितर्कणीयं वैशम्पायनवृत्तातं मन्त्रिसुतोदन्तमाकर्ण्य
श्रुत्वा युगपत्सम कालमुद्वेगोऽरतिर्विस्मय आश्चर्य च ताभ्यामाकान्तं व्याप्तं हृदयं चेतो यस्यैवंभूतस्य चन्द्रापीड-
स्येति चेतस्युदपाद्युत्पन्नम् । ईदृशस्या निर्वचनीयस्य सर्ववस्तुनः परित्यागं करोतीत्येवंशीलस्य वनवास एवैक
मद्वितीयं शरणं यस्यैवंभूतस्य वैराग्यस्य कारणं निदानं किं पुनर्भवेत् । स्वीयमात्मीयं च स्खलितं वैगुण्यं किंचि-
• न्मनाङ् न पश्यामि नावलोकयामि । तातप्रसादात्पितुरनुग्रहात् तु मामिव चन्द्रापीडमिव तमपि वैशम्पायन-
मपि चरणतलेऽङ्गितले लुलिता लुठिताचूडामणयः शिरोमणयो येषामेतादृशो राजानो भूभुजोऽर्चयन्त्येष पूजय-
न्त्येव । ममेव चन्द्रापीडस्येव तस्यापि वैशम्पायनस्यापीच्छाधिकेषु समीहाभ्यधिकेषु सर्वेषूपभोगेष्वना दिषु न
किंचिदपि मनागपि हीयते । न्यूनं न भवतीत्यर्थः । हीयत इति कर्तरिप्रयोगः । ममेव तस्यापि वैश-
म्पायनस्याप्याज्ञा निदेशोऽन्यैर्न विहन्यत एव न खण्ड्यत एव । अहमिव चन्द्रापीड इव सोऽपि वैशम्पाय-
टिप्प० -1 मत्र अपिप्रयोगः प्रमादः । 2 विरूपी कृतवान् ग्रन्थमिह । 'सुकृतबलसंविधानम्'
इति पाठः । सुष्टुकृतं बलस्य (सैन्यादेः ) संविधानं यस्मिन् तथोक्तं तत्परिकरम् (वैशम्पायनस्य परिकर
परिजनादिकम् ) तत्रैव स्थापयित्वा इति तदर्थः । 3 'संवाद' इत्येव पाठः ।
 
2
 
पाठा० -१ निवर्तित. २ अनेन चैव. ३ आत्मनो ४ तम्. ५ बल ६ संदेशकः; संवादः ७ एवम्.
८ प्रविष्टकायमात्रस्य ९ स्मय. १० चिन्ता. ११ लुठित. १२ वाञ्छाषिकेषु १३ अहमपि ० १४ प्रसादात्करोति.
 
..