कादम्बरी /591
This page has not been fully proofread.
५५८
कादम्बरी ।
[ कथायाम्-
9
प्राप्तमपि करतलादेवैवमाच्छिद्य दैवेन नीतम्' इत्यभिदधानश्च कौतुकात्, 'किमेतत् येनैव
आपसे । नायासि देवस्य चन्द्रापीडस्य समीपम्' इत्यस्माभिः पुनःपुनः पृष्टोऽध्यभ्यधात्-
'लज्जेऽहमेवं वक्तुम् । तथापि शपामि वयस्य चन्द्रा पीडस्यैव जीवितेन, यदि किंचिदपि
जानामि, यत्केन कारणेन न शक्नोम्यतो गन्तुमिति । अपि च भवतामपि प्रत्यक्ष एवायं
वृत्तान्तः । तद् व्रजन्तु भवन्तः' इत्युक्त्वा तूष्णीमभूत् ।
मुहूर्तादिव चोत्थाय तेषु तेषु रम्यतरेषु तरुतलेषु लतागहनेषु सरस्तीरेषु तस्मिंश्च देवा-
यतने किमपि नष्टमिवान्विष्यन्ननन्यदृष्टिर्बभ्रामा चिरमिव खिन्नान्तरात्मा
.
सनिर्वेदमूर्ध्वं निःश्वस्य तस्मल्लतागहने पुनरुपविश्य तस्थौ । वयमपि कृतवीरुत्संनिधानास्त
प्रतिबोधनप्रत्याशया स्थिता एव । गतवति समधिक इव यामद्वये शरीरस्थितिकरणायास्मा-
भिरभ्यर्थितः प्रत्युवाच - 'वयस्य चन्द्रपीडस्य खल्वमी स्वजीवितादपि वल्लभतराः प्राणाः ।
तद्यदि बलादपि परित्यज्य मां गच्छन्ति, तथाप्येषां, संधारणे मया यंत्रः कार्य: । किं पुनर-
गच्छतामेव । चन्द्रापीडदर्शनेनैव चाहमर्थी । न मृत्युना । तदभ्यर्थनैवात्र निष्फला' इत्य-
यावत्प्राणघारणं तावदातृप्तेर्भवतु संपद्यताम् । अल्पपुण्यस्य तु मे मम तद्दर्शनसुख प्राप्तमपि लब्धमपि करतला-
देव हस्ततलादेव । एवं पूर्वोकन्यायेनाच्छिद्याक्षिप्य दैवेन विधिना नीतं गृहीतमित्यभिदधान इति ब्रुवाणश्च,
कौतुकात्कुतूहलेनैतरिक वर्तते, येन हेतुना त्वमेवं भाषस एवं वदसि । देवस्य चन्द्रपीडस्य समीपमभ्यर्ण नायासि
नागच्छसि । इत्यस्माभिः पुनः पुनर्वारंवारं पृष्टोऽप्यनुयुक्तोऽप्यभ्यधादवोचत् । अहमेवं वक्तुं कथयितुं लज्जे
पामि । तथापि लज्जावत्त्वेऽपि वयस्य चन्द्रापीडस्यैव जीवितेन प्राणितेन शपामि शपथं करोमि, यद्यहं किमपि
जानाम्यवकलयामि । केन कारणेनातो गन्तुं यन शक्नोमि न समर्थो भवामीति । अपि च युक्त्यन्तरे । भव
तामपि युष्माकमध्ययं वृत्तान्त उदन्तः प्रत्यक्ष एवानुभवसिद्ध एव । तत्तस्माद्धेतोर्भवन्तो व्रजन्तु गच्छन्तु ।
इत्युक्त्वा तूष्णीमभूत् । मौनेन स्थितवानित्यर्थः ।
7
मुहूर्तादिवोत्थाय चोत्थानं कृत्वा च तेषु तेषु रम्यतरेष्वतिमनोहरेषु तरुतलेषु वृक्षतलेषु लतागहनेषु वल्ली-
गहरेषु सरस्तीरेषु तटाकतटेषु तस्मिंश्च देवायतने चैत्ये किमपि किंचिदपि नष्टमिव गतमिवान्विष्यञ्शोधयन्
नं अन्यस्मिन्दृष्टिर्यस्यैवंभूतो बभ्रम भ्रमणं चकार । चिरमिव चिरकालसदृशं भ्रान्त्वा च भ्रमणं कृत्वा खिन्नः
खेदं प्राप्तोऽन्तरात्मा मनो यस्य स सनिर्वेद सखावमाननमूर्ध्व भुपरिष्टान्निःश्वस्य निःश्वासं मुक्त्वा तस्मिन्पूर्वोक्ते
लताहने पुनर्द्वितीयवारमुपवियोपवेशनं कृत्वा तस्थौ स्थितवान् । कृतं विहितं वीरुधां वल्लीनां संनिधानं सा
मीप्यं येरेवंविधा वयमपि तस्य वैशम्पायनस्य प्रतिबोधनं तस्य प्रत्याशा वाञ्छा तया स्थिता एव । समधिके
किंचिदधिके यामद्वये प्रहरद्वितये गतवति व्यतीते सति शरीरस्थितिकरणाय देहधारणाकृतेऽरमाभिरभ्यर्थितः
प्रार्थितः प्रत्युवाच प्रत्यब्रवीत् । वयस्यस्य मित्रस्य चन्द्रापीडस्य खलु निश्चयेनामी प्राणाः स्खजीवितादपि स्वकी-
यंजीवितव्यादपि वल्लभतराः । अतिशयेन प्रिया इत्यर्थः । तत्तस्माद्धेतोर्बलादपि हठादपि यदि मां परित्यज्य मुक्त्वा
गच्छन्ति व्रजन्ति, तथाप्येषां प्राणानां संधारणे रक्षणे मया यत्नः प्रयासः कार्यः । अगच्छतामव्रजतामेवैषां किं
• पुनर्भयते । चन्द्रापी उदर्श मेनैव चन्द्रापीडावलोकनेनेवा हमथ प्रयोजनधान्न । न मृत्युमा न कालधर्मेण । तस्मा-
i
टिप्प० -1 'ऊर्ध्वं च निःश्वस्य' इत्येवोषितः पाठः ।
पाठा०-१ शक्लोमि०. २ अभवत् ३ तागृहेषु. ४ ऊर्ध्व: च. ५ अन्यतरस्मिन्; अन्यतमसिन्; ६ प्रतिबोधना.
७ प्रयतः.