कादम्बरी /590
This page has not been fully proofread.
वैशम्पायनवृत्तान्तः ]
उत्तरभागः ।
रण्ये भवन्तमेकाकिनमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्राफीडेनैव किं
बक्तव्या वयम् ? किमन्यो देवञ्चन्द्रापीडः, अन्यो वा भवान् ? तदुन्मुच्यतामयं संमोहः ।
गमनाय धीराधीयताम्' ।
-
इत्यभिहितोऽस्माभिरीष दिव विलक्षहासेन वचनेनास्मानवादीत् - किमहमेतावदपि न
वेझि, यद्गमनाय मां भवन्तः प्रबोधयन्ति । अपि च चन्द्रापीडेन विना क्षणमप्यहमन्यन्त्र
न पारयामि स्थातुम् । एषैव मे गरीयसी परिबोधना। तथापि किं करोमि । अनेनैव क्षणेन
सर्वत्र विगलितं मे प्रभुत्वम् । तथाहि
- स्मरन्निव किमपि मनो नान्यत्र प्रवर्तते, पश्यन्तीव
किमपि न दृष्टिरन्यतो वलति, आसक्तमिव कापि हृदयं किमपि न जानाति, निगड़िताविव
पदमपि दातुं न चरणावुत्सहेते । कीलितेव चास्मिन्नेव स्थाने तनुः । तदात्मना त्वमस
मर्थो यातुम् । अथ बलाद्रवन्तो मां निनीषवः तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवि-
तधारणं न संभावयामि । अत्र तु पुनस्तिष्ठतो यदेतदन्तर्हदये किमयनवसीयमानं विपरि-
वर्तते मे येनैव विधृतोऽस्मि, तेनैवावश्यं धार्यन्ते प्राणा इति चेतेसि मे । तदलं निर्बन्धेन ।
तन्मे
गच्छन्तु भवन्तः । भवतु यावज्जीवमातृप्तेश्चन्द्रापीडदर्शनसुखम् । अल्पपुण्यस्य तु
,
त्सृज्य त्यक्त्वा गताः सन्तो वयं चन्द्रवच्छीतलप्रकृतिना शिशिरस्खभावेन देवेन चन्द्रापीडेनैव किं वक्तव्याः
कि कथनीयाः ? किमन्यस्त्वदितरो देवश्चन्द्रापीड़ोऽन्यो वा चन्द्र पीडाद्भिनो भवांस्त्वम् ? तदिति हेत्वर्थे ।
अयं संमोहोऽज्ञानमुन्मुच्यतां त्यज्यताम् । गमनाय धीर्बुद्धिराधीयतां स्वीक्रियताम् ।
-
इति पूर्वोकप्रकारेणास्माभिरभिहितः कथित ईषदिव मनागिव विलेक्षं वीक्षापन्नं हासो हास्यं यस्मिन्नेवंविभेन
वचनेनास्मानवादीदब्रवीत् । अहमेतावदप्येतावन्मात्रमपि किं न वेद्मि न जानामि, यद्यस्मात्कारणाद्भवन्तो मां
गमनाय प्रबोधयन्ति प्रबोधं कुर्वन्ति । अपि चेति प्रकारान्तरे । चन्द्रापीडेन विनान्यत्रान्यस्मिन्प्रदेशेऽहं क्षणमपि
स्थातुं न पारयामि न समर्थो भवामि । एषैव पूर्वोक्तैव मे मम गरीयसी गरिष्ठा परिबोधना प्रतिबोधः । तथा
पीति । अहं किं करोमि किं कुर्वे । अनेनैव क्षणेन समयेन मे मम प्रभुत्वं सामर्थ्य सर्वत्र सर्वस्मिन्स्थले विग-
क्रितं विनष्टम् । तदेव दर्शयन्नाह - तथाहीति । मनोऽन्यत्र किमपि न प्रवर्तते । अत उत्प्रेक्षते - स्मरै शिव
स्मृतिं कुर्वचिव + दृष्टिर्हक्किमप्यन्यतो न वलति न पश्चानिवर्तते । अत उत्प्रेक्षते - पश्यन्तीव विलोकयन्तीव ।
हृदयं चेतः कापि कुत्रापि किमपि न जानाति नावकलयति । अत उत्प्रेक्षते -आसकमिवालममिव । चरणौ
पादौ पदमपि दातुं नोत्सहेते नोत्साहं कुर्वाते । अत उत्प्रेक्षते - निगडिताविव नियन्त्रिताविव । अस्मिनम
स्थाने मे तनुः शरीरं कीलितेव कील्या नियन्त्रितेव । तत्तस्मात्कारणादात्मना तु खेन वहं यातुमितो गन्तुम
समर्थोऽक्षमः । अथेति प्रकारान्तरे । भवन्तो यूयं बलाद्धठान्मां वैशम्पायनं निनीषवो नेतुमिच्छवः । तत्रापि
तस्मिन्चपि प्रदेशेऽस्मात्प्रदेशाचलितस्य गंतुं प्रवृत्तस्यात्मनः स्वस्य जीवितधारणं न संभावयामि । नावकल-
यामि । अत्र त्विति । अस्मिन्स्थले पुनस्तिष्ठतो मे यदेतदन्तर्हृदये चेतसि किमप्य निर्दिष्टना म कमन वड़ीयमान-
मज्ञायमानं विपरिवर्तते विपरिभ्रमति । येनैवाहं वितोऽस्मि । इति मे मम चेतस्यस्ति । इति योल्यमाह - तेने
बेति । तेनैव हृदयान्तर्वर्तिना प्राणा असवोऽवश्यं निश्चयेन धार्यन्ते प्रियन्ते । तत्तस्माद्धेतोर्निर्बन्धेनात्यामहे
णालं कृतम् 1 भवतो यूयं गच्छन्तु वजन्तु, चन्द्रापीडस्य दर्शनमवलोकनं तदेव तस्माद्वा सुखं यावज्जीवं
टिप्प०-1 विलक्षहासेन सलज्जस्मितेन । 2 'स्मरदिव' इति पाठः । ममसो नपुंसकत्वात् ।
पांडा० -१ बदनेन. २ श्वान्यत्र. १ अस्मिन्नेव ४ अवसीयमानम्; अवस्थीयमानम्. ५ चेतसि X
भवन्तु, ७ चन्द्रापीडमुखदर्शन.
●