कादम्बरी /59
This page has been fully proofread twice.
अपसृते च [^१]तस्मिन्स विहङ्गराजो राजाभिमुखो भूत्वो [^२]न्नमथ्य दक्षिणं चरणमतिस्पष्ट [^३]वर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यार्यामिमां पपाठ-
'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्ने:।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ १ ॥
राजा तु [^३]तामार्यां श्रुत्वा [^५]संजातविस्मयः सहर्षमासन्नवर्तिनम्, अति [^६]महार्घहेमासनोपविष्टम् अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, [^७]अतिवयसम्, अग्रजन्मानम्, [^८]अखिले मन्त्रिमण्डले प्रधानममात्यं कुमारपालितनामानमत्रवीत् - 'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता । प्रथमं तावदिदमेव [^९]महदाश्चर्यम्,यदय[^१०]मसंकीर्णवर्णप्रविभागामभि- [^११]व्यक्तमात्रानुस्वारसंस्कारयोगां विशेषसंयुक्तां [^१२]गिरमुदीरयति । तत्र [^१३]पुनरपरमभिमतविषये तिरश्चोऽपि
[टटि ] -- अपेति । तस्मिन्पुरुषेऽपसते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणां राजा विहङ्गराजः । 'राजाहःस-
खिभ्यष्टच्' राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरणणं पादमुन्नमयो व-
र्ध्वीकृत्य । शुकादीनां शब्दो-
च्चारणे तादृशोऽयं जातिस्वभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि खस्वरा उदात्तादय- स्तेषां
संस्कार : परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्रंर शुकादीनामस्पष्टो वर्णस्तथाप्येतस्य स्पष्टो वर्ण इति
विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स एवंविध इमामग्रे वक्ष्यमाणामार्यां
या पपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तनयुगं कुचयुग्मं व्रतमिव नियममिव चर-
त्यासेवते । तदेव विशिनष्टि - अभिवश्र्विति । अश्रुभिर्नयनसलिलैः स्नातं कृतस्नानम् । समीपेति । समीपतरवर्ति
संनिहि॑िहितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्वहिह्निस्तस्य । विमुक्त [^1]स्त्यक्त आ समन्ताद्धारो
येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ता [^2]हारः कृतस्नानोऽग्निसमीपस्थायी च स्यात् ॥ २१ ॥
राजा तु नृपोऽपि तामार्या गाथां श्रुत्वाकर्ण्य संजातविस्मयः समुत्पन्नाश्चर्यः सहर्षषं सप्रमोददं यथा स्यात्तथा-
सन्नवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममात्यं सचिवम- ब्रवीदवोचत् ।
अथामात्यं विशेषयन्नाह - अतीति । अतिमहार्घमतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं स्थितम् ।
अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्य- विवेकाविवेकप्रतिपादकानि तन्त्राणि तेषां
पर पारगं रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिकं वयो दिवस [^3]बाहुल्यं
'यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवर्णे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति । अखिले
समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधानं मुख्यम् । श्रुतेति । भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुकस्य वर्णाः
कादयस्तेषा- मुच्चारणे वक्तव्यतायां स्पष्टताऽश्लिष्टता श्रुताकर्णिता । तथा स्वरे स्वरविषये मधुरता माधुर्यम् । चकारः
पुनरर्थकः । प्रथममिति प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् ।
'अतिकौतूहलमित्यर्थः । तदेव दर्शयति - यदिति । यदयं गिरं वाणीमुदीरयत्युच्चरति । इतो वाणीं विशे-
षयन्नाह - असंकीर्णेति । असंकीर्णः परस्परवैलक्षण्येन प्रतीयमानो वर्णानामक्षराणां प्रविभागो भिन्नता
यस्यां सा तथा तम् । अभीति । मात्रा एकारादयः, अनुखास्वरा अनुनासिकाः, संस्कारो व्याकरणशुद्धिः, अभि-
व्यक्ताः प्रकटाः एतेषां योगाः संबन्धा यस्यां सा तथा ताम् । विशेषेति । विशेषः शब्दश्लेषादिस्ततेन संयुक्तां
-
टिप्प० ---
[^1]F. विगतो मुक्ता (मौक्तिक) हारो यस्मात्तत् । विमुक्त
इत्यर्थस्य व्रतपक्षे गृहीतत्वेनात्राऽचम-
स्कारित्वात् ।
[^2]F. परित्यक्तभोजन इत्यर्थः ।
[^3 ]F.अवस्थेत्याशयः ।
पाठा० - [^१ तसि]G. तस्मिन्विहङ्गराज : .
[^२]G. समुन्नमय्य.
[^३]G. वर्णसंस्कारया.
[^४]G. तां श्रुत्वा
[^५]G. जातविस्मय:
[^६]G. महार्हासनोप-
विष्टम्; महार्हहेमासनोपविष्टम्
[^७]G. अतिपरिणतवयसम्
[^८]G. अखिलमन्त्रिमण्डले प्रधानम्; अखिलमन्त्रिमण्डलप्रधानम्.
[^९]G.९ महत्तरमाश्चर्यम्; महाश्चर्यम्.
[^१०]G. असंकीर्ण.
[^११]G. अनुस्वारस्वरसंयोगविशेष; अनुस्वारस्वरसंयोगाम्.
[^१२ यद्रयम-
]G. यदयमतिपरिस्फुटाक्षरां गिरम्; यद्दयमतिपरिस्फुटां गिरम्.
[^१३]G. पुनर्यदियम्.
'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्ने:।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ १ ॥
राजा तु [^३]तामार्यां श्रुत्वा [^५]संजातविस्मयः सहर्षमासन्नवर्तिनम्, अति [^६]महार्घहेमासनोपविष्टम् अमरगुरुमिवाशेषनीतिशास्त्रपारगम्, [^७]अतिवयसम्, अग्रजन्मानम्, [^८]अखिले मन्त्रिमण्डले प्रधानममात्यं कुमारपालितनामानमत्रवीत् - 'श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता । प्रथमं तावदिदमेव [^९]महदाश्चर्यम्,यदय[^१०]मसंकीर्णवर्णप्रविभागामभि- [^११]व्यक्तमात्रानुस्वारसंस्कारयोगां विशेषसंयुक्तां [^१२]गिरमुदीरयति । तत्र [^१३]पुनरपरमभिमतविषये तिरश्चोऽपि
[
र्ध्वीकृत्य । शुकादीनां शब्दो
संनि
येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ता [^2]हारः कृतस्नानोऽग्निसमीपस्थायी च स्यात् ॥ २१ ॥
अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्य- विवेकाविवेकप्रतिपादकानि तन्त्राणि तेषां
पर
समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधानं मुख्यम् । श्रुतेति । भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुकस्य वर्णाः
टिप्प० ---
[^1]F. विगतो मुक्ता (मौक्तिक) हारो यस्मात्तत् । विमुक्त
इत्यर्थस्य व्रतपक्षे गृहीतत्वेनात्राऽचम
[^2]F. परित्यक्तभोजन इत्यर्थः ।
[^3 ]F.अवस्थेत्याशयः ।
[^२]G. समुन्नमय्य.
[^३]G. वर्णसंस्कारया.
[^४]G. तां श्रुत्वा
[^५]G. जातविस्मय:
[^६]G. महार्हासनोप
[^७]G. अतिपरिणतवयसम्
[^८]G. अखिलमन्त्रिमण्डले प्रधानम्;
[^९]G.
[^१०]G. असंकीर्ण.
[^११]G. अनुस्वारस्वरसंयोगविशेष; अनुस्वारस्वरसंयोगाम्.
[^१२
[^१३]G. पुनर्यदियम्.