कादम्बरी /59
This page has been fully proofread once and needs a second look.
कादम्बरी ।
[ कथामुखे -
www.
'स्तन
चरति विमुक्ताहा
9
राजा तु [^३]तामार्
[ ट ] -- अपेति । तस्मिन्पुरुषेऽपसते दूरीभूते सति स पूर्वोक्तो विहङ्गानां पक्षिणां राजा विहङ्गराजः । 'राजाहःस-
खिभ्यष्टच्' राजाभिमुखो नृपसंमुखो भूत्वा दक्षिणमपसव्यं चरण पादमुन्नमयो वकृत्य । शुकादीनां शब्दो-
चारणे तादृशोऽयं जातिस्वभावः । अतीति । अतिस्पष्टा अतिव्यक्ता वर्णा अक्षराणि खरा उदात्तादयस्तेषां
संस्कार : परिपाको यस्यां सा तथा तया । यद्यप्यन्यत्रं शुकादीनामस्पष्टो वर्णस्तथाप्येतस्य स्पष्टो वर्ण इति
विशेषः । एवंविधया गिरा वाण्या राजानमुद्दिश्य कृतो विहितो जयशब्दो येन स एवंविध इमामग्रे वक्ष्यमाणामार्यां
पपाठापाठीत् । स्तनेति । भवतस्तव रिपुस्त्रीणां दस्युवनितानां स्तनयुगं कुचयुग्मं व्रतमिव नियममिव चर-
त्यासेवते । तदेव विशिनष्टि - अभिवति । अश्रुभिर्नयनसलिलैः स्नातं कृतस्नानम् । समीपेति । समीपतरवर्ति
संनिहि॑ितवर्ति । कस्य । हृदयशोकः स्वभर्तृवियोगजनितं दुःखं तदेवाग्निर्वहिस्तस्य । विमुक्तस्त्यक्त आ समन्ताद्धारो
येन तत्तथा । अन्योऽपि यो व्रतं चरति सोऽपि विमुक्ताहारः कृतस्नानोऽग्निसमीपस्थायी च स्यात् ॥ २१ ॥
राजा तु नृपोऽपि तामार्या गाथां श्रुत्वाकर्ण्य संजातविस्मयः समुत्पन्नाश्चर्यः सहर्ष सप्रमोद यथा स्यात्तथा-
सन्नवर्तिनं समीपवर्तिनम् । कुमारेति । कुमारपालित इति नाम यस्यैवंभूतममायं सचिवमब्रवीदवोचत् ।
अथामायं विशेषयन्नाह - अतीति । अतिमहाघमतिबहुमूल्यं यद्धेमासनं सुवर्णासनं तत्रोपविष्टं स्थितम् ।
अशेषेति । अशेषाणि समग्राणि यानि नीतिशास्त्राणि लोककृत्यविवेकाविवेकप्रतिपादकानि तन्त्राणि तेषां
पर रहस्यवेत्तारम् । कमिव । अमरगुरुमिव बृहस्पतिमिव । अतीति । अत्यधिकं वयो दिवसबाहुल्यं
'यस्य स तथा तम् । अग्रेति । अग्रे प्रथमवर्णे जन्म यस्य स तम् । ब्राह्मणमित्यर्थः । अखिलेति । अखिले
समग्रे मन्त्रिमण्डले धीसचिवसमुदाये प्रधानं मुख्यम् । श्रुतेति । भवद्भिर्युष्माभिरस्य विहङ्गमस्य शुकस्य वर्णाः
कादयस्तेषामुच्चारणे वक्तव्यतायां स्पष्टताऽश्लिष्टता श्रुताकर्णिता । तथा स्वरे स्वरविषये मधुरता माधुर्यम् । चकारः
पुनरर्थकः । प्रथममिति प्रथममादौ तावदित्यन्यव्यवच्छेदार्थः । इदमेव प्रत्यक्षगतमेव महदाश्चर्यम् ।
'अतिकौतूहलमित्यर्थः । तदेव दर्शयति - यदिति । यदयं गिरं वाणीमुदीरयत्युच्चरति । इतो वाणीं विशे-
षयन्नाह - असंकीर्णेति । असंकीर्णः परस्परवैलक्षण्येन प्रतीयमानो वर्णानामक्षराणां प्रविभागो भिन्नता
यस्यां सा तथा तम् । अभीति । मात्रा एकारादयः, अनुखारा अनुनासिकाः, संस्कारो व्याकरणशुद्धिः, अभि-
व्यक्ताः प्रकटाः एतेषां योगाः संबन्धा यस्यां सा तथा ताम् । विशेषेति । विशेषः शब्दश्लेषादिस्तन संयुक्तां
-
टिप्प० ---1 विगतो मुक्ता (मौक्तिक) हारो यस्मात्तत् । विमुक्त इत्यर्थस्य व्रतपक्षे गृहीतत्वेनात्राऽचम-
स्कारित्वात् । 2 परित्यक्तभोजन इत्यर्थः । 3 अवस्थेत्याशयः ।
पाठा० - १ तसिन्विहङ्गराज : २ समुन्नमय्य. ३ वर्णसंस्कारया. ४ तां श्रुत्वा ५ जातविस्मय: ६ महार्हासनोप-
विष्टम्; महार्हहेमासनोपविष्टम् ७ अतिपरिणतवयसम् ८ अखिलमन्त्रिमण्डले प्रधानम्; अखिलमन्त्रिमण्डलप्रधानम्.
.९ महत्तरमाश्चर्यम्; महाश्चर्यम्. १० असंकीर्ण. ११ अनुस्वारस्वरसंयोगविशेष; अनुस्वारस्वरसंयोगाम्. १२ यद्रयम-
तिपरिस्फुटाक्षरां गिरम्; यद्यमतिपरिस्फुटां गिरम्. १३ पुनर्यदियम्.