कादम्बरी /588
This page has not been fully proofread.
वैशम्पायनवृत्तान्तः ]
उत्तरभागः ।
निमेषेण चक्षुषा विलोकयन्, स्तम्भित इव, मूर्च्छयोन्मुध्यमान इवेन्द्रियैः, झगित्युन्मुक्ताङ्गः;
समुपविश्य भूमौ किमप्यन्तरात्मना स्मरन्निव, अनुष्यायन्निव निर्विकारवदनो गलित-
लोचन पयोधारासंतानस्तूष्णीमधोमुखस्तस्थौ । तैथावस्थितं तमवलोक्यास्माकमुदपादि चेतसि
चिन्ता – येन केनचिदपहियन्त एव रसिकहृदया: परिणामधीरमतयोऽपि, किं पुनः कुतू-
हलास्पदे प्रथमे वयसि वर्तमानाः । तस्मान्नियतमियमस्येमामतिमनोहरां भूमिमालोक्य
भावयतो हृदयविकृतिरीदृशी जातेति । नैचिराच तमेवमवदाम वयम् - 'दृष्टा दर्शनीया-
नामवधिरेषा । तदुत्तिष्ठ । संप्रति निर्वर्तयामः स्नानविधिम् । अतिमहती वेला । सज्जीभूतं
साधनम् । प्रयाणाभिमुखः सकल: स्कन्धावारस्त्वां प्रतिपालयन्नास्ते । किमद्यापि विलम्बि-
तेन' इति । स त्वेवमुकोऽव्यस्माभिरश्रुता स्मदीयालाप इव, जड इव, मूक इव, अशिक्षित
1
विस्मरणं प्राप्तो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा विलोकयन्पश्यन्खम्भित इव स्तब्धतां नीत इव, मूर्च्छया
मोहेनेन्द्रियैः करणैरुन्मुच्यमान इवोत्प्राबल्येन त्यज्यमान, इव, झगिति शीघ्रमुन्मुक्तान्यज्ञानि येन सः । अति-
शैथिल्यादिति भावः । भूमौ पृथिव्यां समुपविश्योपवेशनं कृत्वान्तरात्मना मनसा किमप्यनिर्वचनीयं
स्मरचिव स्मृतिगोचरीकुर्वनिव, अनुध्यायन्निवानुचिन्तयन्निव निर्विकारं निर्विकृतिकं वदनमाननं यस्य सः ।
गलिता खस्ता लोचनाभ्यां या पयोधाराश्रुधारा तस्याः संतानं यस्मिन्नेवभूतस्तूष्णीं मौनेनाधोमुखो नीचर्मुख-
स्तस्थौ स्थितवान् । तथा वस्थितं तदवस्थाप्राप्तं च तं वैशम्पायनमवलोक्य निरीक्ष्यास्माकं चेतसि चित्ते
चिन्तार्तिरुदपायुत्पन्न परिणामेऽवसाने धीरा स्थिरा: मतिर्बुद्धिर्येषां ते तथा एवंविधा अपि रसिकहृदयाः
का मिजना येन केन चित्प्रकारेणापहियन्त एव वशी क्रियन्त एव । किं पुनः कुतूहलास्पदे कौतुकस्थाने प्रथम
आद्ये वयस्यवस्थायां वर्तमानाः स्थिताः । जना इति शेषः । तस्मादिति हेत्वर्थे । नियतं निश्चितमि -
मामतिमनोहरामतिरमणीयां भूमिं वसुधामालोक्य निरीक्ष्यास्य वैशम्पायनस्येति भावयतश्चिन्तयत ईदृशी
हृदय विकृति श्चित्त विलुतिर्जातो पन्नाः । नचिराचाचिरकालेन तं वैशम्पायनमेवं वयमवदाम जल्पाम ।
दर्शनीयानां विलोकनीयानामेषा भूरवधिः सीमा दृष्टावलोकिता तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु ।
संप्रतीदानीं स्नानविधिमालवनविधि निर्वर्तयामो निष्पादयामः । अतिमहत्यति गरीयसी वेळा वारा जातेति
शेषः ॥ साधनं सैन्यं सज्जीभूतं सज्जं जातम् । सकल: समग्रः स्कन्धावारः सैन्यलोकः प्रयाणा भ
मुखो गमनाभिमुखस्त्वां वैशम्पायनं प्रतिपालयन्निरीक्षनास्ते तिष्ठति । अद्यापि सांप्रतमपि किं विलम्बि
तेन । किं कालक्षेपणेनेत्यर्थः । स तु वैशम्पायन एवं पूर्वोक्तप्रकारेणा स्माभिरुक्तोऽपि कथितोऽश्रुतोऽनाकर्णि
तोऽस्मदीय आलापो येन स इव जड इवाचेतन इव, मूक इव एड एव, अशिक्षित इवापाठितः एव, (न.) वक्तुं
टिप्प0 - 1 अत्र पाठो विच्छिन्नः । अत एव विच्छिन्नस्य मध्यभागस्य अन्तमात्रावशेषेण 'मूर्च्छया'
इत्यनेन सह 'उन्मुच्यमान इव' इत्यस्य संबन्धो बलादेव टीकाकारेणाऽऽकृष्टः । ' लिखित इव, सुचिर-
मूर्ध्व एव स्थित्वा अपारयनङ्गानि धारयितुम् (आवेशवशादङ्गानि धारयितुमशक्नुवन्), भाक्रम्यमाण हव
मूर्च्छया' इति मध्ये पाठः । एतदमे 'उन्मुच्यमान इवेन्द्रियैः' इति पाठः । टीकाकार महाशयेन तु ध्वंसा-
वशेषेण 'मूर्च्छया' इति पदेन सह बलात्कारेण 'उन्मुच्यमानः' इत्यस्य संबन्धः कृतः । 2 'जाता' इति
मूल एव पाठः । न परिशेषस्यावश्यकता ।
पाठा० -१ इव लिखित इव सुचिरमूर्ध्व एव स्थित्वापारयन्निवाङ्गानि धारयितुमाक्रम्यमाण इव मूर्च्छया; इवोत्कीर्ण
इव पुस्तमय इव सुचिरम् २ झगिति ३ हृदयो, ४ अवस्थितं च ५ अचिरात् ६ वेला जावा. ७ अस्मदालाप:.