This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम -
 
स्वप्नेऽपि भूमिरियमालोकिता' इत्यभिधा चरणाभ्यामेवाच्छो दूसरस्तीरमयासीत् । तत्र
चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्, अमरकामिनी श्रोत्र शिखरारोहणप्रणयोचितैस्तर-
ज्ञानिलाहति विलोलवृत्तिभिः किसलयैर विरलकुसुम मकरन्दलोभपुजितानां च मत्तमधुलिहां
मंजुना सिञ्जितरवेण दूरादाह्वयन्त मित्र, मरकतमणिश्यामया प्रभयानुलिम्पन्तमिव समं दश-
दिग्भागान, अदत्तदिवसकर किरणप्रवेशतया दिवाप्यन्तर्निशीथिनीमिव बिभ्राणम्, चिर-
परिचितैरपि मेघोद्गमाशङ्कया मुहुर्मुहुरुन्मुक्तमधुरकेकारवैर्वन शिखण्डिभिरुत्कंघरैरवलोक्य-
मानम्, पदमिव जलदकालस्य, प्रतिपक्षमिव सर्वसंतापानाम् निजावासमिव जडिनः,
निर्गममार्गमिव सुरभिमासस्य, आश्रयमिव मकरध्वजस्य, उत्कण्ठाविनोदस्थानमिव रतेः,
आस्पदमिव सर्वरमणीयानाम्, अनंवरतवॅलितसुरभिशीतलाच्छोद सरस्तरङ्ग मारुताभिवीजि -
ताभ्यन्तरशिलातलमन्यतमं तटलतामण्डपमद्राक्षीत् ।
 
दृष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिविस्मृत
 
1-
सं प्रणम्य नमस्कृत्य च व्रजामो गच्छामः । दिव्यजनसेविता केना स्मरपक्षपातिना स्वप्नेऽपि खापदशायामपि
कक्षा कस्मिन्काले पुनः 'पुनर्विशेषयोः' इयं भूमिरियं वसुधाऽऽलो कितावलोकितेत्यभिधा येत्युक्त्वा चरणाभ्यामेव
पादचारेणेत्यर्थः । अच्छोद सरस्तीरमयासीदाययौ । तत्र च तस्मिन्नच्छोद सरस्य तिरम्यतया तिमनोहरतयैव सर्वतो
दत्ता न्यस्ता दृष्टिरृग्येनैवंभूतो वैशम्पायनः संचरन्गच्छन्नन्यतमं यत्तटं तीरं तत्र लता मण्डप मद्राक्षी द्व्य लोक
दिति
दूरेणान्वयः । इतो लतामण्डपं विशेषयन्नाह - अमरेति । अमराणां देवानां कामिन्यः स्त्रियस्तासां श्रोत्र शिख
राणि कर्णाप्राणि तेष्वारोहणे यः प्रणयः स्नेहस्तत्रोचितैर्योग्यैस्तरंगाणां कल्लोलानामनिलो वायुस्तस्याहत्या आह
ननेन विलोला चञ्चला वृत्तिर्येषां तैरेवंभूतैः किसलयैः पल्लवैरविरलो, निबिडो यः कुसुमानां पुष्पाणां मकरन्दो
मरन्दस्तस्य लोभस्तृष्णा तेन पुजिताना मेकीभूतानां च मत्तमधुलिहां क्षीबभ्रमराणां मञ्जुना रुचिरेण सिञ्जितं
ध्वनितं तस्य रवेण शब्देन करणभूतेन दूरादाह्वयन्तमिवाहूतिं कुर्वन्तमिव । मरकतेति । मरकतमणिरश्म:
गर्भरत्नं तद्वच्छ्यामया श्यामलया प्रभया कान्त्या सममेक पदे दशदिग्भागान्दशककुर्भा प्रदेशाननुलिम्प (य)न्त
मित्रानुलिम्पनं कुर्वन्तमिव । न दत्तो दिवसकरस्य सूर्यस्य किरणप्रवेशः करप्रवेशो येन तस्य भावस्तत्ता तथा
दिवापि दिवसेऽप्यन्तर्मध्ये निशीथिनी मिव रात्रिमिव बिभ्राणं धारयन्तम् । 'निशा निशीथिनी रात्रिः' इति हैमः !
चिरपरिचितैरिति । चिरपरिचितैरपि चिरपरिशीलितैरपि मेघस्योद्गम उदय स्तस्याशङ्का रे का तथा मुहुर्मुहु-
वारंवारमुन्मुक्तो मधुरो मिष्टः केकारवो यैरेवंभूतैर्वन शिखण्डिभिररण्यमयूरै रुटकं धरै रुद्रीवैरवलोक्यमानं निरीक्ष्य
माणम्, जलदकालस्य प्रावृट्समयस्य पदमिव स्थानमिव सर्वसंतापानां समग्रतापानां प्रतिपक्षमिव शत्रुमित्र,
जडिनः शैत्यस्य निजाव समिव स्वाश्रय मित्र, सुरभिमासस्य वसन्तमासस्य निर्गममार्गमिव निर्गमनपन्थानमिव,
मकरध्वजस्य कंदर्पस्याश्रयमिव निवासमिव, रते: कंदर्पस्त्रिय उत्कण्ठाविनोदस्थान मिवोत्कलि का विलासपदमिन,
सर्वरमणीयानां सम्ममनोहराणामास्पदमिव गृहमिव, अनवरतं निरंतरं वलिताः पश्चादायाता ये सुरभयः
सुगन्धाः श्रीतलाः शिशिरा अच्छोदसरसस्तरंगाः कल्लोलास्तेषां मारुतेन वायुनाभिवी जितमभ्यन्तरशिलातलं
यस स तमन्यतमं तटलता मण्डपमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः ।
 
चेति । अतिथिरकालेनान्तरितं व्यवहितं दर्शनमवलोकनं यस्यैवंभूतं तं लतामण्डपं दृष्ट्वा विलोक्य
च भ्रातरमिव सहोदरमिव, तनयमिव सुतमिव, सुहृदमिव मित्रमिव, न विद्यतेऽन्यस्मिन्दृष्टिर्यस्यैवभूतो विस्मृतो
पाठा०-१ निशीथम्. २ चलित.
 
2