This page has not been fully proofread.

एकम्बा वारलोकेभ्यो वैशम्पायनवृत्तान्त श्रवणम् ] उत्तरंभागः ।
 
देवशरीरमिव सायं वर्षशतं प्रियते वैशम्पायनः । इत्येतदाकर्ण्य चोजीवित इवानन्दबाष्प-
निर्भरः संभाव्य तान्सर्वानेव कण्ठप्रहेणावादीत्—'जीवतो वैशम्पायनस्यान्यत्र क्षणम
व्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तस्तज्जीवतीत्येतानि तु तावत्कर्णे कृतान्यक्षराणि ।
अधुना किं वृत्तमस्य येनासौ नागतः, क वा स्थितः, केन वा प्रसङ्गेन, कथं वा तमेकाकि
नमुत्सृज्यायाता भवन्तः, कथं वा भवद्भिर्बलादपि नानीतोऽसावित्येतदवगन्तुमुत्ताम्यति मे
हृदयम्' इति ।
 
1
 
61
 
ते चैवं पुष्टा व्यज्ञपयन्– "देव, श्रूयतां यथावृत्तम् । पृष्ठतः स्कन्धावारमनुपालयद्भिः
शनैः शनैर्वैशम्पायनेन सह भवद्भिरागन्तव्यमित्यादिश्य गैतवति देवे तस्मिन्दिवसे सु-
हीतत्वाद्धा सेन्धनादिकस्योपकरणजातस्य न दत्तमेव प्रयाणं स्कन्धावारेण । अन्यस्मिन्नहन्या-
हतायां प्रयाणभेयां सजीक्रियमाणे साधने प्रातरेवास्मान्वैशम्पायनोऽभ्यधात्
- 'अतिपुण्यं
ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्त्रात्वा प्रणम्य चास्यैव तीरभाजि सिद्धा
भगवन्तं भवानीप्रभुं महेश्वर शशाङ्कशकलशेखरं ब्रजामः । दिव्यजमसेविता केन कदा पुनः
 
वैशम्पायनः सायं वर्षशतं पञ्चविंशत्यधिकहायनशतं प्रियते । आयुः कर्मणेति शेषः । किंमिव । देवशरीरमिव ।
इत्येतत्पूर्वोत्तमाकर्ण्य श्रुत्वा चोज्जीवित इवोत्प्राणित इवानन्दस्य हर्षस्य बाप्पो नेत्राम्बुं तस्य निर्भरो यस्मिन्ने-
बंभूतस्तान्सर्वानेव कण्ठग्रहेण गलालिङ्गितेन संभाव्य संतुष्टान्कृत्वावादी दब्रवीत् । किमवादी दित्याशयेनाह -
जीवत इति । जीवतः प्राणान्धरतो वैशम्पायनस्यान्यत्रान्यस्मिन्प्रदेशे क्षणमप्यवस्थानम संभावयता सं
भावनां कुर्वता मया चन्द्रापीडेनैवं पूर्वोकप्रकारेण भवन्तो जनाः पृष्टाः प्रनितास्त जीवती येतानि त्वक्षणि
वर्णांस्तावदादौ कर्णे श्रोत्रे कृतानि । अधुना सांप्रतमस्य वैशम्पायनस्य कि वृत्तं जातम् येन हेतुना सौं
बैशम्पायनो नागतो नायातः । व वेति । कुत्र वा स्थितोऽवस्थानं कृतवान्, केन वा प्रसङ्गेन संबन्धेन
स्थितः, कथं वा केन प्रकारेण तं वैशम्पायन मेकाकिन मुत्सृज्यं त्यक्त्वा भवन्त आयाता आगताः । कथं वा
भवद्भिर्युष्माभिर्बलादपि हठात्कारेणासौ मन्त्रिसुतो नानीतः । इत्येतदवगन्तुं ज्ञातुं मे मम हृदयमुत्ताम्यति ।
उत्पीडयतीत्यर्थः
 
2
 
Galle
 
से चैवममुना प्रकारेण पृष्टाः प्रश्नविषयकृताः सन्त इति व्यज्ञापयनिति विज्ञप्तिं चक्रुः । एतद्दर्शयन्नाह है
देव हे स्वामिन्, यथावृत्तं यथाभूतं श्रूयतामाकर्ण्यताम् । पृष्ठतः पश्चाद्धागे स्कन्धावारं सैन्यं शनैः शनैर्मन्दं
मन्दमनुपालयद्भिरनुरक्षद्भिवैशम्पायनेन सह भवद्भिर्युष्माभिरागन्तव्यमित्यादिश्य कथयित्वा देवे चन्द्रापीडे
गतवति चलिते सति तस्मिन्दिवसे देवप्रयाणकदिने घासो यवसमिन्धनमिध्य । आदिशब्दाद्धस्त्यश्वादीनां
भक्ष्यम् । एतत्प्रमृत्युपकरणजातस्य सामग्रीसमूहस्य सुगृहीतत्वात्सुलभत्वात्स्कन्धावारेण न दत्तंमेव न कृतमेव
प्रयाणं चलनम् । अन्यस्मिन्नहनि तथ्यतिरिक्त दिने प्रयाणभेर्या गमन दुन्दुभावाहतायां ताड़ितायामश्वादिके साधनें
सज्जीक्रियमाणे सति आरोहणार्थमारोप्यमाणपर्याणादिके सति, प्रातरेव प्रत्यूष एवास्मान्वैशम्पायन इत्यभ्यधा
दित्यून्चिवान् । इतिद्योत्यमाह - अतीति । अतिपुण्यम तिपवित्रं यच्छोंदा ख्यमच्छोदाभिधान सरस्तटाकं पुराणे
श्रूयत आकर्ण्यते । तस्माद्धेतोरस्मिन्सरसि खात्वा लानं कृत्वास्यैव सरसस्तीरभाजि तटभाजि सिद्धायतने चैले
शशाङ्कस्य चन्द्रस्य शकलं खण्डं तदेव शिखरों मुकुटी यस्यैवंभूतं भगवन्तं माहात्म्यवन्तं भवान्याः पार्वत्याः
प्रभुं स्वामिनम् । क्वचित् 'भवाभवप्रभुम्' इति पाठोऽपि दृश्यते । तेन तत्र नित्यानित्यवामिनामित्यर्थः । महेश्वरं
 
पाठा० -१ साग्र. २. तु. ३. प्रसङ्गेन-स्थितः ४ ते पृष्टा, ५ आगतवति ६ तसिस्तु दिवसे, बास.
८ तदच्छोदसरः ९ वा.
 
७० का०