कादम्बरी /585
This page has not been fully proofread.
५५२
कादम्बरी ।
[ कथायाम्-
.
शून्यीभूता पृथिवी । सचक्षुषोऽप्यन्धाः ककुभो जाता॥ सुनिष्पन्नमपि हृतं जन्म । सुरक्षित-
मपि मुषितं जीवितफलम् । के परं पश्यामि । कमालपामि । कस्मै विश्रम्भं कथयामि ।
केन सह सुखमासे । किमद्यापि मे जीवितेन कादम्बर्यापि च । वैशम्पायनस्य कृते के कं
पृच्छामि । कमभ्यर्थये । को मे ददातु पुनस्तादृशं मित्ररत्नम् । कथं मया तातस्य शुकना-
सस्य चात्मा वैशम्पायनेन विना दर्शयितव्यः । किमभिधाय च तनयशोकविहलाम्बा मनो-
रमा वा संस्थापयितव्या । किं भूमिः काचिदसिद्धा तां साधयितुं पश्चात्स्थितः । उत नर-
पतिः कश्चिदसंघटितस्तत्संघटनाय पश्चात्परिलम्थितः । आहोखित्काचिद्विद्याऽगृहीता तां
ग्रहीतुं मयोत्संकलितः' इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख एव विकल्प्य हृदया-
स्फुटनार्द्विलक्ष्यमिवापराधिनमिव महापात किनमिवात्मानं मन्यमानो वदनमदर्शयशनैः
शनैः कृच्छ्रादिव तानप्राक्षीत् -- 'मय्यागते किं कश्चिदेवंविधोऽन्तरे सङ्घाम उत्पन्नः, व्याधिर्वा
कश्चिदाशुकार्यसाध्यरूपः समुपजातः, येनैतदतर्कितमेव महावज्रपतनमुपनतम्' इति ।
ते स्वेवं पृष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन्– 'देव, शान्तं पापम् ।
,
मनोहरः संवृत्तो निष्पन्नः । वसन्त्यपि लोकसमाकुलापि पृथिवी वसुधा शून्यीभूतोद्वसीभूता । सचक्षुषोऽपि
सनेत्रस्यापि ककुभो दिशोऽन्धा गतचक्षुषो जाताः । सुष्ठु निष्पन्नमपि संजातमपि जन्म हतं व्यापादितम् ।
निरर्थकं जातमित्यर्थः । सुष्टु यथा स्यात्तथा रक्षितमपि गोपितमपि जीवितस्य फलं साध्यं मुषितं लुण्ठितम् ।
कं परं पश्यामि कमन्यमवलोकयामि । कमालपामि कं व्याहरामि । कस्मै विस्रम्भमाशयं कथयामि निवेद-
यामि । केन सह सुखं यथा स्यात्तथा समुपविशामि । अहमिति शेषः । किमद्याप्यद्यप्रभृति मे मम जीवितेन
प्राणितेन कादम्बर्यापि च । वैशम्पायनस्य कृतेऽहं क्व कं पृच्छामि कं प्रश्नं करोमि । कं पुरुषमभ्यर्थये
प्रार्थये । कः पुरुषः पुनस्तादृशं मित्ररत्नं सुहृन्माण मे ददातु प्रयच्छतु । मया चन्द्रापीडेन तातस्य पितुः
शुकनासस्य मन्त्रि मुख्यस्य च वैशम्पायनेन विना कथमात्मा दर्शयितव्यो दर्शनीयः । तनयशोकविह्वला सुत
शोचनविधुराम्बा माता मनोरमा वा मन्त्रिपत्नी वा किमभिधाय किं कथयित्वा संस्थापयितव्या संस्थाप्या ।
किं भूमिः काचिदनिर्दिष्टनाम्न्यसिद्धाऽसाधिता तां साधयितुमात्मसात्कर्तु पश्चात् पृष्ठे स्थितः । उतेति पक्षान्तरे ।
कश्चिन्नरपतिर्भूधनोऽसंघटितोऽमिलितस्तस्य संघटनाय मेलापककृते पश्चात्पृष्ठे परिलम्बितो विलम्बितः ।
आहोखिदिति वितर्के । काचिद्विद्या मन्त्रतन्त्रादिरूपाऽगृहीता न स्वीकृता तां ग्रहीतुं स्वीकर्तु मया सहोत्संक-
लितो दूरीभूतः । इत्येतानि पूर्वोक्तान्यन्यानि चान्तरा मध्य आत्मना मनसा चिरं बहुकालमधोमुख एव
नीचैर्मुख एंव विकल्प्य विकल्पनां कृत्वा हृदयस्य वक्षसोऽस्फुटनादद्वैधीभावाद्विलक्ष्यमिवावीक्षापञ्चमिवापराधिन-
मिव सागसमिव महापातकिनमिव महापापकारिणमिवात्मानं स्वं मन्यमानो ज्ञायमानो वदनं मुखमदर्शयन-
प्रकाशयञ्शनैः शनैर्मन्दं मन्दं कृच्छ्रादिव कष्टादिव ताञ्जनानप्राक्षीदपृच्छत् । मध्यागतेऽत्रायाते कञ्चिदेवंविधो-
ऽन्तरे विचाले सङ्क्रामः समितिः किमुत्पन्नः संजातः । अथवा कश्चिदनिर्दिष्टनामा स व्याधिरामय आशु शीघ्र-
मर्थादन्तं करोतीत्येवंशीलः स तथा भेषजादिभिः साधयितुं निवारयितुमशक्यमसाध्यं रूपं स्वरूपं यस्य स तथा
समुपजातः समुत्पन्नः । येन कारणेनैतदतर्कित मेवाविचारितमेव महावज्रपतनं पविपतनमुपनतं प्राप्तमिति ।
ते तु जना एवममुना प्रकारेण पृष्टाः कृतप्रश्नाः सममेव युगपत्सर्वे करद्वयेन हस्तद्वयेनापिहिता आच्छा,
दिताः श्रुतयः श्रोत्राणि यैरेवंभूता व्यज्ञपयन्विज्ञप्तिं चक्रुः । देवेति । हे देव, पापममङ्गलं शान्तं विलयं गतम् ।
पाठा० - १ कं पश्यामि २ वा० ३ क गच्छामि कम्. ४ वा. ५ मनोरमाम्बा ६ कञ्चिद्विद्या काचिदगृहीतां.
19 अगृहीता. ८ विलक्षं. ९ शनैः . १० महाव्याधिः ११ अपिहित.