कादम्बरी /584
This page has not been fully proofread.
वैशम्पायनार्थ प्रश्नः ]
उत्तरभागः ।
५५१
तैतच ते सर्वे सममेव 'अस्मिंस्तरुतलेऽवतरतु तावदेवः । ततो यथावस्थितं विज्ञ-
पयाम:' इति न्यवेदयन् ।
चन्द्रापीडस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वचसान्तःशल्यगर्भ स्फुटितमिव
हृदयमासीत् । केवलं तत्कालप्रणयिनी मूर्च्छा सा धारणमकरोत् । तुरगादवतारितं च
कुथोपविष्टं च पितुः समवयोभिरनतिक्रमणीयैर्मूर्धाभिषिक्तपार्थिवैधृतमात्मानं न वेदितैवान् ।
उपलब्धसंज्ञोऽपि च वैशम्पायनस्या देशनात्– 'किमेतत् । काहं वर्ते । किं वा मयैतच्चरितम्'
इति भ्रमारूढ इव मुह्यद्भिरिवेन्द्रियैः सर्वमेवानुत्प्रेक्षमाणः केवल स्कन्धावारागमनेनैव
तस्याभावादन्यदसंभावयन्, दुर्विषहपीडाभिहतेनेव चेतसा 'किमारटामि, किं हृदयमव-
ष्टभ्यं तूष्णीमासे, किमात्मानमार्हत्य हृदयात्प्राणैर्वियोजयामि, किमेकाकी कांचिद्दिशं गृहीत्वा
प्रजामि' इति कर्तव्यमेव नांध्यगच्छत् । अन्तर्द्रवन्निव दह्यमान इव स्फुटन्निव सहस्रधा
दुःखेन चकार चेतसि - 'अहो मे रम्येऽप्यरमणीयः संवृत्तो जीवलोकः । वैसन्त्यपि
वलोक्य निरीक्ष्य व वैशम्पायन इत्यपृच्छदिति प्रश्नमकार्षीत् । ततः पृच्छानन्तरं ते च सर्वे जनाः सममेव
युगपदेव विचार्य विमर्यास्मिंस्तरुतले वृक्षाधोऽवतरतूत्तरतु तावद्देवो भवान् । तत उत्तरणानन्तरं यथाव-
स्थितं यथाभूतं विज्ञपयामो निवेदयाम इति न्यवेदयन्कथयामासुः ।
चन्द्रापीडस्य तेषां जनानां स्फुटं प्रकटमाख्यानं कथनं तस्मादपि तेन कष्टतरेणातिकृच्छ्रेण वचसा वाक्ये -
नान्तः शल्यं गर्भे यस्यैतादृशं हृदयं स्फुटितमिव विघटितमिवासीदभवत् । तत्काले तदात्वे प्रणयः स्नेहो
विद्यते यस्या एवंविधा सा मूर्च्छा केवलं धारणमकरोत् । तुरगादश्वादवतारितमुत्तारितं च कुथोपविष्टं परि-
स्तोमोपविष्टम् । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । पितुः समं सदृशं वयोऽवस्था येषां
तैरनतिक्रमणीयैरनुल्लङ्घनीयैर्मूर्धाभिषिक्तपार्थिवैः कृतराज्याभिषेकनृपैर्घृतमात्मानं स्वं न वेदितवान्न ज्ञातवान् ।
उपलब्धा प्राप्ता संज्ञा संज्ञानं चेतना येनैवंभूतोऽपि वैशम्पायनस्यादर्शनादनवलोकनात् ( आत्मतत्त्वं स्वख-
रूपं तस्य दर्शनान्निरीक्षणात् ) किमेतत् क्काहं वर्ते, कुत्र स्थलेऽहमस्मि, किं वा मयैतच्चरितमेतच्चेष्टितमिति
मारूढ इव संशयापन इव मुह्यद्भिरिव मोहं प्राप्नुवद्भिरिवेन्द्रियैः करणैः सर्वमेव समग्रमेवानुत्प्रेक्षमाणोऽ-
नालोकमानः केवलं स्कन्धावारागमनेनैव केवलं सैन्यस्यैवागमनेन तस्य वैशम्पायनस्याभावादन्यत्तद्भिन्नम-
संभाव्यन्नसंभावनाविषयी कुर्वन्दुर्विषहा दुःसहा या पीडा तयाभिहतेनेव ताडितेनेव चेतसा मनसा किमार-
टामि पूत्करोमि, किं हृदयं चेतोऽवष्टभ्यावष्टम्भनं कृत्वा तूष्णीमासे मौनेन तिष्ठामि, किमात्मानं स्वमाह -
त्याहननं कृत्वा हृदयात्प्राणैरसुभिर्वियोजयामि विभिन्नो भवामि । किमहमेकाक्यसहायः कांचिद्दिशं ककुभं
गृहीत्वा समादाय प्रव्रजामि गच्छामीति कर्तव्यमेव कृत्यमेव नाध्यगच्छन्न प्राप्तवान् । अन्तर्मध्ये द्रवन्निव
द्रवीभवन्निव, दह्यमान इव प्रज्वाल्यमान इव, सहस्रधा सहस्रप्रकारेण दुःखेन स्फुटन्निव द्विधाभवन्निव, चेतसि
चित्ते चकार कृतवात् । अहो इत्याश्चर्ये । मे मम रम्योऽपि रुचिरोऽपि जीवलोको जीवाधारक्षेत्रमरमणीयोs-
>
टिप्प० -- 1 अयं भागष्टीकायामसंबद्धः, उपरितो भ्रमेण पतितः स्यात् । 2 'केवलस्कन्धावार' इत्येव
पाठ: । वैशम्पायनशून्यस्य केवलस्य स्कन्धावारस्याऽऽगमनेन वैशम्पायनस्याभावात् विनाशात् अन्यत्
किंचिदप्यसंभावयन् ( मरणमेव तर्कयन्नित्यर्थः ) ।
GAS
पाठा० - १ ततः सर्वे; ततस्ते सर्वे. २ चेतितवान्. ३ आत्मनश्च दर्शनात् ४ अनुत्प्रेक्ष्यमाणः ५ केवल.
६ स्कन्धावारानुगमननिवासादसावन्यत् ७ हतेन चेतसा. ८ आहत्य हठात्; आहन्मि हृदयात् . ९ इतिकर्तव्यताम्.
१० नाधिगच्छत्; अत्यगच्छत्. ११ वसन्ती.