कादम्बरी /582
This page has not been fully proofread.
स्कन्धावारदर्शनम् ]
उत्तरभागः ●
५४९
वष्टम्भं संचारिणं द्वितीयमिव मेदिनीसंनिवेशम्, अजलवाहिनीप्रवेशगम्भीरं प्राणिमयमपर-
पारमष्टममिव महासमुद्रम्, उद्विक्तरजःसंततिदूरतया चापरिस्फुटविभाव्यसर्ववृत्तान्तमपीत-
स्ततो वलितधवलकदलि कोद्भासिता ने ककरिघटा सहस्रसंकुलम् अविरलॅबला कावलीविभ्राजि-
ताम्भोदसंघातं मूर्तिमन्तमिव मेघसमयारम्भम्, आवासभूमिग्रहणसंभ्रमभिप्रभावितासंख्य-
करितुरगनरपरम्परोर्मिसंबाधतया मैन्दमन्दरास्फालनलुलितकल्लोलजालाकुलस्य महाजलधे-
ललया निविशमानं स्कन्धावारमद्राक्षीत् ।
--
चाकरोञ्चेतसि — 'अहो भद्रकं भवति, यद्यचिन्तितागमन एव प्रविश्य वैशम्पा-
दृष्ट्वा
यनं पश्यामि' इति । एवं चिन्तयित्वा छत्रचामरादिभिः स्वचिहैः सह निवारिताशेषराज
पुत्रलोको जवविशेषमाहिभित्रिचतुरैस्तुरङ्गमैरनुगम्यमानो मूर्धानमावृत्योत्तरीयेण, रयविशे-
पग्राहिणेन्द्रायुधेन नानाव्यापारव्यप्रसकललोकमचिन्तित एव स्कन्धावारमाससाद। प्रविशंश्च
—
भूभृतां राज्ञां पर्वतानां च यच्छतसहस्रं लक्षं तेन कल्पितोऽवष्टम्भ आश्रयो यस्य तत्तथा । संचारिणं संचरण-
शीलं द्वितीयमपरं मेदिन्या वसुधायाः संनिवेशमिव रचनाविशेषमिव । न विद्यते जलं यस्यामेवंविधा वाहिनी
सेना तस्याः प्रवेशेनागमनेन गम्भीरं गभीरं प्राणिमयं प्राणिभिर्निष्पन्नम् । न विद्यते परः पारो यस्य तत्तथा ।
अत एवोत्प्रेक्षते - अष्टमं महासमुद्रमिव महाजलधिमिव । उद्रेकाद्रजःसंततेदूरस्य भावो दूरता तया चापरि-
स्फुटोऽप्रकटो विभाव्यो ज्ञेयः सर्ववृत्तान्तोऽखिलोदन्तो यस्मिंस्तत्तथा । एवंविधमपीतस्ततो वलिता वायुना पश्चा•
द्वलिता या धवलकदलिकाः श्वेतवैजयन्त्यः । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः ।
ताभिरुद्भासिताः शोभिता एतादृशा अनेके ये करिणो हस्तिनस्तेषां घटाः समुदायास्तासां सहस्रं तेन संकुलं
संकीर्णम् । श्वेतकदलिकासाम्यादुत्प्रेक्षते - अविरला निबिडा या बलाकावली बिसकण्ठिका श्रेणिस्तया विभ्रा-
जितः शोभितोऽम्भोदसंघातो जलदसमूहो यस्मिन्नेवंभूतं मूर्तिमन्तं मेघसमयारम्भमिव जलदकालप्रारम्भमिव ।
आवासार्थ यद्भूमिग्रहणं तत्र संभ्रमेणाभिप्रधावितास्त्वरितगत्या चलिता असंख्याः संख्यातुमयोग्या ये करि-
तुरगनरा हस्त्यश्वमनुष्यास्तेषां परस्परं मिथ ऊर्मिवत्कल्लोलकवत्संबाध आघातो यस्मिंस्तस्य भावस्तत्ता तया मन्दं
शनैर्यन्मन्दरस्य मेरोरास्फालनमासमन्तामणं तेन लुलितमेकीभूतं कल्लोलजालं तरंगपटलं तेनाकुलस्य व्याकुली-
भूतस्य महाजलधेर्महासमुद्रस्य लीलया क्रीडया निविशमानं स्थाप्यमानं सैन्य मद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः ।
-
दृष्ट्वा च विलोक्य च चेतसि चित्तेऽकरोत् । अहो इत्याश्चर्ये । भद्रकं क्षेमं भवति जायते, यद्यचिन्तित -
मतर्कितमागमनं यस्यैवंभूतोऽहं प्रविश्य प्रवेशं कृत्वा वैशम्पायनं पश्याम्यवलोकयामि । एवममुना प्रकारेण
चिन्तयित्वा मनसि कृत्वा छत्रचामरादिभिरातपवारणवालव्यजनप्रमुखैः स्खचिह्रै राजलक्ष्मभिः सह सार्धं निवा-
रितः प्रतिषिद्धोऽशेषराजपुत्रलोको येनैवंभूतो जवविशेषप्राहिभिर्गतिविशेषगामिभिस्त्रयश्च चत्वारथ त्रिचतुरास्तै-
स्तुरङ्गमैरश्वैरनु गम्यमानोऽनुयायमान उत्तरीयेणोपरिवस्त्रेण मूर्धानमुत्तमाङ्गमा नृत्याच्छाद्य रयविशेषप्राहिणा जव-
विशेषगामिनेन्द्रायुधेनाश्वेन नानाव्यापारेण व्यवहारेण व्यग्रो व्याकुलः सकललोको यस्मिन्नेवंभूतं स्कन्धावारं
सैन्यनिवेशमचिन्तित एवाससाद प्राप्तवान् । प्रविशंश्च प्रवेशं कुर्वश्च प्रत्यावासकं प्रत्यावासं वहन्नेव व्रजन्नेव कस्मि-
टिप्प० -1 भ्रष्टोयं पाठः । 'उद्विक्तरजःसंततिपूरतया' इत्येव पाठः । उद्विक्तः ( अतिशयितः )
रजःसंततीनां ( धूलिनिवहानाम् ) पूर: प्रवाहो यस्मिन् तत्तया, इति तदर्थः । 2 मन्दरास्फालनेऽपि
'मन्दम्' इति कथनं मन्दतैव । 'अमन्दम्' ( अतिमात्रम्) इत्युचितम् ।
-१ जल. २ अपरम्; अपरमपारम् ३ संततेः पूरतया; संततिपूरतया ४ बलबलाक. ५ अभिषावित.
पाठा०
६ अमन्द.