This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम-
अपसर्पत्खिवारण्येषु, विस्तार्यमाणाखिव ग्रामसीमासु, उत्तानीभवत्खिव सलिलाशयेषु, अव
च्छिद्यमानेष्विव शिखरिषु, उद्धियमाणायामिव मेदिन्याम्, अदृश्यतामिव योन्तीषु कुमुदिनीषु,
तिरोधानकारिणीं नीलतिरस्करिणीमिव करैरुत्सार्य तिमिरमालां विरहविधुरां कमलिनी-
मिवालोकयितुमुदयगिरिशिखरमारूढे भगवति सप्तैलोकैकचक्षुषि सप्तवाद्दे, विहायस्तलमुद्भास्य
दिगन्त राण्युद्धासयन्तीषु सकलजगद्दीपिकासु दिवसकरदीधितिषु दृष्टिप्रसरक्षमायां वेलायां
सहसैवाग्रतोऽर्धगव्यूतिमात्र इव रात्रिप्रयाणकायातम्, अन्तः क्षोभभीतेन रसातलेनेवोद्गीर्यमा-
णम्, असोढसंघातभरया मेदिन्येव विक्षिप्यमाणम्, अपर्याप्त प्रमाणाभिर्दिग्भिरिव संहियैमा-
णम्, अपरिमाणरजोनिरोधाशङ्कितेन गीर्वाणवर्त्मनेवावकीर्यमाणम्, अंर्कावलोकेनेव सह
विस्तीर्यमाणम्, आयासितायततरदृष्टिभिरप्यदृष्टपर्यन्तम्, अनुजीविभूभृच्छतसहस्रकेल्पिता-
५४८
 
यमाणाविव । तज्ज्ञापकनक्षत्राणां तिरोधानादिति भावः । ग्रामसीमासूपशल्येषु विस्तार्यमाणासु । अरण्येषु
वनेष्वपसर्पत्स्विवापसरणीक्रियमाणेष्विव । सलिलाशयेषु जलाश्रयेषूत्तानीभवत्स्विवोध्वींभवत्स्खिव । शिखरिष्व-
द्विष्ववच्छिद्यमानेष्व खण्डशः क्रियमाणेष्विव । मेदिन्यां वसुधायामुद्धियमाणायामिवोत्पाद्यमानायामिव । कुमु
दिनीषु कैरविणीष्वदृश्यतामचाक्षुषतां यान्तीष्विव गच्छन्तीष्विव । करैः किरणैस्तिमिरमालामन्धकारश्रेणीमु-
त्सार्य दूरीकृत्य । कृष्णसाधर्म्यादुत्प्रेक्षते-तिरोधानकारिणीमन्तर्धानजनिकां नीलतिरस्करिणीमिव नीलजवनि-
कामिव । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । विरहविधुरां वियोगविह्वलां कमलिनीं
पद्मिनीमालोकयितुं विलोकयितुमिवोदयगिरेः पूर्वाद्रेः शिखरं सानुमारूढे प्राप्ते भगवति माहात्म्यवति सप्तलो-
कस्यैकचक्षुरिव चक्षुस्तम्मिन्सप्त वाहास्तुरंगा यस्य स तस्मिन् । सहस्रकिरण इत्यर्थः । विहायस्तलं व्योन्नस्तल -
मुद्भास्य प्रकाश्य दिगन्तराणि दिशां विचालान्युद्भासयन्तीषु प्रकाशयन्तीषु सकलजगतां सकलविश्वानां दीपिकास
प्रकाशिकासु दिवसकरस्य सूर्यस्य दीधितिषु कान्तिषु सत्सु । दृष्टिप्रसंरे क्षमायां समर्थयां वेलायामवसरे सह-
सैवैकपद एव । अग्रेति । अग्रतः पुरोऽर्धगव्यूतिमात्रेऽर्धकोशमात्र इव स्कन्धावारं सैन्य मद्राक्षी ड्यलोकयत् ।
'वरूथिनी चमूश्चक्रं स्कन्धावारोऽस्य तु स्थितिः' इति हैमः । इतः स्कन्धावारं विशेषयन्नाह - रात्रीति । रात्रि-
प्रयाणकेन निशागमनेन आयातमागतम् । अन्तर्मध्ये यैः क्षोभस्त्रासस्तेन भीतं चकितमेवंविधेन रसातलेन वड-
वामुखेनोद्गीर्यमाणमिवोद्गम्यमानमिव । असोढोऽक्षमितः संघातस्य समुदायस्य भरो ययैवंविधया मेदिन्या वसु-
धया विक्षिप्यमाणमिवेतस्ततः क्रियमाणमिव । यदि वासोढसंघातभरया मेदिन्येव संक्षिप्यमाणं समासीक्रिय-
माणम् । अपर्याप्तप्रमाणाभिरप्राप्तेयत्ताभिर्दिग्भिः ककुब्भिः संहियमाणमिव संगृह्यमाणमिव । अपरिमाणमसंख्यं
यद्रजस्तेन निरोधोऽवकाशरोधस्तेनाशङ्कितेनारे कितेन गीर्वाणवर्त्म नेवाकाशेने वावकीर्यमाणं विक्षिप्यमाणम् ।
अर्कावलोकेनेव सूर्यावलोकेनेव सह विस्तीर्यमाणं विस्तारं प्राप्यमाणम् । आयासिता आयासं प्रापिता आयततरा
दीर्घतरा या दृष्टयस्ताभिरग्यदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्तथा । अनुजीविनां सपर्याकारिणां
 
टिप्प० - 1 इयत्तया गृह्यमाणेष्विव । 2 रसातलेन स्कन्धावारः पूर्व स्वान्तर्हतः, परम् बलानामन्त:-
श्रोभेन भीतत्वात्स स्कन्धावारस्तेन उद्गीर्ण: ( उद्वान्तः ) इत्याशयः ।
 
पाठा० -१ चावसर्पसु; अपसार्यमाणेषु २ उपयान्तीपु. 3 सप्तलोकचक्षुषि ४ पर्याप्त ५ संम्रियमाणम्.
६ अर्ककिरणावलोकेन; अर्ककिरणालोकेन. ७ विस्तीर्णम् ८ अतिजीव; अनिर्जीव ९ कलित.