कादम्बरी /580
This page has not been fully proofread.
५४७
मार्गे प्रातःकाल: ]
उत्तरभागः ।
न्तीषु तारकापङ्किषु; गलदवईयायक्षालनादिव शनैः शनैर्दलितेमुक्ताँगौरज्योत्स्नानुभावमुत्सृ-
जन्तीष्वाशासु पुनर्विभाव्यमानसहजश्यामकान्तिषु सलिलादिवोन्मज्जत्सु तरुलताविटपेषु;
समुल्लसति पूर्वदिग्वधूकर्णपूररक्ताशोकपल्लवेऽम्बरसरस्तामरसे दिवसमुखकरिकुम्भसिन्दूररेणौ
तरणिरथरक्तध्वजांशु के संध्यारागे, संध्यातपरेचितान्तेष्वालग्नदावानलेष्विव वयःसंघातर्जनि-
तीशिवमुत्सृज्यमानेषु निवासपादपेषु, सशेषनिद्रालसैश्चिरप्रसारणाविशदजङ्घातिभिहँठ।कृष्ट-
दीर्घपदसंचारिभिर्मृगकदम्ब कै रुन्मुच्यमानासूषरशय्यासु, इच्छावखण्डितोत्खातपस्वलोपान्त-
रूंढमुस्ताग्रन्थिष्वरण्यगह्वराभिमुखेषु वराहयूथेषु, निशावसानप्रचारनिर्गतैर्गोधनैरितस्ततो
धवलायमानासु ग्रामसीमान्तारण्यस्थलीषु, आलोक्यमानजनपद विनिर्गमेषु, प्रसूयमानेष्विव
ग्रामेषु, यथार्क किरणावलोकोद्गमं चोन्नाम्यमान इव पूर्व दिग्भागे; समुत्सार्यमाणास्विवाशासु,
-
।
गलदिति । गलन्क्षरन्योऽवश्यायो हिमं तेन क्षालनादिव धावनादिव शनैर्मन्दं मन्दं दलितमुक्ताव द्वारा या
ज्योत्स्ना चन्द्रकलिका तस्या अनुभावो माहात्म्यं तमुत्सृजन्तीषु त्यजन्तीष्वाशासु दिक्षु । 'ज्योत्स्नावितानम्'
इति पाठो दृश्यते तत्र ज्योत्स्नालक्षणं वितानमुल्लोच इत्यर्थो ज्ञेयः । पुनरिति । पुनर्विभाव्यमाना पुनर्ज्ञा-
यमाना सहजा स्वभावजा श्यामा कान्तिर्येषामेवंभूतेषु तरुलताविटपेषून्मजत्सूपर्यागच्छत्सु । अत उत्प्रे-
क्षते - सलिलादिव जलादिव । पुनः कस्मिन्सति । संध्यारागे समुल्लसत्युल्लासं प्राप्ते सति । संध्यारागं विशे-
षयन्नाह – पूर्वेति । पूर्वदिक्शकदिक्सैव वधूः स्त्रीस्तस्याः कर्णपूराय रक्ताशोकपल्लवेऽरुणकङ्केल्लिकिसलये,
अम्बर एव सरस्तटाकस्तस्मिंस्तामर से महोत्पले, दिवसमुखमेव करिकुम्भस्तत्र सिन्दूररेणौ नागजक्षोदे । तरणेः
सूर्यस्य रथः स्यन्दनस्तस्य रक्तध्वजांशु केऽरुणवैजयन्तीवस्त्रे । वयःसंघातैः पक्षिसमूहैर्जनिता शिवमुत्पन्नाशुभं
यथा स्यात्तथा निवासपादपेष्ववस्थानवृक्षेषूत्सृज्यमानेषु त्यज्यमानेषु सत्सु । कीदृशेषु । संध्यातपेनं रचिता
व्याप्ता अन्ता येषां तेषु । अत एव रक्तपीतत्वसाम्या दुत्प्रेक्षते - आलग्नदावानलेष्विवासंबद्धवनवह्निष्विव । सह
शेषेण वर्तते या सा सशेषा सावशेषा एवंविधा निद्रा प्रमीला तया अलसैर्मन्दैश्विरप्रसारणेनाविशदा
अस्फुटा जङ्घामयो येषां तैः । हठेनाकृष्टो यो दीर्घपदस्तेन संचारिभिः संचरणशीलैरेवंविधैर्मृगकदम्बकैर्हरिणस-
मूहैरूषरशय्यासु कठिनशयनीयासू मुच्यमानासु त्यज्यमानासु सत्सु । इच्छेति । इच्छया स्वातत्र्येणावख-
ण्डिता द्वैधीकृता उत्खाता मूलत उत्पाटिताः पल्वलोत्खातं सरस्तस्योपान्ते समीपे रूढानां मुस्तानां ग्रन्थयो
यैरेवंविधेषु वराहयूथेषु क्रोडसंघातेष्वरण्यगह्वराभिमुखेष्वटवीगहरसंमुखेषु सत्सु । निशाया अवसानं प्रान्तस्त-
स्मिन्प्रचारार्थं गोचरार्थं निर्गतैरितस्ततो गोधनैर्गोयूथैर्धवलायमानासु श्वेतायमानासु ग्रामसीमोपशल्यं तस्यान्ते
या अरण्यस्थल्यस्तासु सत्सु । 'ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे' इत्यमरः । आलोक्येति ।
आलोक्यमानो निरीक्ष्यमाणो जनानां पदविनिर्गमो येष्वेव॑विधेषु ग्रामेषु सत्सु । पद विनिर्गमसाम्यादुत्प्रेक्षते-
प्रसूयमानेष्विव प्रसूतिं कुर्वाणेष्विव । प्रसूतावपि प्रथमं पदविनिर्गम एव भवतीति भावः । अर्ककिरणानां
सूर्यरश्मीनामवलोकः प्रकाशस्तस्योद्गममनतिक्रम्य कैरोतीति यथार्ककिरणावलोकोद्गममित्यव्ययीभावः । तेन
चोन्नाम्यमान उच्चैः क्रियमाणे पूर्व दिग्भागे शऋदिक्प्रदेशे सति । आशासु दिशासु समुत्सार्यमाणासु दूरीकि-
टिप्प० – 1 हन्त ! अशिवः स्वयं टीकाकारः । अन्यथा सर्वमङ्गले प्रातःकाले का अशिवकथा !
'जनितारवम्' इति पाठः । पक्षिणः कोलाहलं कृत्वा उड्डीयन्ते । 2 'सन्ध्यातपपरिगतेषु' इत्येव सत्पाठः ।
3 कः प्रलाप इति न ज्ञायते । अवलोकस्य स्थाने आलोकेति पाठः । अर्ककिरणानामालोकोद्गमम् अन
तिक्रम्य ( सूर्यप्रकाशेन सहेति भावः ) पूर्वदिग्भागे उन्नाम्यमाने इव । अर्कप्रकाशो यथा यथा भवति
तथा तथा प्रतीयते यत् केनचित् पूर्वदिग्भागः उत्क्षिप्य प्रियमाग इवास्तीति ।
पाठा० - १ अवश्यायसलिल २ गलित; शीलित ३ गौरम् ४ ज्योत्स्नानुभवम् ५ परिगतेषु. ६ आरावन्.
७ हठादाकृष्ट; दूराकृष्ट. ८ प्ररूढ.