2023-09-19 11:51:17 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
शुकप्रशंसा ]
पूर्वभागः ।
अब्रवीच्च – 'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालाप-
निपुणः, वेदिता गीतश्रुतीनाम्, काव्य [^१]नाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभा-
पितानामध्येता स्वयं च कर्ता, परिहासाSSलापपेशल:, वीणावेणु [^२]मुरजादीनामसमः श्रोता,
[^३]नृत्यप्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, [^४]प्रणयकलहकुपित [^५]कामिनीप्र-
सादनोपायचतुरः, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम
शुकः [^६]सर्वरत्नानामुदधिरिव देवो भाजनमितिकृत्वैनमादाया- स्मत्स्वामिदुहिता देवपादमूलमा-
याता । तद्यँ[^७]तदयमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरभ[^८]मसावपससार ।
1
।
[ टि ]--अब्रवीच्च । उवाचेत्यर्थः । देवेति संबोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्, अयं
वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नामेति कोमलामन्त्रणे । शुको वर्तते । कीदृक् । विदितो
ज्ञातः सकलशास्त्राणां धर्माध्यात्मयुक्ति- शास्त्राणामर्थोऽभिधेयो येन स तथा । तेन वक्ष्यमाणेन न पौनरु-
तक्त्यम् । इतः शुक्रंकं विशेषयन्नाह - राजेति । राजनीतेः कामन्दक- प्रतिपादितायाः प्रयोगः शिक्षा तत्र कुश-
लश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम् तेषां या कथा वार्ता तत्र य आलापस्त-
दर्थबोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तभूम्--
' सप्त खस्वरास्त्रयो ग्रामा मूर्च्छाश्चकोनविंशतिः । ताना एकोनपञ्चाशद्वव्यधिका विंशतिः श्रुतिः ॥' इति । तासां
वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम्, नाटकमभिनयात्मकम्,
आख्यायिका वासवदत्तादिः, आख्यानकमिदानींतनराजवृत्तम् , एतत्प्रभृतीनां सामुद्रिकादीनां तथाऽपरि-
मिताना मसंख्यानां, सुभाषितानां शृङ्गारनी तिवैराग्यप्रतिपादकानां चाध्येता पाठकः । स्वयमात्मनैव कर्ता
निप्ष्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य
आलापा रसव्यञ्जकशब्दप्रयोगास्तत्र पेशल: कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम् । तथैव
वेणुशब्देन सुषिरम्, मुरजशब्देनानद्धं, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषाम समोऽद्वितीयः
श्रोता आकर्णयिता । नृत्यमिति । नृत्यं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणीणो-
इ
ऽभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । द्यूतं दुरोदरं तस्य
व्यापारी [^1]व्योयाहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता
कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्त्वनं तत्र य उपायः प्रपञ्चस्तत्र चतुरोऽभिज्ञः । गजेति ।
ब
गजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवभणिप्रभृतयः पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः,
तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समयं यद्भूतलं अर्थाद्भरत-
[^2]क्षेत्ररं तत्र रत्नभूतः । स्वजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्ता-
रत्नाश्रयत्वात् । राज्ञो रत्नाकरत्वमाह - सर्वेति । सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव ।
उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां कौस्तुभप्रभृतीनामाश्रयस्तथा भवानपीत्यर्थः । एतत्प्रयोजन-
माह- इतीति । इतिकृत्वा इतिहेतोरस्मत्स्वामिनो वक्ष्यमाणस्य दुहिता कन्यकैनं शुक्रकमादाय गृहीत्वा देवस्य
राज्ञः पादमूलं चरणमूलमायातागता । तदिति । तस्माद्वेधेतोरयं शुक आत्मीयः स्वकीयः क्रियतां विधी-
यतामिति पूर्वप्रतिपादितमुक्त्वा प्रतिपाद्य । 'पूर्वकालत्वस्य त्वाप्रत्ययवाच्यत्वेऽपि
Exp
विवक्षित- विवेकेनानन्त-
र्यमेव वाच्यम्' इति । नरपते राज्ञः पुरो निधायानेग्रे स्थापयित्वा पञ्जरं पक्षिरक्षणस्थलम्, असौ पुरुषोऽपससा-
रापसृतवान् । 'सृञ् अपसरणे' इत्यस्य लिटि रूपम् ।
टिप्प० --
[^1]F. व्यवहृतिः क्रीडेत्याशयः ।
[^2]F. भूमण्डलमित्याशयः, भारतवर्षस्यैकदेशत्वात् ।
माह
4
>
>
>
पाठा० -
[^१]G. नाटकाख्यानक.
[^२]G. मुरजप्रभृतीनां वाद्यविशेषाणाम्.
[^३]G. नृत्त.
[^४]G. प्रणयकुपित.
[^५]G. कामिनीजन.
[^६ सर्वरता]G. सर्वरत्नानां च .
[^७]G. आत्मायन्त्त.
[^८]G. पञ्जरमपससार,
.
४ का०