This page has not been fully proofread.

शुकप्रशंसा ]
 
पूर्वभागः ।
 
अब्रवीच – 'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालाप-
निपुणः, वेदिता गीतश्रुतीनाम्, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभा-
पितानामध्येता स्वयं च कर्ता, परिहासाSSलापपेशल:, वीणावेणुमुरजादीनामसमः श्रोता,
नृत्यप्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रणयकलहकुपित कामिनीप्र-
सादनोपायचतुरः, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम
शुकः सर्वरत्नानामुदधिरिव देवो भाजनमितिकृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमा-
याता । तद्यँमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरभसावपससार ।
 
1
 
अब्रवीच । उवाचेत्यर्थः । देवेति संबोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्, अयं
वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नामेति कोमलामन्त्रणे । शुको वर्तते । कीदृक् । विदितो
ज्ञातः सकलशास्त्राणां धर्माध्यात्मयुक्तिशास्त्राणामर्थोऽभिधेयो येन स तथा । तेन वक्ष्यमाणेन न पौनरु-
तयम् । इतः शुक्रं विशेषयन्नाह - राजेति । राजनीतेः कामन्दकप्रतिपादितायाः प्रयोगः शिक्षा तत्र कुश-
लश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम् तेषां या कथा वार्ता तत्र य आलापस्त-
दर्थबोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तभू--
' सप्त खरास्त्रयो ग्रामा मूर्च्छाश्चकोनविंशतिः । ताना एकोनपञ्चाशद्वयधिका विंशतिः श्रुतिः ॥' इति । तासां
वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम् नाटकमभिनयात्मकम्,
आख्यायिका वासवदत्तादिः, आख्यानकमिदानींतनराजवृत्तम् तत्प्रभृतीनां सामुद्रिकादीनां तथाऽपरि-
मिताना मसंख्यानां, सुभाषितानां शृङ्गारनी तिवैराग्यप्रतिपादकानां चाध्येता पाठकः । स्वयमात्मनैव कर्ता
निप्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य
आलापा रसव्यञ्जकशब्दप्रयोगास्तत्र पेशल: कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम् । तथैव
वेणुशब्देन सुषिरम्, मुरजशब्देनानद्धं, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषाम समोऽद्वितीयः
श्रोता आकर्णयिता । नृत्यमिति । नृत्यं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणी-
इभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । द्यूतं दुरोदरं तस्य
व्यापारी व्योहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता
कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्त्वनं तत्र य उपायः प्रपञ्चस्तत्र चतुरोऽभिज्ञः । गजेति ।
बजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवभणिप्रभृतयः पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः,
तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समयं यद्भूतलं अर्थाद्भरत-
क्षेत्र तत्र रत्नभूतः । स्वजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्ता-
रत्नाश्रयत्वात् । राज्ञो रत्नाकरत्वमाह - सर्वेति । सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव ।
उदधिरिव समुद्र इव । यथोदधिः सर्वरत्नानां कौस्तुभप्रभृतीनामाश्रयस्तथा भवानपीत्यर्थः । एतत्प्रयोजन-
- इतीति । इतिकृत्वा इतिहेतोरस्मत्स्वामिनो वक्ष्यमाणस्य दुहिता कन्यकैनं शुक्रमादाय गृहीत्वा देवस्य
राज्ञः पादमूलं चरणमूलमायातागता । तदिति । तस्माद्वेतोरयं शुक आत्मीयः स्वकीयः क्रियतां विधी-
यतामिति पूर्वप्रतिपादितमुक्त्वा प्रतिपाद्य । 'पूर्वकालत्वस्य त्वाप्रत्ययवाच्यत्वेऽपि
 
Exp
 
विवक्षितविवेकेनानन्त-
र्यमेव वाच्यम्' इति । नरपते राज्ञः पुरो निधायाने स्थापयित्वा पञ्जरं पक्षिरक्षणस्थलम्, असौ पुरुषोऽपससा-
रापसृतवान् । 'सृञ् अपसरणे' इत्यस्य लिटि रूपम् ।
 
टिप्प० -- 1 व्यवहृतिः क्रीडेत्याशयः । 2 भूमण्डलमित्याशयः, भारतवर्षस्यैकदेशत्वात् ।
 
माह
 
4
 
>
 
>
 
>
 
पाठा० -१ नाटकाख्यानक. २ मुरजप्रभृतीनां वाद्यविशेषाणाम्. ३ नृत्त. ४ प्रणयकुपित. ५ कामिनीजन.
६ सर्वरतानां च ७ आत्मायन्त. ८ पञ्जरमपससार,
 
४ का०