कादम्बरी /579
This page has not been fully proofread.
५४६
कादम्बरी ।
[ कथायाम्-
स्तावत्येवा पररात्रवेलया योजनत्रितयमेवालङ्घयत् । अथाध्वश्रमापहरणायेव प्रवृत्ते वातुमाह्लाद-
कारिणि निर्भरज्योत्स्नाजलावगाहादाद्रार्द्रस्पर्शेऽवश्यायशीकरवर्षिणि रेजोलुलित विविधवन-
पल्लवानिलवीजिते विनिद्रकुमुदिनी पैरिमलनलग्नपरिमले परिमलांहितजडिम्नि रैजनीविराम-
पिशुने मातरिश्वनि, क्रमेण चापर दिग्वधूवदनचुम्बिनि तैदा कल्पकाले च दुर्विषहशर्वरीविरह-
चिन्तये वासन्नदिनकरोदयविषादेनेवाप्रदोषादुत्तानितमुखैः कुमुदराशिभिः पीयमानस्य धाम्नः
परिक्षयेणेव सर्वाम्बरसरः पयःपायिपयोविभ्रमाश्वरजः संघातोपघातेनेव पाण्डुतां गंतवति
,
चन्द्र बिम्बे, प्रत्यग्रगगनलक्ष्मीवियोगसंतापोज्झिते धवलोत्तरीयांशुक इव शशाङ्कलने गलति
चन्द्रिकालोके, अपरजलधिपातिना ज्योत्स्नाजलप्रवाहेणेव सहसा फेनबुद्बुदावलिष्विव नैश्य-
त्येव तावत्या एवापररात्रवेलयापररात्र उच्चन्द्रस्तस्या वेलावसरस्तया योजनत्रितयमेव द्वादशक्रोशानेवालङ्घ-
यदुलङ्क्षितवान् । अथेति । योजनन्त्रितयोलङ्घनानन्तरमध्वश्रमो मार्गक्लमस्तस्यापहरणायेव दूरीकरणायेव
मातरिश्वनि वायौ वातुमितस्ततश्चलितुं प्रवृत्ते सति । इतो वायुं विशेषयन्नाह - आह्लादेति । आह्लादः
प्रमोदस्तं करोतीत्येवंशीलः स तथा तस्मिन् । निर्भरं यो ज्योत्स्नाजलस्यावगाहोऽवगाहनं तेनार्द्राऽतिशये-
नाईः क्लिन्नः स्पर्शो यस्य स तथा तस्मिन् । 'आई : क्लिन्नेऽभिधेयवत्' इति विश्वः । अवश्यायस्तुहिनं
तस्य शीकरा वातास्तकणा स्तान्वर्षतीत्येवंशीलः स तथा तस्मिन् । रजोलुलिता धूलीमिश्रिता विविधा अनेक-
प्रकारा ये वनपल्लवा अरण्य किसलयानि तेषामनिलो बायुरतेन वीजिते प्रेरिते । विनिद्रा विमुद्रा या कुमुदिनी
कैरविणी तस्याः परिमलनं विमर्दनं तेन लग्नः परिमलो यस्य स तथा तस्मिन् । परिमलेनाहिता स्थापिता
जडिमा यस्मिन्स तस्मिन् । रजन्या विरामोऽवसानं तस्य पिशुने सूचके । क्रमेण चेति । क्रमेण परि-
पाट्या तदा तस्मिन्कल्पेकाले प्रभाते सति च पाण्डुतां शुक्लतां चन्द्रबिम्बे शशिमण्डले गतवति प्राप्तवति
(सति । कथंभूते । अपरदिगेव पश्चिमदिगेव वधूः वनिता तस्या वदनं मुखं चुम्बतीत्येवंशीलः स तस्मिन् ।
पाण्डुतानिदानं प्रदर्शयन्नाह - दुर्विषति । दुर्विषहा दुःखेन सोढुं शक्या या शर्वरी रात्रिस्तस्या विरहो
वियोगस्तस्य चिन्तयेवार्लेव, आसन्नः समीपवर्ती यो दिनकरोदयः सूर्योद्गमस्तस्माद्यो विषादः खेदस्तेनेव,
आप्रदोष।त्प्रदोषं।भावादुत्तानितमु खैरूवकृताननैरेतादृशैः कुमुद शिभिः कैरवश्रेणिभिः पीयमानस्यास्वाद्यमानस्य
धाम्न आलोकस्य परिक्षयेणेव विनाशेनेव । सर्वं यदम्बरमेव सरस्तटाकं तस्य पयःपायिनो ये पयोदा मेघास्तेषां
विभ्रमो यस्मिन्नेतादृशो योऽश्वरजः संघातस्तेन य उपघातस्तेनेव । पुनश्चन्द्रं विशेषयन्नाह - प्रत्यति ।
प्रत्यग्रा नवीना या गगनलक्ष्मीयम श्रीस्तस्या वियोगसंतापो विरहज्वरस्तेनोज्झिते विमुक्ते । धवलोत्तरीयांशु-
कस्येदं विशेषणम् । शशाङ्कलने चन्द्रसंबद्धे चन्द्रिकालोके चन्द्रकलिकाप्रकाशे गलति क्षरति सति ।
अङ्गलग्नशुक्लत्वसाम्यादुत्प्रेक्षते - धवलं शुक्लं यदुत्तरीयांशुकमुपरिवस्त्रं तदिवेत्युत्प्रेक्षा । अपरेति । अपर
जलधिपातिना पश्चिमसमुद्रावगाहिना ज्योत्स्नाजलप्रवाहेणेव सहसा तारकापतिषु नक्षत्रश्रेणिषु नश्यन्तीषु
विलयं गच्छन्तीषु सत्सु । वर्तुलत्वश्वेतत्वसादृश्यादुत्प्रेक्षते
- फेनबुद्बुदावलिष्विव कफयुक्तस्थासकश्रेणिष्विव ।
--
टिप्प० – 1 'तदाकल्पकेनेव' इति पाठः । तस्याः (अपर दिग्वध्वाः) आकल्प एव आकल्पकः (वेष-
रचना, प्रसाधनम् ) तेनेव, चन्द्रेण अपरदिग्वध्वा वदनचुम्बनं कृतम् अत एव तत्रस्थचन्दनाद्यङ्गरागेणे-
वेत्याशयः । काले इति पाठे तु 'कल्यकाले' प्रत्यूषकाले इति स्यात् । 'प्रत्यूषोहर्मुखं कल्यः' इत्यमरः ।
2 आप्रदोषात् प्रदोषमभिव्याप्य । 3 चन्द्रस्य पाण्डुतागमने तदाकल्पकेनेव इत्यादीनि पञ्च कारणान्युप्रे-
क्षितानि । संतप्ते भङ्गे वस्त्रधारणमशक्यम्, अत एवोज्झिते अंशुके इव चन्द्रालोके ( प्रकाशे ) गलति
निपतति सति ।
पाठा०—१ इव. २ रयललिता: ३ परिमिलन ४ लग्नपरिमलाहित ५ रजनि. ६ तदाकल्पकेनेव. ७ कुमुद
शशिभिः• ८ आपीयमानस्य ९ संघातेनेव. १० उपगतवति, ११ न स्पृशन्तीषु.
.