This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
५४
भवनहंसानां कलरवेण, निर्धार्यमाण इवे च श्रोत्रप्रवेशिना गमनवेला प्रणामसंभ्रान्तस्य वारा-
अनाजनस्य चलवलयनूपुररसनाकलकलेन, तारदीर्घतरः शङ्ख बनिरुदतिष्ठत् ।
 
अनन्तरं चोत्थाप्यमानैश्श्रोत्थितैःश्चाकृष्यमाणैश्या कष्टैचा रोप्यमाणपर्याणश्च पर्याणितैश्च
नीयमानैश्चानीयमानैश्च विलेभ्यमानैश्वाच्छिद्यमानैश्चागच्छद्भिश्चागतैश्च पूज्यमानैश्च पूजितैश्च
पँङ्किस्थितैश्च बाह्यमानैश्च तिष्ठद्भिश्च प्रतिपालयद्भिश्च पर्याप्तराजद्वाराङ्गणैरै प्रभूतचत्वरैर्निस्तु
षितसकलरथ्यान्तरतयान्तर्बहिश्च संकटायमाननगरीविस्तारैस्तुरङ्गमसहस्रैस्तत्क्षणं कुन्तवन-
मयमिवान्तरिक्षम्, खुररवमयींव मेदिनी, हेषारवमयानीव श्रोत्रविवराणि, फेनपिण्डस्तवक-
मयमिव युवराजभवनद्वाराङ्गणम्, खलीनरवमथ्य इव दशदिशः, अश्वालंकाररत्नप्रभामयां
इवाभवन्शशाङ्करश्मयः । अचिराच गृहीतसमायोगोऽङ्गणात्तमिन्द्रायुधमारुह्य पुरस्ताचलिते-
शब्दितेनानुवर्यमान, इवानुगम्यमान इव । स्वभावेन प्रकृत्या गद्गदेन गद्गदरूपेण भवनहंसानां 'गृहसितच्छ:
दानां कलरवेण मनोज्ञशब्देन मुहुर्मुहुर्वारंवारं विच्छिद्यमान इव विच्छेदं प्राप्यमाण इव । श्रोत्रप्रवेशिनां कर्ण-
चारिणां गमनवेला यात्रावसरस्तस्यां प्रणामो नमस्कारस्त संभ्रान्तस्य सादरस्य वाराङ्गनाजनस्य वेश्याजनस्य
चलानि चञ्चलानि वलयानि कटकानि, नूपुराणि पादकटकानि, रसनाः काव्यः, तासां कलकलेन कोलाहलेन
निर्धार्यमाण इव निश्चीयमान इव । तारोऽत्युच्चध्वनिस्तेन दीर्घसरोऽत्यायतः ।
 
अनन्तरं चेति । ध्वनेरुत्थानानन्तरंमुत्थाप्यमानैश्चोत्थानं क्रियमाणैः उत्थितैरुघ्वांभूतैः, आकृष्यमाणै.
राकर्षणं क्रियमाणैः, आकृष्टैराकर्षितैश्च, आरोप्यमाणं प्रियमाणं पर्याणं पल्ययनं येषु तैः पर्याणितैर्घृतपल्ययनैश्च,
नीयमानैः प्राप्यमाणैः, आनीयमानैरानयनं क्रियमाणैश्च, विलभ्यैमानैर्विलम्भनं क्रियमाणैः, आच्छिंयमानैश्च,
आगच्छद्भिरागमनं कुर्वद्भिः आगतैः समायातैश्च, पूज्यमानैरभ्यर्च्यमानैः पूजितैरर्चितैश्च, पङ्किस्थितैश्च पङ्ख्या
श्रेण्या स्थितैः, वाह्यमानैर्भारोद्वहनं कार्यमाणैर्वहद्भिश्च तिष्ठद्भिरवस्थानं कुर्वद्भिः प्रतिपालयद्भिः प्रतिपालनां
कुर्वद्भिश्च, पर्याप्तं परिपूर्ण राजद्वाराङ्गणं नृपप्रतोल्या अजिरं यैः । 'गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे' इत्य-
मरः । अप्रभूतमसमर्थ चत्वरं बहुमार्ग येषां तैः । निस्तुषितानि निःशेषं भृतानि सकलरथ्यान्तराणि समग्र-
वीथी विवराणि यैस्तेषां भावस्तत्ता तयान्तर्मध्ये बहिश्च संकटायमानः संकीर्णायमानो नगयी अवन्त्या विस्तारो
यैरेवंविधैस्तुरङ्गमसहस्रैस्तत्क्षणं तत्कालं कुन्तवनमयमिव भल्लकानननिर्मित मिवान्तरिक्षमाकाशम् । खुराः शफास्त्रेषां
रखः शब्दस्तन्मयीव मेदिनी पृथ्वी, हेषा हेषाः तासां रखस्तन्मयानीव श्रोत्रविवराणि कर्णच्छि-
द्राणि । 'हेषा हेषा तुरङ्गाणाम्' इति हैमः । फेनपिण्डः कफपुञ्जस्तस्य स्तबकैर्गुच्छेर्निमिर्तमिव युव-
राजभवनद्वाराङ्गणम् । खलीनानां कविकानां रवाः शब्दास्तन्मय्य इव दशदिशो दशककुभः । अश्वालं-
कर तुरंगमालंकृते रत्नानि मणयस्तेषां प्रभास्त्विषस्ता सां प्राचुर्यात्तन्मया इव शशाङ्करश्मयश्चन्द्रकिरणा
अभवन् । अचिरात्स्तोककालं यावत् गृहीत आत्तः समायोगः संबन्धो येनैतादृशं यदङ्गणमजिरं तस्मात्त-
मिन्द्रायुधं पूर्वव्यावर्णितस्वरूपमारुयारोहणं कृत्वा पुरस्तादप्रतश्चलितेन प्रस्थितेनालोकहेतोः प्रकाशनिमित्तम् ।
 
टिप्प० - 1 निर्वार्यमाण इति पाठः । निःशेषेण वार्यमाण इति तदर्थः । 2 उत्थानं कार्यमाणैः
इत्युचितम् । 3 विलोभ्यमानैरिति पाठे, केनापि विलोभनद्रव्येण लोभमुत्पाद्य आनीयमानैरित्यर्थः ।
4 अन्यहस्सात् आकृष्य नीयमानैरित्यर्थः । 5 घोटकोपरि भल्लानामुल्लसितस्वास्कुन्तवन प्रचुरमिवेत्यर्थः ।
6 प्राचुर्ये मयद । विकारार्थे निर्देशस्तु अज्ञानमेवास्य । 7 प्रकाशस्य कारणात् चन्द्रमण्डलसहशेन, छत्रस्य
प्रकाशशालित्वात् ।
 
पाठा० - १ भवनकलहंसानाम्. २ इव श्रोत्र. ३ चलचपल, ४ कणत्कलकलेन; गुणस्कल कलेन. ५ विलस्त्रमानैः,
६ अपरिस्थितैश्च ७ अप्रतिपातयन्निध; निष्पतद्भिश्व ८ अपर्याप्त ९ निस्तुच्छित. १० अङ्गणगतम्.