कादम्बरी /576
This page has not been fully proofread.
अपररात्रे यात्राशङ्खध्वनिः ]
उत्तरभागः ।
च्युतजलधारासहस्रैः । तथा च गर्भगृहेष्वप्यविहितप्रवेशैः, दन्तवलभीभ्योऽपि लब्धपरभागः,
पद्मिनीपत्र खण्डेष्वप्यखण्डितघवलिमभिः, आरामेष्वपि दिवसबुद्धिमुत्पादयद्भिः परस्परो-
द्विन्त्रक्रमेणोद्भिरद्भिरिव आवर्जयद्भिरिव, विक्षिपद्भिरिव, विस्तारद्भिरिव, वर्षद्भिरिव सर्वतो
ज्योत्स्ना प्रवाहम्, कादम्बरीसमागमत्वरादानाय स्मरसर्वालमोक्षमिव कुर्वद्भिश्चन्द्रपार्द्वगु-
णीकृतमन्मथोत्साहो गर्मेनसंज्ञाशङ्खनादायादिदेश ।
१
अथ गगनतललब्धविस्तारः, विजृम्भमाण इव दिकुञ्जेषु, आवर्तमान इवाभ्रंलिहनगरी-
प्राकारमण्डलाभ्यन्तरे, समारोहन्निवोत्तुङ्गगोपुराट्टालकशिखराणि, चलन्निव हर्म्यान्तरालेषु,
विकसन्निव चतुष्कचत्वरेषु, प्रसरन्निव राजमार्गेषु, परिभ्रमन्निव भवनसंकटेषु, प्रविशन्नि-
वोद्याननेगवनगहरेषु, संमूर्च्छन्निव प्रासादकुक्षिषु, तत्क्षणप्रतिबोधितानां गृहसरोजिनीसार-
सानामनुवर्तमान इव तारतरदीर्घेण रणितेन, विच्छिद्यमान इव मुहुर्मुहुः स्वभावगद्गदेन
१
१
4
कान्तेभ्यश्च्युताः पतिता या जलधारास्तासां सहस्रैः क्षालितैरिव धौतैरिव । तथा च गर्भगृहेष्वपवर्गेष्वप्यविहतो -
ऽप्रतिषिद्धः प्रवेशो येषां तैः । दन्तवैलभीभ्योऽपि रदनच्छदाधारेभ्योऽपि लब्धः प्राप्तः परभागो गुणोत्कर्षो
यैः । पद्मिन्या नलिन्याः पत्रखण्डेष्वपि दलसमूहेष्वप्यखण्डिताऽत्रुटिता धवलिमा श्वेतता येषां तैः । किं कुर्वद्भिः।
आरामेष्वपि कृत्रिमवनेष्वपि दिवसबुद्धिं वासरधियमुत्पादयद्भिर्निष्पादयद्भिः । परस्परमन्योन्यमुत्प्राबल्येन
भिन्नो विद्धोऽयमनेन भिन्नोऽनेनायमित्यादिक्रमेणोद्भिरद्भिरिवरद्भिरिव आवर्जयद्भिरिव मुञ्चद्भिरिव, विक्षिप-
द्भिरिवेतस्ततो विक्षेपं कुर्वद्भिरिव, विस्तारयद्भिरिव प्रसारयद्भिरिव: वर्षद्भिरिव वृष्टिं कुर्वद्भिरिव सर्वतः सम-
न्ततो ज्योत्स्नाभरप्रवाहम्, कादम्बर्या: समागमो मेलापस्तस्य त्वरादानाय स्परस्य कंदर्पस्य सर्वास्त्राणि तेषां
मोक्षं कुर्वद्भिरिव सृजद्भिरिव ।
2
अथेति । शङ्खनादादेशानन्तरं शङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्थितो बभूव । इतः शङ्खनिनादं विशेष-
यन्नाह - गगनतलेति । गगनतले व्योमतले लब्धः प्राप्तो विस्तारो येन सः । दिक्कुञ्जेषु ककुन्निकुञ्जेषु
विजृम्भमाण इव कोशं प्राप्यमाण इव । अभ्रंलिहो व्योमव्यापी यो नगर्याः प्राकारमण्डलो वत्रपरिधिस्तस्या
भ्यन्तरे मध्य आवर्तमान इव भ्रममाण इव । उत्तुङ्गान्यत्युच्चानि यानि गोपुराणां प्रतोलीनामट्टालकानि तदु-
परिवर्तिसदनानि तेषां शिखराणि शृङ्गाणि तानि समारोहन्निव समारोहणं कुर्वन्निव । हर्म्याणि भवनानि तेषा-
मन्तरालेषु विचालेषु चलन्निव गच्छन्निव । चतुष्काणि संजवनानि चत्वराङ्गनानि चतुर्मार्गाणि वा तेषु विक-
सन्निव विकास प्राप्नुवन्निव । राजमार्गेषु श्रीपथेषु प्रसरन्निव विस्तरन्निव । भवनसंकटेषु गृहसंकीर्णस्थानेषु
परिभ्रमन्निव भ्रमणं कुर्वन्निव । उद्यानस्य वनस्य नगाः पर्वतास्तेषां वनान्यरण्यानि तेषां गहराणि गहनान्युया-
नानि च नगाश्च गहराणि च । इतरेतरद्वन्द्वो वा । तेषु प्रविशन्निव प्रवेशं कुर्वन्निव प्रासादानां देवभूपसद्मनां
कुक्षिष्वभ्यन्तरप्रदेशेषु संमूर्च्छन्निव समर्थीभवन्निव । तत्क्षणं तत्कालं प्रतिबोधितानां जागरितानां गृहसरो-
जिन्यः सदननलिन्यस्तासां सारसा लक्ष्मणास्तेषामतिशयेन तारोऽत्युच्चध्वनिस्तारतरस्तेन दीर्घेणायतेन रणितेन
टिप्प० -1 गर्भगृहाः अभ्यन्तरगृहाः । 2 गजदन्तनिर्मिता उपरिगृहा: । 'नमछलीका वलभीर्युवानः '
इति माघः । 3 इमनिच्प्रत्ययान्तस्य सर्वत्र स्त्रीत्वं प्रयुक्त इति तु क्षेत्रियो व्याधिः । पुंस्त्वमुचितम् ।
4 परस्परंम् उद्भिन्नम् ( उद्भेदो विकासः ) तस्य क्रमेण ।
पाठा० - १ प्रवर्तयद्भिरिव वर्षद्भिरिव २ गमन. ३ अभ्यन्तरेषु. ४ वलयन वलनू ५ नगगहरेष.