कादम्बरी /575
This page has not been fully proofread.
५४२
कादम्बरी ।
[ कथायाम-
9
,
१
स्थित्वा परिवर्तयद्भिरिव स्वकान्त्या नीलिमानमम्बरतलस्य अपहरद्भिरिव हरिततां तरु-
गहनानाम्, अधस्तादपि छिद्रयित्व प्रविशद्भिः निर्वासयद्भिरिव तरुतलच्छायाम्, दंरीकु-
हरकुञ्जोदरेष्वपि निलीनं तिमिरमक्षान्त्येव प्रविइयोत्पाटयद्भिः विवरप्रवेशव्याजेन च रसा-
तलमिव प्रवेष्टमारब्धैः, अन्यथा पुनर्धवलयद्भिरिव धवलतां सौधानाम्, उद्लयद्भिरिव
कर्पूररेणुना दिड्युखानि, लिम्पद्भिरिव सान्द्रचन्द नद्रवेण यामिनीम्, उन्नामयद्भिरिव मेदि-
नीम्, उपनयद्भिरिव द्याम्, संक्षिपद्भिरिव तारकाग्रहनक्षत्रमण्डलानि, विस्तारयद्भिरिव सरि-
त्पुलिनानि, पृथक्पृथक्कमलवनान्युत्पीड्येवं धारयद्भिः, उद्दलितद्लविकासाने की कुर्वद्भिरिव
कुमुदाकरान्, अपि च पर्यस्तैरिव शिखरिशिखैरेषु, आवर्जितैरिव प्रासादमूर्धसु, तरद्भिरिव
जलतरङ्गेषु, पिण्डीभूय वहद्भिरिव रथ्यामुखेषु प्रसारितैरिव सैकतस्थलेषु, हंससार्थैः सहै-
की भूतैरिव, संविभक्तैरिव चन्द्राश्रय प्रसुप्तकामिनी कपोललावण्येन, क्षालितैरिव चन्द्रकान्त
.
-
स्तस्मा आदिदेशानुज्ञां दत्तवान् । इतश्चन्द्रपादान्विशेषयन्नाह - परिवर्तयद्भिरित्यादि । स्वकान्त्या स्वकी-
यदीधित्याम्बरतलस्याका शतलस्य नीलिमानं नीलतां परिवर्तयद्भिरिव परावर्त कुर्वद्भिरिव, नीलिमानं गृहीत्वा
श्वेतिमानं ददद्भिरिवेत्यर्थः । तरुगहनानां तरुगहराणां हरिततां पीतनीलतामपहरद्भिरिव गृहद्भिरिव । दूरी-
कुर्वद्भिरिवेत्यर्थः । अधस्तादप्यधोभागमपि प्रविशद्भिः प्रवेशं कुर्वद्भिः । अत एवोत्प्रेक्षते-छिद्रयित्वेव छिद्राणि
कृत्वेव तरुतलानां छाया तपाभावस्तां निर्वासयद्भिरिव बहिः कुर्वद्भिरिव । निर्विषयी
कुर्वद्भिरिवेत्यर्थः । दरी गुहा
कुहराणि सुषिराणि कुञ्जोदराणि वृक्षैर्वृतान्तरस्थानमध्यभागास्तेष्वपि प्रविश्य निलीनं गुप्ततया स्थितं तिमिरं
तमोऽक्षान्त्येव क्रुधेवोत्पाटयद्भिरिवोत्पाटनं कुर्वद्भिरिव । विवराणि सुषिराणि तेषु प्रवेशोऽन्तर्गमनं तस्य व्याजो
मिषं तेन च रसातलं पृथ्वीतलं प्रवेष्टुं प्रवेशं कर्तुमारब्धैः कृतप्रारम्भैः । अन्यथान्यप्रकारेण सौधानां गृहाणां
ववलतां शुभ्रतां पुनर्द्वितीयवारं धवलयद्भिरिव धवलीकुर्वद्भिरिव । कर्पूररेणुना हिमवालुकाक्षोदेन दिङ्मुखानि
दिशां वदनान्युद्धूलैयद्भिरिवोद्वर्तयद्भिरिव । सान्द्रः स्निधो यश्चन्दनद्रवो मलयजरसस्तेन यामिनीं त्रियामां
लिम्पद्भिरिव लिम्पनं कुर्वद्भिरिव । मेदिनीं वसुधामुन्नाम रिवोच्चैः कुर्वद्भिरिव । यां दिवमुपनयद्भिरिव ।
तारकास्ताराः, ग्रहाः शुक्रादयः, नक्षत्राण्यश्विन्य (दीनि, तेषां मण्डलानि बिम्बानि संक्षिपेंद्भिरिव संक्षेपं कुर्व-
द्भिरिव । सरित्पुलिनानि नदीजलोज्झितप्रदेश स्तानि विस्तारयद्भिरिव विस्तारं प्रापयद्भिरिव । पृथक्पृथगन्यद..
न्यत्कमलवनानि पङ्कजारण्यान्युत्पीड्य संमर्थ धारयद्भिरिव कुमुदाकरान्कैरवसमूहानुद्दलितो दूरीकृतो
दलानां पत्राणां विकासो येषां तानेकी कुर्वद्भिरिवा पृथैग्भावं कुर्वद्भिरिव । अपि च शिखरिणां पर्वतानां शिख-
रेषु पर्यस्तैरिव पतितैरिव । प्रासादा देवभूपान हास्तेषां मूर्धान उपरितन प्रदेशास्तेष्वावर्जितैरिव विस्ता-
रितैरिव । 'हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्' इत्यमरः । जलतरङ्गेष्वम्भःकल्लोलेषु तरद्भिरिव ।
पिण्डीभूय पिण्डतां प्राप्य वहद्भिरिव प्रवहद्भिरिव रथ्यामुखेषु । सैकतस्थलेषु पुलिनस्थलेषु प्रसारितैरिव प्रस-
रणं प्राप्तैरिव । हंसानां सितच्छदानां साथैः संघातैः सहेकीभूतैरिवैकभावतां गतैरिव । चन्द्राश्रये शिरोगृहे
प्रसुप्ता या कामिनी कंदर्पवती स्त्री तस्याः कपोलो गल्लात्परप्रदेशस्तस्य लावण्यं मुक्ताफलस्य छायेव तरलत्वं
तेन संविभक्तैरिव संविभागीकृतैरिव । 'कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्' इत्यमरः । चन्द्र-
टिप्प० - 1 धूल्या विच्छुरयद्भिः । 2 चन्द्रिकायां जृम्भमाणायां तारकादीनि न्यूनप्रकाशतया संक्षि
तानि भवन्तीत्याशयः । 3 चन्द्रकिरणैः श्वेतेषु कुमुदाकरेषु मिथः पृथग्भावो न प्रतीयत इत्याशयः ।
पाठा० - १ दरीगहन, २ एत्र धारयद्भिरिव ३ शेखरेषु.