कादम्बरी /574
This page has not been fully proofread.
चन्द्रपीडस्पौत्सुक्यम् ]
उत्तरभागः ।
५४१
विलासवतीमूर्ध्वस्थित एवावादीत-- 'देवि, पश्यैषा त्वमपि वधूमुखाबलोकनसुखस्य कृते न
ताम्यसीत्युपालभमानेव देवीम्, वत्सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलेसि-
तनिवर्तनाज्ञा, विजृम्भमाणा इमञ्जुरींगशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमा-
विशसीति प्रष्टव्या । तदादिशतु देवी कथ्यमानेऽपि किमपरम् । अद्याव्यपहरसि वदनमन्यतो
श्रीडया । पृष्ठा वा कर्तव्यं नाज्ञापयसि । बरमातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्य-
प्रीतिरेषा, यदेवमेतत्कार्येष्वनादरोऽवधीरणा च' इत्येवंविधैर्नर्मप्रायैरालापैः सुखायमानचे-
ताश्चिरमिव स्थित्वा शरीरस्थितिसंपादनाय निरँगमत् ।
चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा जननीभवन
एव निर्वर्तितशरीर
स्थितिर्वैशम्पायन प्रत्युगमन संविधानविनोदेनैव तं दिवसमनयत् । अब-
तीर्णायां च तस्यां यामिन्यां सुहृदर्शनोत्सुक्येन शयनगतोऽपि जामदेव समधिकमिव यामद्वयं
समतीमूर्ध्वस्थित एव शुकनासोऽवादीदब्रवीत् । किमवादीदित्याह - देवीति । हे देवि हे खामिनि, पश्य
विलोकय । एषा विलासवती त्वमपि भवत्यपि वधूमुखस्यावलोकन सुखं निरीक्षणसौख्यं तस्य कृते न ताम्यसि
नखेदं करोषि । इति देवीं विलासवतीमुपालभमानेवोपालम्भं ददानेव वत्सस्य चन्द्रापीडस्य यौवनारम्भस्य
सूत्रपातरेखेव रेखा । नवीनप्रारम्भे शिल्पिभिः सूत्रपातरेखा क्रियत इति सर्वसंमतम् । आवयोः शुकनास-
राज्ञोस्तारुण्यस्य यौवनस्य दुर्विलसितानि दुश्चेष्टितानि तेभ्यो निवर्तनस्य दूरीभवनस्याज्ञेव आज्ञा । अत्र सर्वत्र
रूपकम् । एवंविधा विजृम्भमाणा विस्तारं प्राप्यमाणा श्मश्रुरागशोभा कूर्चरागच्छ विर्विवाहलक्षणं यन्मङ्गलं शुभ-
क्रिया तस्य संपादनाय करणायादिशति कथयति । त्वं विलासवत्यपरमन्यत्किमादिशसि कथयसीति प्रष्टव्या
पृच्छाविषयीकार्या । तत्तस्माद्धेतोः कथ्यमानेऽऽप्युच्यमानेऽपि किमप्यपरमन्यद्देवी किमादिशतु किं कथयतु ।
अद्यापि व्रीडया लज्जयान्यतो वदनं मुखमपहरसि तिर्यग्मुखं स्थापयसि । पृष्टा वा पृच्छाविषयीकृता वा
कर्तव्यं कृत्यं नाज्ञापयसि नाज्ञां ददासि । त्वं वरमाता संवृत्ता जातासि । अहं जानाम्याकलयाम्येषा चन्द्रा-
पीडस्योपर्यप्रीतिररुचिः, यदेवमेतत् कार्येषु पूर्वोक्तकृत्येष्वनादरोऽनुत्साहोऽवधीरणावज्ञा च । एवंविधैरेताहरौन-
प्रायैबर्करसदृशैः । 'बर्कर: पशुनर्मणोः' इति हैमानेकार्थः । आलापैः संभाषणैः सुखायमानं सुखकृञ्चेतो
यस्यैवंविधश्चिरमिव चिरसदृशं स्थित्वा शरीरस्थितेर्दे हस्थितेः संपादनं करणं तस्मै निरगमन्निर्ययौ '
· चन्द्रापीडोऽपि शुकनासमुखेनैव, न तु स्वमुखेन, वैशम्पायनस्य प्रत्युद्गमनमभिमुखयानं तस्मा आत्मानं स्वं
मोचयित्वा मोक्षणं कारयित्वा जननीभवन एव मातृगृह एव निर्वर्तिता निष्पादिता शरीर स्थितिर्देहधारणात्मिका
येन स वैशम्पायन प्रत्युद्गमनस्य संविधानं करणं तदेव विनोदः क्रीडा तेनैव तं दिवसमनयत्प्रापयत् । अव
तीर्णायामागतायां तस्यां यामिन्यां रात्रौ सुहृदो मित्रस्य । 'सुहृहुर्हृदौ मित्रामित्रयोः' इति निपातः । तस्य दर्श-
नमवलोकनं तत्रौत्सुक्यमुत्सुकत्वं तेन शयनगतोऽपि शय्याप्राप्तोऽपि जाग्रदेव जागरूक एव समधिकमिव
समधिकसदृशं यामद्वयं प्रहरयुग्मं स्थित्वावस्थानं कृत्वा चन्द्रपादैः शशिकिरणैर्द्विगुणीकृतो द्विगुणतां नीतो मन्म-
थस्य कन्दर्पस्योत्साहः प्रगल्भता यस्यैवंविधश्चन्द्रापीड़ो गमनस्य संज्ञा ज्ञापनं तदर्थं यः शङ्खनादो जलजध्वनि-
टिप्प० – 1 पुनर्भ्रान्तः । आवयोः तव (राज्ञ्याः) मम चेत्यर्थः । 2 परिहासबहुलैरियेनार्थः समु
चितः। वर्करपर्यावस्तु इन्द्रस्य टीका बिडौजाः। परिह। सरस्वत्र – चन्द्र पीडस्योपरि तवाऽमीतिरित्युक्त्वा
उभयोः प्रणयकलहोत्पादनरूपः । 3 अगमय दित्यर्थ उचितः । 4 किञ्चिदधिकं यामद्वयमित्याशयः ।
पाठा० - १ देव. २ त्वमपि च ३ उत्ताम्यसि. ४ एव. ५ विलसितेच्छाविनिवर्त, ६ राजि, ७ निरगात्.