This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
.. 'साधु चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एवं सर्वविद्याः, संभा
बिता एव सर्वाः कलाः, स्वीकृता एव सर्वप्रजाः, गृहीता एवं सर्वदिग्वधूनां कराः, स्थापि-
तैब मिश्रला कुटुम्बिनीपदे राजलक्ष्मीः, ऊढैव चतुरुदधिमेखलाकलापभूषणा भूः । किमतः
परमवशिष्यते, येनानेन न परिणीयते' इत्यभिहितबति शुकनासे लज्जाव नम्रवदनश्चन्द्रापीड-
धकार चेतसि — 'अहो संवादः, येन मे कादम्बरी समागमोपायचिन्ता समकालमेवेहशी
सातस्य बुद्धिरुत्पन्ना। तदुच्यते - अन्धकारे प्रविष्टस्यालोकः, बनगहनप्रविष्टस्य देशिक-
दर्शनम्, महार्णवपतितस्य यामपात्राध्यागमनम् त्रियमाणस्योपर्यमृतवृष्टिरिति, तदेतदाप-
तितं मयि । सर्वथा वैशम्पायनदर्शनमात्रकान्तरिता वर्तते मे कादम्बरीप्राप्तिः' इत्येवं चिन्त-
यत्येव चन्द्रापीडे क्षितिपतिरुत्तस्थौ । उत्थाय च तमेब विनयावनर्तपूर्वकायं समवलम्ब्यांस-
देशे सकलमेदिनीभारोद्वहनगुरुणा दोर्दण्डेन शनैः शनैः संचरकशुकनासेनानुगम्यमानो विला-
सवतीभवनमगमत् । गत्वा च ससंभ्रमकृताभ्युत्थानामिन्दूदयावलोकन विलोला मिव समुद्रवेलां
 
"
 
9
 
किमुवाचेत्याह- साध्विति । साधु शोभनं चिन्तितं विचारितं देवेन स्वामिना । सहृदयेन सज्जनेनानेन
तु चन्द्रापीडेन हृदये सर्वविद्याः कलादिकाः समारोपिता एव प्राप्ता एव । सर्वाः कला विज्ञानानि संभाविता
एव ज्ञाता एव । सर्वप्रजाः समप्रप्रकृतयः स्वीकृता एवाजीकृता एव । सर्वदिग्वधूनां समग्रककुन्नारीणां कराः
पाणयो गृहीता एव ग्रहणविषयीकृता एव । कुटुम्बिनीपदे जायास्थाने राज्यलक्ष्मीर्निश्चला स्थिरा स्थापितैय
न्यस्तैव । चतुरुदधयश्चतुःसमुद्रास्त एव मेखलाकलापो भूषणं यस्यामेवंविधा भूः पृथ्वी ऊढैव परिणीतैन 1
अतोऽपरमन्यत्किमवशिष्यत उर्वरितं भवति, येमानेन न परिणीयते न पाणिग्रहणं क्रियते । इत्यभिहितवती-
त्युक्तवति शुकनासे लज्जया त्रपया अवनम्रं नतं वदनं यस्यैवंविधश्चन्द्रापीडश्चेतसि चित्ते चकाराकरोत् । अहो
संवादो विसंवादाभावः । येन कारणेन मे मम कादम्बर्याः समागमोपायचिन्तासमकालमेव तातस्य पितुरी-
दृशी बुद्धिरुत्पन्ना । तद्यदुच्यते प्रतिपाद्यते जनैस्तदेतन्मय्यापतितमागतम् । तत्किमित्याह – अन्धकार
इति । अन्धकारे तिमिरे प्रविष्टस्य निविष्टस्यालोकः प्रकाशः । वनस्यारण्यस्य गहनं गह्वरं तत्र प्रविष्टस्य
देशिकदर्शनं स्वदेशोत्पन्नजनावलोकनम् । महार्णवः समुद्रस्तस्मिन्पतितस्य यानपात्रस्य पोतस्याभ्यागमनं प्राप्तिः ।
म्रियमाणस्य मरणं व्रजत उपर्यमृतवृष्टिः सुधासेक इति सर्वथा सर्व प्रकारेण वैशम्पायनस्य दर्शनमात्रकमवलोकन -
मात्रकं तेनान्तरिता व्यवहिता मे मम कादम्बरीप्राप्तिर्वर्तते इत्येवं चिन्तयत्येव विचारयत्येव चन्द्रापीडे क्षिति-
पतिस्तारापीड उत्तस्थावुत्थितवान् । उत्थाय चोत्थानं कृत्वा । तमेवेति । सकला समग्रा या मेदिनी वसुधा
तस्या भारो वीवधस्तस्योद्वहनेन धारणेन गुरुणा गरिष्ठेन दोर्दण्डेन भुजदण्डेन विनयेनावनतो नम्रीभूतः पूर्वकायो
देहादिभागो यस्यैवंभूतं तमेव चन्द्रापीडमेवांसदेशे स्कन्धप्रदेशे समवलम्ब्यालम्बनीकृत्य शनैः शनैर्मन्दं मन्दं
संचरन्त्रजब्युकनासेनानु गम्यमानोऽनुयायमानो विलासवतीभवनं पट्टराज्ञीसदनमगमज्जगाम । गत्वा चेति ।
गत्वा च गमनं कृत्वा च ससंभ्रमं संभ्रमेण सह कृतं विहितमभ्युत्थानमुत्थानं ययैवंविधाम् । अत एवोत्प्रेक्षते -
इन्दूदयस्य चन्द्रोदयस्यावलोकनं निरीक्षणं तेन विलोलां चञ्चलां समुद्रस्य जलधेर्वेलामिवाम्भसो वृद्धिमिव विला-
टिप्प० – 1 'आदेश कदर्शनम्' इति पाठे मार्गप्रदर्शकस्य दर्शनमित्यर्थः ।
 
पाठा० - १ सर्वाः प्रजा: २ एव दिग्व. ३ वदनेन. ४ तदुच्यते ५ अन्धकार. ६ अभ्यागमः ७ त्रिय-
माणस्यैवान चोपरि. ८ एव. ९ अवनम्र