कादम्बरी /572
This page has not been fully proofread.
परिणयप्रस्तावः ]
उत्तरभागः ।
ङ्गानि पाणिना स्पृष्ट्वा दर्शयशुकनासमवादीत्
- 'शुकनास, पश्येयमायुष्मतश्चन्द्रापीडस्यो-
त्सर्पिणी महानीलमणिप्रभेव कनकशिखरिणः, गण्डमण्डलोद्भासिनी मदलेखेव गन्धद्विपस्य,
उपहितकान्तिपतिपरभागा लक्ष्मच्छांयेव चन्द्रमसः, विकासशोभापेक्षिणी मधुकरावलीव
कमलाकरस्य, रूपालेख्योन्मीलन कालाञ्जनवर्तिका, तारुण्यभरजलधरोत्तानश्यामिका, उज्व-
लत्कन्दर्पदीपकज्जल शिखा, स्फुरत्प्रतापानलधूमराजी, मकरध्वजोपवनतमालवल्ली, मैनोभव-
दोषारम्भबालतिमिरोद्गतिः, उद्वाहमङ्गलभ्रूसंज्ञा इमथुरा जिलेखा समन्तात्समुद्भिन्ना। विवाह-
मङ्गलयोग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह समेत्याभिजनरूपा निरूप्यतां
काचिजैगति राजकन्यका । दृष्टं हि दुर्लभदर्शनं वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्श-
नेनानन्दयाम आत्मानम्' इत्युक्तवति तारापीडे शुकनासः प्रत्युवाच -
,
4
डुलिप्रभृतीनि पाणिना हस्तेन स्पृष्ट्वा स्पर्श कृत्वा शुकनासं मन्त्रिमुख्यं दर्शयन्नवलोकनं कारयन्नवादी दब्रवीत् ।
हे शुकनास, पश्यावलोकय । आयुष्मतो जीवितवतः चन्द्रा पीडस्येयं प्रत्यक्षोपलभ्या श्मश्रुराजिः कूर्चश्रेणि-
स्तस्या लेखा रेखा समन्तात्सर्वतः समुद्भिन्ना प्रकटिता । श्यामत्वसाधर्म्यादुत्प्रेक्षते -- कनकशिखरिणः
सुवर्णाचलस्योत्सर्पिण्यूर्ध्वगामिनी महानीलमणीनां स्थूलेन्द्रनीलरत्नानां प्रभेव कान्तिरिव । गन्धद्विपस्य गन्धे-
भस्य गण्डमण्डल उद्भासितुं शीलं यस्या एवंविधा मदलेखेव दानलेखेव । उपहित आच्छादितः कान्तिपतिना
सूर्येण परभागो गुणोत्कर्षो यस्याः सैवंविधा चन्द्रमसः कुमुदबान्धवस्य लक्ष्मच्छायेव कलङ्कप्रभेव । 'पर -
भागो गुणोत्कर्षः' इत्यमरः । विकासशोभां विकस्वरलक्ष्मीमपेक्षत इत्येवंशीला कमलाकरस्य मधुकरावलीव
भ्रमरपङ्किरिव । रूपालेख्यस्य रूपचित्रस्योन्मीलनं प्रकाशनं तत्र कालाञ्जनस्य कृष्णकज्जलस्य वर्तिकेव वर्तिका
लेखिनी । तारुण्यभरो यौवनातिशयः स एव जलधरो मेघस्तस्योत्ताना अतिशायिनी श्यामिकेव श्यामिका ।
उज्ज्वलन्दीप्यन्यः कन्दर्पः कामः स एव प्रदीपः स्नेह प्रियस्तस्य कज्जलमञ्जनं तस्य शिखेव शिखा । स्फुरन्नुल्ल-
सन्यः प्रतापः कोशदण्डजं तेजः स एवानलो वह्निस्तस्य धूमराजीव धूमराजी । मकरध्वजस्य मनोभवस्योपवन-
मरण्यं तस्य तमालवल्लीव तमालवल्ली । मनोभवः कंदर्पः स एव दोषारम्भो यामिनीप्रारम्भस्तस्य बालान्यपरि-
पक्कानि यानि तिमिराण्यन्धकाराणि तेषामुद्गतिरिवोद्गतिः । उद्वाहस्य पाणिपीडनस्य मङ्गलं शुभक्रिया तस्य
भ्रूसंज्ञेव भ्रूसंज्ञा । हे शुकनास, त्वं पश्येत्यन्वयस्तु प्रागेनोक्तः । तत्तस्माद्धेतोर्विवाहमङ्गलयोग्यामुद्वाहक्रिया-
योग्यदशामारूढोऽयम् । चन्द्रापीड इत्यर्थः । तत्तस्मात्कारणादभिजनैरूपा प्रशस्ताकृतिः काचिदनिर्दिष्टनाम्नी
जगति पृथिव्यां राजकन्यका राजकुमारिका विलासवत्या देव्या सह समेत्य मिलित्वा निरूप्यतां कथ्यताम् ।
दृष्टमिति । हीति निश्चयेन । दुर्लभं दुष्प्रापं दर्शनमवलोकनं यस्यैवंविधं वत्सस्य सूनोर्वदनमाननं दृष्टम
लोकितम् । संप्रतीदानीं वध्वा मुखकमलं तस्य दर्शनेन निरीक्षणेनात्मानं स्वमानन्दयामः प्रीणयामः । इति तारा-
पीढ उक्तवति कथितवति सति शुक्नासः प्रत्युवाच प्रत्यब्रवीत् ।
टिप्प० – 1 पुनः प्रमादान्मार्ग परित्यजति । 'उपहितकान्तिपरभागा' इत्येव पाठः । उपहितो जनितः
कान्तेः परभाग उत्कर्षो यस्या इति तदर्थः । सूर्यो वराकश्चन्द्रकलङ्कस्य गुणोत्कर्ष कदाऽऽच्छादयति ?
सतष्टीकाकृतोऽर्थः शशशृङ्गायितः । 2 विकासस्य लक्ष्मीः शोभा इत्येवोचितम् । 3 'उद्दामझ्यामिका'
इत्येव रुचिराक्षरम् । उद्दामा उत्कटा । 4 'अतिजनरूपा' इति पाठे जनानू अतिक्रान्तं रूपं यस्या इत्यर्थः ।
5 दृश्यताम्, अन्विष्यतामित्यर्थ उचितः ।
पाठा० -१ कान्तिपुर २ उन्नाम; उद्दाम ३ मनोभवविकार ४ संध्य ५ जगतीराज; जगतीपति, ६ आन-
न्द्रय मे.