कादम्बरी /571
This page has not been fully proofread.
५३८
कादम्बरी ।
[ कथायाम-
निर्गतायां च केयूरकेण सह पत्रलेखायाम् 'किं शीघ्रमेते यास्यन्ति न वेति, अन्तरा
वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव
चिन्तया शून्यहृदयः क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्ग्य बहु-
दिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युगमनायात्मानं मोचयितुं पितुः पादमूलमयात् ।
तत्रै चोभयतः ससंभ्रमापसृत प्रतीहारमण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्य-
जानुकरतलावलम्बितविमलमणिकुट्टिमोदरसंक्रान्तप्रतिमो द्विगुणायमानायत कुन्तलकलापः
पितुः प्रणाममकरोत् ।
अथ तार पीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य निर्भरस्नेहगर्भेण सलिलभ-
रमन्थरेणेव जलधरध्वानेनिभेन स्वरेण सधीरम् 'एह्येहि' इत्याहूय ससंभ्रमप्रधावितमपि
संभावितशुकनासप्रणाममुपसृत्य पार्श्वे भूमावुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्याप-
रिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौवनभराभिरामतराण्यङ्गप्रत्य-
केयूरकेण सह पत्रलेखायां निर्गतायां सत्यां किमेते केयूरकप्रभृतयः शीघ्रमाशु यास्यन्ति गमिष्यन्ति न
वा । अथवा गच्छतां व्रजतामन्तरा मध्ये परिलम्बो विलम्ब उत्पत्स्यते भविष्यति न वा । कियद्भिः कियन्मा-
त्रैर्दिवसैर्वासरैः परापतिष्यन्त्या गमिष्यन्ति । अनयैव चिन्तया शून्यं मूढं हृदयं यस्यैवंभूतः क्षणमिव क्षणमात्र
स्थित्वा स्कन्धावारस्य सैन्यस्य वार्ता प्रवृत्तिस्तस्याः स्फुटीकरणं प्रकटीकरणं तस्मै वार्ताहर संदेशहारकं विसर्ज्य
गमनायादेशं दत्त्वा बहुदिवसैरन्तरितं व्यवधानीकृतं दर्शनमवलोकनं यस्यैवंविधस्य वैशम्पायनस्य प्रत्युद्गमनाया -
भिमुखयानायात्मानं स्वं मोचयितुमुत्कलीकर्तुं पितुस्तारापीडस्य पादमूलं चरणसमीपमयागतवान् । तत्रेति ।
उभयत उभयपार्श्वे ससंभ्रमेणापसृतं किंचित्पश्चागतं यत्प्रतीहारमण्डलं द्वारपालसमूहं तेन वितीर्णो दत्तो
विस्तीर्णो विशाल आलोकनमार्गो निरीक्षणपन्था यस्य सः । दूरादेवेति । दूरादेव दविष्ठादेवापसव्यो दक्षिणो
जानुर्नलकीलकः करतलं हस्ततलं ताभ्यामवलम्बितमालम्बनीकृतं विमलं निर्मलं यन्मणिकुहिमस्य मणिबद्ध
भूमेरुंदरं मध्यं तत्र संक्रान्ता प्रतिबिम्बिता प्रतिमा मूर्तिर्यस्य सः, अतं एवोभयत्र दृश्यमानत्वाद्विगुणायमानो
द्विगुणवदाचरमाण आयतो विस्तीर्णः कुन्तलकलापः केशसमूहो यस्यैवंभूतश्चन्द्रापीड : पितुस्तारापीडस्य प्रणामं
नमस्कारमकरोदसृजत् । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः ।
अथेति । प्रणामानन्तरं तारापीडस्तथा तेन प्रकारेण दूरत एव दविष्ठादेव कृतप्रणामं विहितनमस्कारं चन्द्रापी-
डमालोक्य निरीक्ष्य निर्भरं यथा स्यात्तथा स्नेहो हार्द गर्ने मध्ये यस्मिन्नेतादृशेन सलिलभरः पानीयभरस्तेन मन्थरें-
णेव स्त्रिग्धेनेव जलधरस्य मेघस्य ध्वानो ध्वनिस्तस्य निभेन सदृशेन खरेण शब्देन सधीरं यथा स्यात्तथा एह्येह्या-
गच्छागच्छेत्याहूयाह्वानं कृत्वा ससंभ्रमं सादरं सचकितं वा प्रधावितमपि त्वरितगत्या चलितमपि संभावितः संभा-
वनाविषयीकृतः शुकनासस्य प्रणामो नमस्कारो येन स तमुपसृत्योपसरणं कृत्वा पार्श्वे भूमौ पृथिव्यामुपविशन्तं
निषीदन्तं हृठादाकृष्याकर्षणं कृत्वा पादपीठे पदासने समुपवेश्योपवेशनं कारयित्वाऽपरिसमाप्ताऽपरिपूर्णाऽव-
लोकनस्य निरीक्षणस्य स्पृहा वाञ्छा यस्यैवंविधेन चक्षुषा नेत्रेण सुचिरं चिरकालं यावत्, आलोक्य निरीक्ष्या
चन्द्रापीडस्योपारूढं प्राप्तं ययौवनं तारुण्यं तस्य भरः संभारस्तेनाभिरामतराण्यतिमनोहराण्यङ्गप्रत्यङ्गानि हस्ता-
टिप्प० - 1 ससंभ्रमम् संभ्रमेण सहितम् अपसृतमित्यर्थः ।
पाठा० -१ बिलम्ब: २ अगात् ३ तत्रैव ४ एव; नव ५ ध्वनिना ध्वनिगम्भीरण ६ धीरम्. ७ उपसृज्य
८ अङ्गोपाङ्गानि.