कादम्बरी /570
This page has not been fully proofread.
पत्रलेखाया अभिनन्दनं विसर्जन च ] उत्तरभागः ।
अपि चैतेऽनुप्राहकत्वादेवापरित्याज्याः, गुरुत्वादेव कृतावष्टम्भाः, विस्तीर्णत्वादेवालङ्घनीयाः,
प्रभूतत्वादेवापरिहार्याः । तदेभिरहं विनाप्यागमनाज्ञया सुदूरमपक्रान्तोऽपि बलादेवाकृष्य
देवीपादमूलमानीये' इति । यया वानपेक्षितगमनाज्ञया निर्यश्रणत्वागतोऽहमिति विशेसम्,
सैव वाणी विज्ञापयति- 'यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम्, तथा
देव्याऽऽत्मसंधारणायात्मनैव यत्नः कार्यः' इति संदिश्य पुनराह-
'पत्रलेखे, त्वयापि यान्त्याध्वनि व मद्विरहपीडा भावनीया, न शरीरसंस्कारेऽनादरः कर
णीयः, नाहारवेलातिक्रमणीया, न येनकेन चिदज्ञातेन पथा यातव्यम्, न यत्रतत्रैवानिरू-
प्यावस्थातव्यम्, उषितव्यं वा । न यस्यकस्यचिद परिज्ञायमानस्यान्तरं दातव्यम्, सर्वदा
शरीरेऽप्रमादिन्या भाव्यम् । किं करोमि। त्वत्तोऽपि मे वल्लभतरा देवीप्राणाः, येनैवमेकाकिनी
तेषां संधारणाय विसर्जितासि । अपि च मम जीवितमपि तवैव हस्ते वर्तते । तैन्नियतं त्वयात्मा
यत्नेन परिरक्षणीयः' इत्युक्त्वा सस्नेहं परिष्वज्य केयूरकं पुनस्तदवधानदानाय संविधाय
'महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्नयनायागन्तव्यम्' इत्यादिश्य व्यसर्जयत् ।
प्रयच्छन्ति । अपि चेति । अपि च प्रकारान्तरेण एते देवीप्रसादा अनुग्राहकत्वादेवा नुग्रहका रित्वा देवापरि-
त्याज्या अपरिमोच्याः । गुरुत्वादेव गरीयस्त्वादेव कृतो विहितोऽवष्टम्भ आधारो यैस्ते तथोक्ताः । विस्तीर्णत्वा-
देव विशालत्वादेवालङ्घनीया अनतिक्रमणीयाः । प्रभूतत्वादेव बाहुल्यादेवापरिहार्या अत्याज्याः । एतेषां द्विती-
योऽर्थः स्वयमूह्यः । तदिति हेत्वर्थे । एभिः प्रसादैरहमागमनस्याज्ञा निदेशस्तां विनापि सुदूरं दविष्ठमपका-
न्तोऽपि गतोऽपि बलाद्धठादेवाकृष्याकर्षणं कृत्वा देव्याः कादम्बर्याः पादमूलं चरणसमीपमानीय इति ।
ययेति । अनपेक्षिताऽनीहिता गमनस्य यात्राया आज्ञा नियोगो ययैवंविधया वाण्या निर्यन्त्रणत्वादहं गत इति
विज्ञप्तं कथितम् । सैव वाणी विज्ञापयति विज्ञप्तिं करोति । किं तदित्याह - यथेति । तथा मे ममागमनं निष्फलं
निष्प्रयोजनं न भवति । जगद्वा शून्यमुद्रसितं न स्यात् । तथा देव्या कादम्बर्यात्मसंधारणायात्मरक्षणायात्मनैव
खेनैष यत्नः परिश्रमः कार्यः । इति संदिश्य कथयित्वा पुनर्द्वितीयवारमाह-
हे पत्रलेखे, त्वयापि भवत्यापि यान्त्या व्रजन्त्याध्वनि मार्गे मम विरहो वियोगस्तस्य पीडा व्याधिने भाष
नीया न भावनाविषयीकार्या । न विचारणीयेत्यर्थः । शरीरस्य संस्कारे परिकर्मणि नानादरोऽनुद्यमः करणीयो
विधातव्यः । आहारवेला भोजनसमयो नातिक्रमणीया नोल्लङ्गनीया । अज्ञातेनानांकलितेन येनकेनचित्पथा
मार्गेण न यातव्यं न गन्तव्यम् । यत्रतत्रैव यस्मिंस्तस्मा स्थलेऽतिगम्यं नानिरूप्यानवलोक्यावस्थातव्य-
मासितव्यमुषितव्यं वा वैसितव्यं वा । न यस्यकस्यचिदपरिज्ञायमानस्यानुपलक्षितस्यान्तरमवकाशो हार्द वा
दातव्यं प्रदेयम् । सर्वदा सर्वप्रकारेण शरीरे तनावप्रमादिन्यानालसिन्या भाव्यं भवितव्यम् । अहं किं करोमि
किं कुर्वे । त्वत्तोऽपि भवत्या अपि मे मम देवीप्राणाः कादम्बर्यसवो वल्लभतरा अतिशयेन प्रियाः । येनैव-
मिति । येन कारणेनैवममुना प्रकारेण तेषां प्राणानां संधारणाय रक्षणाय त्वमेकाकिन्यसहाया विसर्जिता
प्रहितासि । अपि च युक्त्यन्तरे । मम जीवितं प्राणितमपि तवैव भवत्या एवं हस्ते वर्तते नान्यस्येत्यर्थः । अत्रैव-
कारोऽन्ययोगव्यवच्छेदार्थः । तत्तस्मान्नियतं त्वयात्मा प्राणो यत्नेनोद्यमेन परिरक्षणीयो रक्षितव्यः । इत्युक्त्वा
कथयित्वासहं सहार्द परिष्वज्यालिङ्ग्य केयूरकं पुनस्तस्याः पत्रलेखाया अवधानं समाधानं तस्य दानं बित-
रणं तदर्थ संविधाय कृत्वा महाश्वेताया आश्रमं मुनिस्थानं यावत् अनया पत्रलेखया त्वयैवं भवतैव सह
मन्नयनाय मदाकारणायागन्तव्यं समेतव्यमित्यादिश्येत्युक्त्वा व्यसर्जयदप्रैषीत् ।
टिप्प० - 1 भानयतेः कर्मणि, लट उत्तमपुरुषैकवचनम् । मानीतोस्मि, इत्यर्थः । 2 विवाहद्वाराऽहं
सनाथी कर्तव्य इति गूढमाकृतम् ।
3 वस्तव्यमिति तात्पर्यम् । 4 अनया सह स्वयैवागन्तव्यमिति
तात्पर्यम् । केयूरकस्य प्राधान्यं पत्रलेखायाश्याप्राधान्यमित्याशयः ।
•
·
पाठा० -१ च. १ विशतः ३ विसर्जितण्या ४ तदारमा ५ च पुनः ६ वयानयैव सह.
६८ का०