कादम्बरी /57
This page has been fully proofread twice.
समुप [^१]जात [^२]विस्मयस्याभून्मनसि महीपतेः- 'अहो विधातुरस्थाने [^३]सौन्दर्यनिष्पादनप्रयत्नः । तथा हि — यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगत- स्पर्शसंभोगसुखे कृतं कुले [^४]जन्म। मन्ये च मातङ्गजातिस्प- र्शदोषभयादस्पृश्यतेय [^५]मुत्पादिता प्रजापतिना, अन्यथा
कथमियक्लिष्टता लावण्यस्य। [^६] नहि करतलस्पर्शक्लेशिताना- मवयवानामीदृशी भवति कान्तिः । सर्वथा [^७]धिग्धिग्विधातार- मसदृश-संयोगकारिणम्, [^८]मनोहराकृतिरपि [^९]क्रूरजातितया येनेयमसुरश्रीरिव सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष- दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं [^१०]विहङ्गमं शुकमादाय [^११]पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ।
[ टि ]-- मनसीति । मनसि जातो विस्मय आश्चर्यं यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदिस्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुर्ब्रह्मणोऽस्था- नेऽपदे सौन्दर्यस्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति — तथाहीति । नामेति कोमलामन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपह- सितोपहास्यास्पदीकृताशेषरूपसंपत्समग्रसौन्दर्यसमृद्धिर्यया सैवंविधोत्पादिता निर्मिता । किमर्थं किप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः संभोगसुखखं सुरतसातं ते च यस्मिन्नेवंभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्शे निश्चयमाह -
मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता निष्पादिता । अत्रार्थे हेतुमाह - मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्श: संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह - अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लाव-
व्यस्य लवणिनम्न: । कथमिति प्रश्न । इयं प्रत्यक्षोपलक्ष्य- माणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह - नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातारं
ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिणम् । येनासदृशसंयोगेनेयं चाण्डालकन्यका मनोहराकृतिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हितं सुरतं मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युद्वेजयति । वैचित्यमुत्पा- दयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्तप्रकारेण चिन्तयन्तं विमर्शं कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यनारूढ- यौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे
पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ज्ञेयम् । तदुक्तम् – 'कर्णावतंसादिपदे
कर्णादिध्वनिनिर्मितिः' इति । 'सर्वदा तत्सांनिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिमं रत्नबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति पूर्वोक्तो धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव
प्राप्तमेव । न ततः पृथक्कृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागत्य राहेज्ञे नृपाय न्यवेदयत्प्रदर्शितवान् ।
[^१]G. जात; दृष्ट्वा च तां समुपजात.
[^२]G. चाभूत्.
[^३]G. रूपनिष्पादनप्रयत्न:. रूपविधानप्रयत्न:.
[^४]G. अस्या जन्म.
[^५]G. मनसोत्पादिता
[^६]G. तथाहि
[^७]G. धिग्विधातारम्
[^८]G. अतिमनोहरा
[^९[G. क्रूरजातिजा.
[^१]G. विहङ्गमादाय; विहङ्गममादाय
[^१]G. गतं किंचित्.
कथमियक्लिष्टता लावण्यस्य। [^६] नहि करतलस्पर्शक्लेशिताना- मवयवानामीदृशी भवति कान्तिः । सर्वथा [^७]धिग्धिग्विधातार- मसदृश-संयोगकारिणम्, [^८]मनोहराकृतिरपि [^९]क्रूरजातितया येनेयमसुरश्रीरिव सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष- दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं [^१०]विहङ्गमं शुकमादाय [^११]पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ।
[ टि ]-- मनसीति । मनसि जातो विस्मय आश्चर्यं यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदिस्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुर्ब्रह्मणोऽस्था- नेऽपदे सौन्दर्यस्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति — तथाहीति । नामेति कोमलामन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपह- सितोपहास्यास्पदीकृताशेषरूपसंपत्समग्रसौन्दर्यसमृद्धिर्यया सैवंविधोत्पादिता निर्मिता । किमर्थं किप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः संभोगसु
मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता निष्पादिता । अत्रार्थे हेतुमाह - मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्श: संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह - अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लाव-
व्यस्य लवणिनम्न: । कथमिति प्रश्न । इयं प्रत्यक्षोपलक्ष्य- माणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह - नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातारं
ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिणम् । येनासदृशसंयोगेनेयं चाण्डालकन्यका मनोहराकृतिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हितं सुरतं मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युद्वेजयति । वैचित्यमुत्पा- दयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्तप्रकारेण चिन्तयन्तं विमर्शं कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यनारूढ- यौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे
पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ज्ञेयम् । तदुक्तम् – 'कर्णावतंसादिपदे
कर्णादिध्वनिनिर्मितिः' इति । 'सर्वदा तत्सांनिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिमं रत्नबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति पूर्वोक्तो धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव
प्राप्तमेव । न ततः पृथक्कृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागत्य रा