2023-09-17 17:25:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथामुखे-
समुप [^१]जात [^२]विस्मयस्याभून्मनसि महीपतेः- 'अहो विधातुरस्थाने [^३]सौन्दर्यनिष्पादनप्रयत्नः ।
तथा हि — यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगत- स्पर्शसंभोगसुखे
कृतं कुले [^४]जन्म मन्ये च मातङ्गजातिश्पस्प- र्शदोषभयादस्पृश्यतेय [^५]मुत्पादिता प्रजापतिना, अन्यथा

कथमियक्लिष्टता लावण्यस्य। [^६] नहि करतलस्पर्शक्ले शिताना- मवयवानामीदृशी भवति कान्तिः ।
सर्वथा [^७]धिग्मिँधिग्विधातार- मसदृश -संयोगकारिणम्, [^८]मनोहराकृतिरपि [^९]क्रूरजातितया येनेयमसुर-
श्रीरि सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष-
दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकु-
ट्टिमोपविष्टायां स पुरुषस्तं [^१०]विहङ्गमं शुकमादाय [^११]पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ।
 
२४
 
Q
 

 
[ टि ]--
मनसीति । मनसि जातो विस्मय आश्चर्यं यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदि-
स्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुर्ब्रह्मणोऽस्था- नेऽपदे सौन्दर्यस्या
द्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति — तथाहीति । नामेति कोमला-
मन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपह- सितोप हास्यास्पदी कृताशेषरूपसंपत्स
मप्
मग्रसौन्दर्यसमृद्धिर्यया सैवंविधोत्पादिता निर्मिता । किमर्थं किप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः
संभोगसुख सुरतसातं ते च यस्मिन्नेवंभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्शे निश्चयमाह -

मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता
निष्पादिता । अत्रार्थे हेतुमाह - मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्श: संश्लेषस्तजनितो यो
दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह - अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लाव-

व्यस्य लवणिन्नःनम्न: । कथमिति प्रश्न । इयं प्रत्यक्षोपलक्ष्य- माणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह -
नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि
भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातारं

ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिणम् । येनासदृश संयोगेनेयं चाण्डालकन्यका मनोहराकृ.
तिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं
निन्दितं गर्हितं सुरतं मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युद्वेजयति । वैचित्यमुत्पा- दयतीत्यर्थः ।
पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक-
क्तप्रकारेण चिन्तयन्तं विमर्शं कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् ।
केव । प्रगल्भवनितेव संप्रत्यनारूढ- यौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्वं
व्यङ्ग्यम् । प्रणेति प्राधुद्युपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे

पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ज्ञेयम् । तदुक्तम् – 'कर्णावतंसा दिपदे

कर्णादिध्वनिनिर्मितिः' इति । 'सर्वदा तत्सांनिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः
प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिमं रत्नबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति
पूर्वोत्कोक्तो धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव

प्राप्तमेव । न ततः पृथक्कृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागत्य राहे नृपाय न्यवेदयत्प्रदर्शितवान् ।
 
पाठा० ====

 
[^
]G. जात; रड्दृष्ट्वा च तां समुपजात.
[^
]G. चाभूत्.
[^
]G. रूपनिष्पादनप्रयत्न:;. रूपविधानप्रयत्न: .
[^
]G. अस्या जन्म.

[^
]G. मनसोत्पादिता
[^
]G. तथाहि
[^
]G. धिग्विधातारम्
[^
आंत]G. अतिमनोहरा
[^
[G. क्रूरजातिजा.
[^
]G. विहङ्गमादाय;
विहङ्गममादाय
[^
]G. गतं किंचित्.