कादम्बरी /57
This page has not been fully proofread.
कादम्बरी ।
[ कथामुखे-
समुपजात विस्मयस्याभून्मनसि महीपतेः- 'अहो विधातुरस्थाने सौन्दर्यनिष्पादनप्रयत्नः ।
तथा हि — यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगतस्पर्शसंभोगसुखे
कृतं कुले जन्म मन्ये च मातङ्गजातिश्पर्शदोषभयादस्पृश्यते यमुत्पादिता प्रजापतिना, अन्यथा
कथमियनष्टता लावण्यस्य नहि करतलस्पर्शले शितानामवयवानामीदृशी भवति कान्तिः ।
सर्वथा धिग्मिँग्विधातारमसदृश संयोगकारिणम्, मनोहराकृतिरपि क्रूरजातितया येनेयमसुर-
श्रीरिन सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष-
दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकु-
ट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमं शुकमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ।
२४
Q
मनसीति । मनसि जातो विस्मय आश्चर्य यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदि-
स्यन्वयः । एवमित्यस्य विषयमाह - अहो इति । अहो इति वितर्के । विधातुर्ब्रह्मणोऽस्थानेऽपदे सौन्दर्यस्या
द्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति — तथाहीति । नामेति कोमला-
मन्त्रणे । यदियं चाण्डालकन्यकाऽऽत्मनः स्वकीयस्य रूपेण सौन्दर्येणोपहसितोप हास्यास्पदी कृताशेषरूपसंपत्स
मप्रसौन्दर्यसमृद्धियया सैवंविधोत्पादिता निर्मिता । किमर्थं किप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेषः
संभोगसुख सुरतसातं ते च यस्मिन्नेवंभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्शे निश्चयमाह -
मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्रह्मणाऽस्पृशता स्पर्शमकुर्वतेयम् । उत्पादिता
निष्पादिता । अत्रार्थे हेतुमाह - मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्श: संश्लेषस्तजनितो यो
दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये बाधकमाह - अन्यथेति । अन्यथा पूर्वोक्तविपर्यये । लाव-
व्यस्य लवणिन्नः । कथमिति प्रश्न । इयं प्रत्यक्षोपलक्ष्यमाणाऽक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह -
नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् । ईदृशी एतादृशी कान्तिः सौकुमार्यं नहि
भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातारं
ब्रह्माणमसदृशोऽनुचितो यः संयोगः संबन्धस्तत्कारिणम् । येनासदृश संयोगेनेयं चाण्डालकन्यका मनोहराकृ.
तिरपि क्रूरजातितया चाण्डालजातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं
निन्दितं गर्हितं सुरतं मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युद्वेजयति । वैचित्यमुत्पादयतीत्यर्थः ।
पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक-
प्रकारेण चिन्तयन्तं विमर्श कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् ।
केव । प्रगल्भवनितेव संप्रत्यनारूढयौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र वीतशङ्कत्वं
व्यङ्ग्यम् । प्रणेति प्राधुपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईषदिति । ईषदल्पमवगलितोऽधःप्रसृतः कर्णे
पल्लवस्यावतंसः शेखरो यस्याः सा तथा । अत्र कर्णपदं कटिमेखलादिवज्ज्ञेयम् । तदुक्तम् – 'कर्णावतंसा दिपदे
कर्णादिध्वनिनिर्मितिः' इति । 'सर्वदा तत्सांनिध्यबोधनार्थम्' इति काव्यप्रकाशेऽपि । कृतेति । कृतो विहितः
प्रणामो नतिर्यया सा तथा तस्याम् । मणीति । मणिकुट्टिमं रत्नबद्धभूमिस्तत्रोपविष्टायां स्थितायाम् । स इति
पूर्वोत्को धवलवासाः पुरुषस्तं विहङ्गमं पक्षिणं शुकं कीरमादाय गृहीत्वा पञ्जरं पक्षिरक्षणस्थलं तत्र गतमेव
प्राप्तमेव । न ततः पृथकृत्वेत्यर्थः । किंचिद्विनयेन पुर उपसृत्यागल राहे नृपाय न्यवेदयत्प्रदर्शितवान् ।
पाठा० ==== १ जात; रड्वा च तां समुपजात. २ चाभूत्. ३ रूपनिष्पादनप्रयल:; रूपविधानप्रयल: ४ अस्या जन्म.
५ मनसोत्पादिता ६ तथाहि ७ धिविधातारम् ८ आंतमनोहरा ९ क्रूरजातिजा. १० विहङ्गमादाय;
विहङ्गममादाय ११ गतं किंचित्.