This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम् -
 
.
 
ताविति वा । तदेवमात्मना सर्वगुणहीनेस्थापि मे देवीगुणा एवावलम्बनम् । इयमेव ते
स्वभावसरसा दूरस्थमपि मदनहुतभुजा दह्यमानं रक्षयेव सरलता, मुहुर्मुहुराहयत्येव स्नेह-
लता, आनयत्येव स्थिरप्रतिज्ञता, ढौकयोब दक्षिणता, अभिपद्यत एव वत्सलता, चरणप-
तितं न निर्भर्त्सयत्येव मृदुहृदयता, उत्थाध्य संभावयत्येव महानुभावता, आलपत्येव प्रिय-
वादिता, ददात्येव हृदयेऽवकाशमत्युदारता यञ्च तथापि गत्वा निर्लजहदगः पुनर्वदनदर्श-
नदानसाहसमङ्गीकरोमि अत्रापि सत्प्रकृतयो देवीप्रसादा एव कारणम् । एते हि विशद-
त्वादुदारभावारसंगतत्वाच क्षणपरिचिता अपि समारोपित्तजीवितप्रत्याशा न किंचिन्न कार-
यन्ति । स्मारयन्ति सेव्यताम्, देव्याश्चरणपरिचर्यायै समुत्साहयन्ति, शिक्षयन्ति सेवा-
चातुर्यम्, उपदिशन्त्याराधनोपायान, चाटुकारो भवेत्यसकृदाज्ञापयन्ति, एवं स्थीयतामिति
स्वयमेवोपदर्शयन्ति, मुखावलोकिनाम कालोपसर्पर्णैकोपेऽनुनयन्ति, परितोषावसरेऽनुगृह्णन्ति
गुणानुवादेन, लज्जापसृतं इठादाकृष्योपसर्पयन्ति नान्यत्र क्षणमपि ददत्यवस्थातुम् ।
 
,
 

 
रहितस्यापि मे मम देवीगुणा एव कादम्बरीगुणा एवावलम्बनमाश्रयः । इयमिति । इयमेव ते तव सभा.
वेन प्रकृत्या सरसा स्निग्धा दूरस्थमपि दविष्ठमपि मदनहुतभुजा कंदर्पग्निना दह्यमानं ज्वलमानं सरलता ऋजु-
ता रक्षत्येव पालयत्येव । मुहुर्मुहुर्वारंवारं स्नेहलता स्नेहलस्य भावः स्नेहलताहयत्येव निमन्त्रयत्येव । स्थिरप्रतिज्ञता
दृढसंकरतानयत्येव प्रापयत्येव । दक्षिणता चातुर्यता ढौकयत्येव प्राभृतीकरोत्येव । वत्सलता हितकारिताऽभिपयत
एवाजीकरोत्येव । मृदुहृदयतार्जवचित्तता चरणपतितं पादप्रणतं जनं न निर्भर्त्सयत्येव न तिरस्करोत्येव । महा-
नुभावता साधुस्वभावतोत्थाप्योंस्थानं कारयित्वा संभावयत्येव प्रीणयत्येव । प्रियवादिता मिटवक्तृताऽऽलपत्येव
संभाषयत्येव । अत्युदारैतातिवितरणता हृदये चित्तेऽवकाशमन्तरं ददात्येव प्रयच्छत्येव । यश्चेति । यत्तथा
गत्वापि निर्लजहृदयो नित्रपचेताः पुनर्द्वितीयवारं वदनदर्शनस्य दानं तस्मिन्साहसं धैर्यमङ्गीकरोमि स्वीकरोमि ।
अत्रापि वदनदर्शनेऽपि सत्प्रकृतयः शोभनस्वभावा देव्या गन्धर्वपुत्र्याः प्रसन्नता लक्ष्येणानुग्रहा एव कारणं
निमित्तम् । एते हीति । हीति निश्चितम् । एते प्रसादा विशदत्वान्निर्मकत्वादुदारभावात्सरलत्वेन संगतलाच
मिलितत्वाच क्षण समयमात्रं परिचिता अपि परिचितविषयीभूता अपि समारोपिताः स्थापिताः जीवितस्य
प्राणितस्य प्रत्याशा वाञ्छा यैरेवंविधाः किंचिन्न कारयन्तीति न, अपि तु कारयन्त्येव । तदेवाह हमारय-
यन्तीति । सेव्यतां सपर्यायोग्यताभावं स्मारयन्ति र रणविषयीकारयन्ति । देव्याः कादम्बर्याश्चरणपरिच-
र्यायै क्रमसेवायै समुत्साहयन्त्युत्साहं कारयन्ति । सेवाचातुर्यं सपर्यादक्षतां शिक्षयन्ति पाठयन्ति । आरा.
धनोपायान्समाराधन हेतूनुपदिशन्ति कथयन्ति । चाटुकारश्चटुकृत्त्वं भवेत्यसकृद्वारंवारमाशापयन्त्याज्ञां ददति ।
एवममुना प्रकारेण स्थीयतामास्यतामिति स्वयमेवात्मनैवोपदर्शयन्ति प्रकाशयन्ति । मुखावलोकिनामास्य-
निरीक्षकाणामकालेऽप्रस्तावे उपसर्पणमागमनं तज्जनितो यः कोपरूस्मिन्ननुनयन्ति प्रसादयन्ति । परितोषा-
वसरे संतुष्टिक्षणे गुणानुवादेन गुणकथनेनानुगृहन्त्यनुग्रहं कुर्वन्ति . लज्जया त्रपयापसृतं पश्चाद्वतं
हठाद्वलादुपसर्पयन्ति समीप आनयन्ति । अन्यत्रान्यस्मिन्स्थले क्षणमप्यवस्थातुमवस्थानं कर्तुं न ददति न
 
टिप्प० - 1 ते स्वभावसरसा सरलता दूरस्थमपि मदनहुतभुजा दह्यमाने (मामू) रक्षयेवेत्यन्त्रयो
बोद्धव्यः । 2 चतुरता, ( भाववाचिनः पुनर्भावप्रत्ययो नोचित इति चातुर्यताऽचातुर्यमेव ) । 3 महा-
हृदयता । वितरणकथा तु क्षुद्रा । 4 मुखावलोकितमिति पाठे तु– मुखावलोकित मुखावलोको जातो
यस्मिन् ( मुखावलोकजनितम् ) मम दुर्जनस्येति शेषः । मम मुखदर्शनजनितमकालोपसर्पणप्रभवं कोप
अनुनयन्ति उपशमयन्ति, इत्यर्थः ।
 
पाठा
 
-१ एव. २ विहीन. ३ अपि माम्. ४ स्थिर प्रकृतिता; स्थिरप्रज्ञता. ५ अभ्युपपद्यते ६ प्रियंवादिता;
प्रियवेदिता. ७ स्मरयति; स्मरयन्ति ८ चाटुकारा भवन्तु ९ मुखायलोकितम्. १० कोपम्. ११ अनुतपन्ति