कादम्बरी /568
This page has not been fully proofread.
• कादम्बर्यर्थ पत्रलेखायै संदेश: ]
उत्तरभागः ।
देवी कादम्बरी, येन सर्वखलानां धुरि लेखनीयेन तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभा-
वस्य दर्शितप्रसादातिशयां देवीं प्रणामेनाव्यसंभाव्य गच्छता प्रज्ञा जडतया, ज्ञानं मौढ्येन,
धीरता तरलत्वेन, स्नेहलता रौक्ष्येण, गौरवं लघुतया, प्रियंवदता पारुष्येण, मृदुहृदयता
नैष्टुर्येण, स्थैर्य चञ्चलतया, दयालुता निविंशत्वेन, आर्जवं मायाजालेन, सत्यवादितालीक-
काकुसंपादनेन, दृढभक्तिताबज्ञानेन, पेशलता कौटिल्येन, लज्जा घाटर्थेन, औदार्य क्षुद्रतया,
दाक्षिण्यममहानुभावतया, प्रश्रयोऽभिमानेन, कृतज्ञता कृतन्नतया, शीलं पौरोभाग्यतया,
सर्वगुणा एवं दोषैः परिवृताः । स कमिवापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु ।
केन चाङ्गीकरोतु देवी। किमुपदर्शितालीकात्मार्पणेन न प्रतारितं देव्या हृदयमिति, किं प्रकृ-
तिपेशलं हृदयमपहृत्य नापकान्तोऽस्मीति, किमियं प्राणसंदेहकारिणी निष्करुणेन शरीरा-
वस्था नोपेक्षितेति, किमहमस्या न कारणमित्येतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधि-
५३५
कादम्बरी विज्ञाप्या विज्ञप्तिविषयी कार्या । किं तदित्याह - येनेति । स्वभावस्य प्रकृतेर्वत्सलत्वाद्धितकारित्वात्प्र
थमदर्शनेऽप्याद्यावलोकनेऽपि तथा तेन प्रकारेण दर्शितः प्रकाशितः प्रसादातिशयः प्रसन्नताधिक्यं ययैवंविधां
देवीं कादम्बरी प्रणामेनापि नमस्कृत्याप्यसंभाव्यासंभावना विषयी कृत्य गच्छता व्रजता येन सर्वखलानां सम-
प्रदुर्जनानां धुर्यादौ लेखनीयेन गणनीयेन मया सर्वगुणा ऐश्वर्यादयो दोषैर्वैगुण्यैः परिवृ॑ताः । स्वस्वरूपमापा-
दिता इत्यर्थः । तदेव दर्शयन्नाह - प्रज्ञेति । प्रज्ञा प्रतिभा जडतया मूर्खतया, ज्ञानं मौढ्येन मूढतया, धीरता
धैर्य तरलत्वेन तरलतया, स्नेहलता रौक्ष्येण रूक्षतया, गौरवं गुरुंता लघुतया लघुत्वेन, प्रियंवदता मिष्टभा-
षित्वं पारुष्येण काठिन्येन, मृदुहृदयता सुकुमारचित्तता नैष्टुर्येण निष्ठुरत्वेन, स्थैर्य स्थिरता चञ्चलतया चाञ्च-
ल्येन, दयालुता कृपालुता निस्त्रिंशत्वेन निष्कृपत्वेन, आर्जवमृजुत्वं मायाजालैन निकृतेर्जालतया, सत्यवादिता
अलीकभाषित्वमली का सत्या या काकुर्वक्रोकिस्तस्याः संपादनेन निष्पादजेन, दृढभक्तिता स्थिराराध्यताऽवज्ञानें-
नावगणनेन, पेशलता हृद्यता कौटिल्येन कुटिलतया, लज्जा त्रपा धाटन धृष्टतया, औदार्यमुदारता क्षुद्रतया
तुच्छतया, दाक्षिण्यं सरलत्वममहानुभावतयाऽमाहात्म्यतया प्रश्रयो विनयोऽभिमानेनाहंकृत्या, कृतज्ञता
कृतविश्वता कृतघ्नतयाऽकृतज्ञतया, शीलमाचारः पौरोभाग्यतया दोषैकदृक्तया । 'दोषैकदृक्पुरोभागी निक-
तस्त्वनृजुः शठः' इत्यमरः । सर्वगुणा एव दोषैः परिवृता इत्यन्वयस्तु प्रोगेवोक्तः । स इति । स चन्द्रा-
पीड: कमिव कथमिव कथमपरं पूर्वोत्तगुणेभ्यो भिन्नं गुणमवलम्ब्यावलम्बनीकृत्य पुनर्द्वितीयवारं परिग्रहाय
स्वीकाराय विज्ञापयतु विज्ञप्तिं कारयतु । केन च गुणेन देवी कादम्बर्यङ्गीकरोतु स्वीकरोतु । मामिति शेषः ।
किमिति । उपदर्शितं यन्मिथ्यात्मार्पणमलीकं मिथ्यात्मनोऽर्पणं प्रदानं तेन देव्याः कादम्बर्या हृदयं चेतः
किं न प्रतारितं न वञ्चितमिति । प्रकृत्या स्वभावेन पेशलं हृद्यं हृदयमपहृत्याहृत्य किं नापकान्तोऽस्मिन
गतोऽस्मीति । इयं प्राणसंदेहकारिणी शरीरावस्था देहदशा निष्करुणेन निष्कृपेण किं नोपेक्षितोपेक्षा विषयी-
कृता । अहं किमस्या अवस्थाया न कारणं न निदानमित्येतत्सर्वदोषाश्रयेणापि सर्ववैगुण्याधारभूतेनाप्यनुवृ.
'त्यानुकूल्येन चरणौ पादावाराधितौ सेविताविति वा । तदेवमात्मना सर्वप्रकारेण सर्वगुणहीनस्यापि समग्रगुण-
टिप्प० - I 'परिवर्तिताः' इत्येव पाठः । प्रज्ञा जडतया परिवर्तिता, ज्ञानं मौढ्येन परिवर्तितम्, इत्यादि
लिङ्गवचन व्यत्ययेन योजनीयम् । यस्मिन् स्थिता प्रतिभा पर्यवसाने जडता रूपेण परिणतेत्येव सर्वत्र
तात्पर्य बोध्यम् । 2 स्नेहं लातीति स्नेहलः तद्भावः स्नेहलता, स्निग्धता । 3 देव्याः कादम्बर्या इत्यर्थः ।
पाठा० - १ येन सर्वाभिलाषणीयेन तथा २ प्रथमदर्शनेन. ३ असंभाव्यागच्छतां सर्वखलानां धुरि लेखनीयेनं
प्रशा. ४ तारल्येन. ५ धैर्य भीरुतया दयालुता. ६ मायामन्त्रेण ७ पौरोभाग्येन. ८ एवम् ९ परिवर्तिताः; परावृत्ता: •
१० वा. ११ अस्याः संदिशामि न कारणम् १२ अन्तर