This page has not been fully proofread.

५३४
 
कादम्बरी ।
 
[ कथायाम्-
,
 
दिश्य, 'यदाज्ञापयति देवः' इति कृतनमस्कृतौ त्वरितगमन संविधानाय निष्क्रान्ते मेघनादे
'देव' किमतः परं विलम्बेन' इत्यभिधाय, मेघनाद निर्गमानन्तरं गमनप्रणामोत्थितं केयूरकं
सस्नेहमाहूय, सवाष्पया दृष्ट्या पुनःपुनरालोक्य, परिष्वज्य च सपुलकाभ्यां दोर्भ्याम्,
आत्मकर्णादपनीयानेकवर्णरुचिरं संदेशमिव कर्णाभरणमस्य कर्णे कृत्वा कण्ठागतबाष्पगद्ग-
दिकागृह्यमाणाक्षरमवादीत् – 'केयूरक, त्वया तु मे देवीसंदेशो नानीत एव । तत्किं तव
हस्ते तदनुरूपं 'संदिशाम्यपूर्वम् ? विज्ञापयितव्या देवी । तत्रापि किमलीकलज्जाजालभारोद्व-
हनेन त्वामायासयामि । यात्येव पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति' इत्यभिध-
देवातर्कितोपनतात्मविरहपीडाम्, अमङ्गलशङ्कया कृतयत्नामपि बाष्पवेगमपारयन्तीं संधा-
रयितुम् उत्सुताबद्धलक्षशून्य दृष्टिसंचारणां चरणपाताभिमुखीं पत्रलेखां प्रणयेनाभिमुखो
भूत्वा बद्धाञ्जलिरभाषत
- 'पत्रलेखे, साञ्जलिबन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या
 
.9
 
र्वाजिभिः । करणे तृतीया । परागतः समागत इति । यदाज्ञापयत्याज्ञां ददाति देव इत्यादिश्य कथयित्वा
कृता नमस्कृतिः प्रणामो येनैवंभूते त्वरितं शीघ्रं यद्गमनं यानं तस्य संविधानं करणं तस्मै निष्कान्ते बहिर्निर्गते
मेघनादे, हे देव, अतःपरं विलम्बेन किमित्यभिधायोक्त्वा मेघनाद निर्गमादनन्तरमव्यवहितं गमनाय यात्रायै
यः प्रणामः प्रणतिस्तस्मा उत्थितं केयूरकं सस्नेहं सप्रीति यथा स्यात्तथाहूयाह्वानं कृत्वा सबाष्पया सरोदनजलया
दृष्ट्या दृशा पुनःपुनर्वारंवारमालोक्य निरीक्ष्य सपुलकाभ्यां सरोमांञ्चाभ्यां दोय भुजाभ्यां परिष्वज्य
चालिङ्ग्य चात्मकर्णात्स्वकीय श्रवणादपनीय दूरीकृत्यानेकवर्णै रक्तपीतादिभी रुचिरं मनोहरम् । अत एवोस्प्रे-
क्षते—विविधवर्णैरक्षरै रुचिरं संदेशमिव वाचिकमिव । एवंविधं कर्णाभरणं श्रवणभूषणमस्य केयूरकस्य कर्णे
श्रोत्रे कृत्वा कण्ठागतो यो बाष्पो रोदनं तस्माद्या गद्गदिका गद्गदेत्यव्यक्तध्वनिस्तया गृह्यमाणान्युच्चार्यमाणा-
न्यक्षराणि यथा स्यात्तथावादीदवोचत् । किं तदित्याह – केयूरक इति । हे केयूरक, त्वया भवता । तु
पुनरर्थे । मे मम देव्याः कादम्बर्याः संदेश उदन्तो नानीत एव न प्रापित एव । तत्तस्माद्धेतोस्तव हस्ते
तस्याः कादम्बर्या अनुरूपं योग्यमपूर्वं नवीनं किं संदिशामि प्रतिवाचकं यच्छामि । देवी कादम्बरी त्वया
विज्ञापयितव्या विज्ञप्तिविषयी कार्या। तत्राप्यपूर्व विज्ञापनेऽलीका या लज्जा त्रपा तस्या जालं समूहस्तस्य भारो
वीवधस्तस्योद्वहनेन त्वामायासयामि परिश्रममुत्पादयामि । पत्रलेखा देवीपादमूलं कादम्बरीचरणसमीपं
यात्येव व्रजत्येव । अत इयमेव विज्ञापयिष्यति विज्ञप्तिं करिष्यति । इत्यभिदधदेवेति कथयन्नेव प्रणयेन स्नेहे-
नाभिमुखो भूत्वा संमुखीभूय बद्धाअलिः पत्रलेखामभाषताब्रवीदित्यन्वयः । पत्रलेखां विशेषयन्नाह —-अतर्कि-
तेति । अतर्किताऽचिन्तितोपनता प्राप्तात्मनः खस्य विरहपीड़ा वियोगव्यथा यस्याः सा ताम् । पुनः किं कुर्व-
न्तीम् । अमङ्गलशङ्कयाऽशुभारेकया कृतयत्नामपि विहितोद्यमामपि बाष्पवेगं नेत्राम्बुप्रवाहं संधारयितुं संस्था-
पयितुमपारयन्तीमशक्नुवन्तीम् । उत्प्लुताबद्धलक्षाऽविषयीकृतविषयात एव शून्या या दृष्टिईकू तस्याः संचारणं
यस्याः सा ताम् । चरणपातोऽभिवादनं तं प्रत्यभिमुख संमुखीम् । किमुवाचेत्याह - पत्र लेखे इति । हे पत्र-
लेखे, मदीयेन मामकीनेन साञ्जलिबन्धेनाञ्जलिबन्धेन सहवर्तमानेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य देवी
 
टिप्प० – 1 'अनुत्फुलाबद्धलक्ष्य ० ' इति पाठः । अनुत्फुल्लम् अविकस्वरम् [ अविशदप्रकटनपरत्वा-
दिति भावः ], तथा अबद्धलक्ष्यं विषयमलक्ष्यीकृत्य प्रवृत्तम् ( विरहदुःखस्यात्यन्त मुत्पीडनात्), अत
एवं शून्यं निर्विषयं दृष्टिसंचारणं यस्यास्तामिति तदर्थः ।
 
पाठा:- १ यथा. २ निर्गमन ३ गद्गदिकाक्षरम् ४ प्रतिसंदिशानि. ५ उत्फुल्ल