कादम्बरी /566
This page has not been fully proofread.
पत्रलेखया सह केयूरकलामतो विसर्जनम् ] उत्तरभागः ।
।
दर्शितप्रसादचन्द्रापीडः प्रत्युवाच - 'किमुच्यते ? कस्या परस्येदृशोऽस्मद्दुःखासहिष्णुरनपेक्षित-
खशरीरशक्तिरुत्साहः ? कस्यापरस्येशी देशकालज्ञता ? को वापरोऽस्माखेवं निर्व्याजभक्तिः १
तत्साधु चिन्तितम् । गम्यतां देव्याः प्राणसंधारणाय, भैमागमनप्रत्ययार्थं च पत्रलेखाप्यप्रत-
स्त्वयैव सह यातु देवीपादमूलम् । इयमपि प्रसादभूमिरेव देव्याः । इमामप्यालोक्य किय-
त्यपि धृतिरवश्यमुत्पर्यंत इति मे चेतसि । अपि चास्या अपि देव्यामस्येव नेहो भक्तिश्च'
इत्यभिधाय पृष्ठत उपविष्टामेव तां पत्रलेखामद्राक्षीत् । सा तु किंचिदवनतमुखी 'निजाज्ञा-
क्षराणि प्रयच्छतु देवः' इति व्यज्ञपयत्। कृतप्रस्थिति निश्चयायां च तस्यां मेघनादाहानाय
प्रतीहारीमादिदेश ।
५३३
आदेशानन्तरमेव चागतं दूरतः प्रणतमाज्ञाप्रतीक्षं स्वयमे वाहूय सोपग्रहमादिदेश - 'मेघ-
नाद, यस्यां भूमौ पत्रलेखानयनाय मया त्वं प्रस्थापितरतां भूमिमेव पत्रलेखामादाय केयू-
रकेण सहायतो गच्छ । अहमपि वैशम्पायनमालोक्यानुपदमेव ते सुरङ्गमैः परागतः' इत्या-
-
प्रकाशितः प्रसादः प्रसन्नता येनैवंभूतश्चन्द्रापीडः प्रत्युवाच प्रत्यब्रवीत् । किं तदित्याह - किमिति । किमु-
च्यते किं कथ्यते । कस्येति । कस्यापरस्यान्यस्येदृश एतादृगस्माकं यहुःखं तस्यासहिष्णुर सहनशीलोऽनपेक्षि-
ताडवान्छिता खशरीरस्य निजदेहस्य शक्तिः सामर्थ्य यस्मिन्नेवंविध उत्साहः प्रगल्भता । कस्येति । कस्यानि
र्दिष्टनाम्न ईदृश्य निर्वचनीया देशः प्रदेशः कालः समयस्तयोज्ञता ज्ञातृता । को वेति । को वापरो जनोऽस्म
खाद्विषयेष्वेवं पूर्वोकप्रकारेण निर्व्याजं निर्दम्भं यथा स्यात्तथा भक्तिर्यस्य स तथोक्तः । तदिति हेत्वर्थे । तस्माद्धेतोः
साधु यथा स्यात्तथा चिन्तितमालोचितम् । चिन्तितस्य विशेषणं वा । साधु शुभं चिन्तितम् । चिन्ताविषयी कृतमि-
सर्थः । गम्यतामिति । देव्याः कादम्बर्याः प्राणसंधारणायासुधृतये । ममागमनं तत्र यानं तस्य प्रत्ययो विश्वा-
सस्तदर्थं च त्वया गम्यतां व्रज्यताम् । देव्याः कादम्बर्याः पादमूलं चरणसमीपं पत्रलेखापि त्वयैव सहाप्रतः,
पुरतो यातु व्रजतु । इयमिति । इयमपि पत्रलेखापि देव्याः कादम्बर्याः प्रसादभूमिरेवानुग्रहस्थान-
मेव । इमामिति । इमां पत्रलेखामप्यालोक्य निरीक्ष्य कियत्यपि कियन्मात्रा नतु समग्रा धृतिः संतुष्टिरवश्यं
निश्चयेन । कादम्बर्या भाविनीति शेषः । इति मे मम चेतसि चित्त उत्पद्यत उद्भाव्यते । बुद्ध्येति शेषः ।
अपि चेति । अपि चेति प्रकारान्तरे । अस्याः पत्रलेखाया अपि देव्यां कादम्बर्या स्नेह आभ्यन्तरप्रीति -
क्तिबाराध्यत्वेन ज्ञानमस्त्येव । एवकारोऽयोगव्यवच्छेदार्थः । इति पूर्वोक्तमभिधाय कथयित्वा पृष्ठतः पृष्ठे ।
सार्वविभक्तिकरतस् । उपविष्टां स्थितामेव पत्रलेखामद्राक्षी व्यलोकयत् । सात्विति । सा पत्रलेखा । तु पुनरर्थे ।
विलोकनानन्तरमित्यर्थः । किंचित्खल्पमवनतं नम्रं मुखमाननं यस्या एवंविधा सती निजाया आत्मीयाया आज्ञाया
निदेशत्याक्षराणि वचनानि देवो भवान्प्रयच्छतु ददातु । त्वं व्रजेति खमुखेन कथयेत्यर्थ: । इति व्यज्ञपयद्विज्ञ
प्तिमकार्षीत् । कृतेति । कृतो विहितः प्रस्थितेर्गमनस्य निश्चयो यस्या एवंविधायां च तस्यां पत्रलेखायां सत्यां
मेघनादस्यात्म सेवक स्याहानमाहूतिस्तस्मै प्रतीहारीं द्वारपालिकामादिदेशादिष्टवान् ।
+
आदेशानन्तरमेव नियोगाव्यवहितमेवागतं च दूरतः प्रणतं प्रविष्टप्रदेशात्रतमाज्ञां यावत्प्रतीक्षा विलम्बो
यस्यैवंभूतं स्वयमेवात्मनैवाहूयाहानं कृत्वा सोपग्रहं सादरमादिदेशादिष्टवान् । हे मेघनाद, यस्यां भूमौ पत्र•
लेखाया आनयनायानयनकृते मगा त्वं पूर्वं स्थापितो न्यस्तस्तां भूमिं यावत्पत्रलेखामादाय गृहीत्वा केयूरकेण
सह सार्धममतो गच्छ ब्रज । अहमपि वैशम्पायनमालोक्य निरीक्ष्य ते तवानुपदमेवानुचरणन्यासमेव तुरङ्गमै-
पाठा० -१ चन्द्रप्रसार: २ मदागमन. ३ प्रयातु. ४ उत्पत्स्यते ५ समुपविष्टम् ६ एवं नेति पत्रलेखाम-
प्राक्षीत्. ७ आगतं च ८ स्थापितः• ९ भूमि यावत्पत्र.