This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम-
वावलोकितो ज्योत्स्नारहितश्चन्द्रमाः, कमलाकरो वा मृणालिकया विना, उद्यानभागो बा
लताशून्यः । अपि च न राजत एव सहकारकुसुममञ्जरीपरिग्रहमन्तरेण सर्वजनसुभगोऽपि
कुसुममासः, असंभावितदानलेखालक्ष्मीकं वा वदनं यूथाधिपतेः । किंतु यावद्वैशम्पायनः
परापतति, यावचैतेन सह गमनसंविधानं निरूपयति देवः, तावदवश्यं कालक्षेपेण भाव्यम् ।
यादृशी चौकालक्षमा देव्याः शरीरावस्था तादृशी निवेदितैव मया । सर्वोऽपि प्रत्याशया
धार्यते । देव्यास्तु पुनर्देव दर्शने ना यया व निष्प्रत्याशमेव हृदयं केनाश्वासनेन वर्तताम् । मट्टा-
र्तोपलम्भादेतदुपँपत्स्यते चेतसि - 'यथास्ति कार्य मे जीवितेन, दुःखान्यपि सहन्ती धारयाम्ये-
तदिति । अतो विज्ञापयामि, चेतसा त्वग्रतो गत एव देवः, शरीरेणाप्यनुपदमुञ्चलित एव ।
किमपरं मयात्र स्थितेन साधनीयम् । तद्देवागमनोत्सवावेदनाय गमनानुज्ञया प्रसादं क्रियमा
णमिच्छति मे प्रणयप्रसाददुर्ललितं हृदयमिदानीमेव '
 
इति विज्ञापिते केयूरकेणान्तः परितोषविकसितया विकचनीलोत्पलपुखमालिकयेव दृष्ट्या
 
न्धवोऽवलोकितो निरीक्षितः । नाथवा मृणालिकया कमलिन्या विना कमलाकरस्तडागः । वाथवोद्यानभागो
बनप्रदेशो लताशून्यो वल्लीरहितः । अपि चेति युक्त्यन्तरे । सहकारस्याग्रस्य कुसुममञ्जरी तस्याः परिग्रहम
न्तरेण स्वीकारव्यतिरेकेण सर्वजनसुभगोऽपि समप्रलोकप्रियोऽपि कुसुममासो वसन्तमासो न राजत एव न
शोभत एव । असंभाविता(न) संभावनाविषयीकृता दान लेखाया मदवीध्या लक्ष्मीः श्रीर्यस्मिन्नेवंविधं यूथाधिप-
सेर्यूथनाथस्य वदनम् । न राजत इत्यस्य सर्वत्र संबन्धः । किंत्विति । किंतु यावद्यावता कालेन वैशम्पायनो
मन्त्रिसुतः परापतत्यागच्छति, यावचैतेन सह वैशम्पायनेन साकं गमन संविधानं यात्राप्रकारं देवो भवान्निरू-
पयति प्रकाशयति, तावदवश्यं निश्चितं कालक्षेपेण दिनगम निकया भाव्यं भवितव्यम् । यादृशीति । यादृशी
च देव्याः कादम्बर्याः शरीरावस्था देहदशाsकालक्षमा समयासहा वर्तते तादृशी मया निवेदितैव विज्ञप्ति -
विषयीकृतैन । सर्व इति । सर्वोऽपि पदार्थः प्रत्याशया प्रतिवाञ्छया धार्यते घ्रियते । देव्यास्त्विति ।
तु पुनरर्थे । देव्याः कादम्बर्याः पुनर्द्वितीयवार देवदर्शनेन भवदवलोकनेन अय यावदेतद्दिवसमारभ्य हृदयं
चित्तं निष्प्रत्याशमेव निराशमेव वर्तते, तर्हि केनाश्वासनेन वर्तताम् । मदिति । मद्वार्ताया मत्प्रवृत्तेरुपलम्भा
त्प्राप्तेरेतच्चेतसि चित्त उपपत्स्यते प्रादुर्भविष्यति । तदेव दर्शयन्नाह - यथेति । मे मम जीवितेन प्राणितेन
कार्यं कृत्यमस्तीति हेतोर्दुःखान्यपि कृच्छ्राण्यपि सहन्ती सहमानैतच्छरीरं धारयामि । अत इति । अतःकार-
णादहं विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह - चेतसा त्विति । देवो भवांश्चेतसा खान्तेनाग्रतः
पुरतो गत एव, तथा शरीरेणापि देहेनाप्यनुपदं पश्चात्त्वरितमेव । 'अनुपदं क्लीबमव्ययम्' इत्यमरः । उच्चलित
एव प्रचलित एव । किमिति । मया केयूरकेणात्र स्थितेन भवत्समीपावस्थितेनापि किमपरं पूर्वोक्तादन्यत्साध-
नीयं करणीयम् । तदिति । तत्तस्माद्धेतोर्देवस्य खामिनो गर्मनं यानं तदेवोंत्सवो महस्तस्यावेदनं ज्ञापनं तस्मै
गमनस्य प्रयाणस्थानुज्ञादेशस्तया क्रियमाणं विधीयमानं प्रसादमिदानीमेव सांप्रतमेव मे मम प्रणयेन नेहेन यः
प्रसादः प्रसन्नता तेन दुर्ललितमुच्छृङ्खलं हृदयमिच्छत्यभिलषति ।
 
केयूरकेणेति विज्ञापिते विज्ञप्तिविषयीकृते सति, अन्तर्मध्ये यः परितोषः संतुष्टिस्तेन विकसितया विनिद्रया
दृष्ट्या दृशा । अत एवोत्प्रेक्षते
- विकचा विकखरा या नीलोत्पलपुजमालिका नीलकुवलयस्रक्तयेव दर्शितः
 
टिप्प० - 1 भागमनमित्युचितम् ।
 
पाठा-
- १ तेन. २ विधानम् ३ वा. ४ दशनेऽद्य ५ आश्वासेन. ६ उपालम्भात् ७ उत्पत्स्यते ८ स्थितेनापि.