कादम्बरी /564
This page has not been fully proofread.
वैशम्पायनस्यागमनश्रवणम् ]
उत्तरभागः ।
५३१
.9
श्रुत्वा समुच्छ्रसितचेताञ्चकार चेतसि - 'अहो धन्योऽस्मि । अहोविधेर्भगवतो
ऽनुग्राह्योऽस्मि,
यस्य मेऽनुष्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । ग्रहर्ष परवशश्च प्रवि-
शन्तमालोक्य दूरत एव कृतप्रणामं केयूरकमवादीत्- 'केयूरक, करतलवर्तिनीं सिद्धिमधु-
नावधारय । प्राप्तो वैशम्पायनः' इति । स तु तदाकर्ण्य गमेनपरिलम्बकृतया चिन्तयान्तःशून्य
एव 'भद्रकमापतितम् महती हृदयनिर्वृतिर्देवस्य जाता' इत्यभिद्धदेवोपसृत्योपविश्य पार्श्वे,
वैशम्पायनागमनालाप मेवानुबध्य मुहूर्तमिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञप-
यत् - 'देव, सर्वतो विस्फुरन्ती तडिदिव बलाहको न्नाहम्, उपारूढश्यामिका मेघलेखेव सलिला-
गमनम्, उपदर्शितपाण्डुच्छवि: प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव
वसन्तमासावतारम्, समुच्छुसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम्, उल्हसितैरागा
पल्लवोद्गतिरिव कुसुमनिर्गमम् विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवेथमा-
वेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राध्या भवितव्यम् । केन कदा
.9
१
श्रुत्वाकर्ण्य समुच्युसितमुहसितं चेतः खान्तं यस्यैवंविधश्वेतसि चित्ते चकार कृतवान् । इतीति शेषः । तदेव
दर्शय नाह- अहो इति । अहो इत्याश्चर्ये । अहं धन्यः कृतपुण्योऽस्मि । अहो इति पूर्ववत् । भगवतो माहा-
रम्यवतो विधेर्विधातुरनुप्रायोऽनुग्रह विषयी करणयोग्योस्मि । तन्निदानमाह - यस्येति । यस्य मे मम चन्द्रा-
पीडस्यानुध्यानानन्तर मेवानुस्मरणानन्तरमेव द्वितीयं हृदयं वैशम्पायनो मन्त्रिपुत्रः परागतः समायातः । अमुना
प्रकारेण प्रहर्षपरवशः प्रमोदपरतन्त्रः । च पुनरर्थे । प्रविशन्तं प्रवेशं कुर्वन्तं दूरत एव दविष्ठप्रदेशादेव कृत-
प्रणामं विहितनमस्कार केथूर कमालोक्य निरीक्ष्येत्यवादी दिदमब्रवीत् । इतिवाच्यमाह- केयूरक इति । हे
केयूरक, अधुना सांप्रतं करतलवर्तिनीं हस्ततलगतां सिद्धिं कार्यनिष्पत्तिमवधारय जानीहि । यतो वैशम्पायनः
प्राप्तः समागतः । स त्विति । स केयूरकस्तत्पूर्वोत्तमाकर्ण्य निशम्य गमनस्य यात्रायाः परिलम्बो विलम्ब-
स्तेन कृतयोत्पादितया चिन्तयार्त्यान्तःशून्य एव 'भद्रकं कल्याणमापतितं संजातम् । देवस्य भवतो महत्य-
व्यायता हृदयनिर्वृतिश्चित्तसंतुष्टिजा।' इत्यभिदधदेवेति कथयन्नेवोपसृत्योपसरणं कृत्वा पार्श्वेऽन्तिक उपविश्या-
स्थाय मुहूर्तमिव मुहूर्तमात्रं वैशम्पायनस्यागमनमर्थादभिमुखयानमालापं संलापमनुबध्यारभ्य संज्ञयोत्सारितो
दूरीकृतः समस्त परिजनः समप्रसेवकजनो येनैवंभूतं चद्रापीडं व्यज्ञपयद्विज्ञप्तिविषयीचत्रे । देव इति । हे
देव हे खामिन, इयमवस्थैव निःसंशयं निरारेकं देवस्य भवतो गमनं यानमावेदयति कथयतीति दूरेणान्वयः ।
केवेत्यपेक्षायामाह - सर्वत इति । बलाहकस्य मेघस्योनाहमागमनं सर्वतोऽभितो विस्फुरन्ती देवीप्यमाना
तडिदिव विद्युदिव । आवेदयतीत्यस्य सर्वत्र संबन्धः । तथा सलिलस्याम्भस आगमनमुपारूढा प्राप्ता श्यामिका
ययैवंविधा मेघस्य लेखा पङ्किरिव । तथा चन्द्रस्य शशिन उदयमुद्गमनमुपदर्शिता पाण्ड्डी छविः कान्तिर्ययैवं-
विधा प्राचीव पूर्वदिगिव । तथा वसन्तमासस्य मधुमासस्यावतारं प्रादुर्भावं परिमलमामोदं गृहातीत्येवंशीला
मलयानिलस्य मलयाचलवायोराग तिरिवागमनमिव । तथा पल्लवस्य किसलय स्योद्भेदमुद्गमनं समुच्छ्रसितो वृद्धिं
प्राप्तो मकरध्वजो मदनो यस्यामेतादृशी मधुमासलक्ष्मीरिव वसन्तमासश्रीरिव । तथा कुसुमस्य पुष्पस्य निर्गम
निःसरणमुल्लसित उल्लासं प्राप्तो. रागो रक्तता यस्यामेतादृशी पल्लवोद्गतिरिव किसलयोद्भेद इव । तथा शरदारम्भं
घनात्ययप्रारम्भं विकलिता विनिद्रिता काशकुसुममञ्जरीव । इयमवस्थैव देवस्य गमनं यानमावेदयतीत्य-
न्वयस्तु प्रागेवोक्तः । अवश्यं चेति । देवस्य खामिनोऽवश्यं निश्चये देवीप्रात्या भवितव्यम अत्रार्थ
उपपत्तिमाह - केनेति । केन पुरुषेण कदा वा कस्मिन्काले ज्योत्नारहित चन्द्रावर्जितश्चन्द्रमाः कुमुदबा-
पाठा० == १ प्राप्तो हि, २ गगन, ३ उन्नादम्, ४ अभ्युच्छ्रित, ५ रागपडव. ६ आनेदयति देवस.
3