This page has not been fully proofread.

५३०
 
कादम्बरी ।
 
[ कथायाम्-
वसुधां प्रत्यागतोऽस्मि । अद्यापि साधनमेव न परापतति । अकथयित्वा च गमनकारणं
कथमात्मानं मोचयामि ? कैथं वा मुञ्चतु तातोऽम्बा वा ? तत्सुहृत्साध्येऽस्मिन्नर्थेऽर्नर्थपतितः
किं करोम्येकाकी ? वैशम्पायनोऽप्यसंनिहितः पार्श्वे मे । ॐ पृच्छामि ? केन सह निरूप-
यामि ? को मे समुपदिशतु ? को वापरो मे निश्चयाधानं करोतु ? कस्यापरस्य वा विवेकिनी
प्रज्ञा ? कस्य वान्यस्य श्रुतं 'श्रोतव्यम् ? को वापरो वेत्ति वक्तुम् ? कस्य वापरस्य मध्यसाधा-
रणस्नेहः ? केन बापरेण सह समानदुःखो भवामि ? को वापरो मयि दुःखिते दुःखी, सुखिते
सुखी ? को वापरो रहस्यावेदनस्थानम् ? कस्यापरस्योपरि कर्तव्यभारमवक्षिप्य निर्वृतात्मा
तिष्ठामि ? कस्य वापरस्य मत्कार्ये पर्याकुलता ? को वापरो मया कोपितं तातमम्बां च
परिबोध्य मामानेतुं समर्थः ?' इत्येवं चिन्तयत एवास्य सा क्षेपा दुःखदीर्घापि क्षयमगमत् ।
प्रातरेव च किंवदन्ती शुश्राव, यथा किल 'देशपुरं यावत्परागतः स्कन्धावारः' इति । तां च
 
सरत्रितयात् । हेत्वर्थे पञ्चमी । वसुधां पृथ्वी प्रसाध्यात्मसात्कृत्वा प्रत्यागतः पश्चाद्व्यावृत्तोऽस्मि । अद्यापि
सांप्रतमपि साधनमेव सैन्यमेव न परापतति न विश्रामं गृह्णाति । अकथयित्वेति । गमनकारणं यात्रा निदा-
नमकथयित्वा चा विनिवेद्यात्मानं कथं केन प्रकारेण मोचयामि मोचनविषयीकरोमि । कथमिति । तातो.
ऽम्बा माता वा कथं वा मुञ्चतु त्यजतु । मामिति शेषः । तदिति । तस्मात्कारणात्सुहृत् साध्ये मित्रनिष्पा-
द्येऽस्मिन्नर्थेऽहमनर्थंपतितः कष्टगतः सन्नेकाक्यद्वितीयः । किं करोमि कि कुर्वे । वैशम्पायनोऽपि शुकनासपु.
त्रोऽपि मे मम पार्श्वेऽसंनिहितोऽनिकटवर्ती। अतः कं जनं पृच्छामि प्रश्नविषयीकरोमि । केन पुंसा सह निरू-
पयाम्यात्मस्वरूपं कथयामि । कः पुमान्मे मम समुपदिशतु कथयतु । को वापरोऽन्यो मे मम निश्चयाधानं
निर्णयोत्पत्तिं करोतु सृजतु । कस्य वा अपरस्य जनस्य विवेकिनी विवेकवती प्रज्ञा प्रतिभा । अन्यस्य कस्य वा
जनस्य श्रुतं शास्त्रं श्रोतव्यमाकर्णनीयम् । 'श्रुतं शास्त्रावतयोः' इत्यमरः । अपरः को वा पुमान्वक्तुं
जल्पितुं वेत्ति जानाति । कस्य वापरस्य मय्यसाधारणस्नेहो निरुपमप्रीतिः । अपरेण केन सहाहं समानदुःखो
भवामि । सदृशवेदनः स्यामित्यर्थः । अपरः को वा मयि दुःखिते दुःखी दुःखवान्, मयि सुखिते सुखी सुख-
दान्स्यात् । अपरः को वा रहस्यावेदनस्थानं गुह्यनिवेदनस्थलम् । कस्यांपरस्य जनस्योपरि कर्तव्यभारं कृत्यवीव-
धमवक्षिप्यारोप्य निर्वृतात्मा सुखितात्मा तिष्ठामि निषीदामि । अपरस्य कस्य वा पुंसो मत्कार्ये मत्कृत्ये पर्याकु-
लता व्याकुलता । अपरः को वा मया कोपितं क्रोधं प्रापितं तातमम्बां च परिबोध्य प्रतिबोध्य प्रतिबोधं दत्त्वा
मामानेतुं समर्थः । क्षपेति । एवममुना प्रकारेणास्य चन्द्रापीडस्य चिन्तयत एव ध्यायत एव सा क्षपा रात्रि-
दुःखेन कृत्वा दीर्घाप्यायतापि क्षयं नाशमगमजगाम ।
 
प्रातरिति । प्रातरेव प्रभात एव च । इतीति किंवदन्तीं जनश्रुतिं शुश्राव श्रुतवान् । इतिथोत्यमाह - य.
थेति । किलेति सत्ये । दशपुरं यावत्स्कन्धावारः सैन्यं परागतः समायातः । तां चेति । तां किंवदन्तीं
 

 
' टिप्प०-1 न गृहं परावर्तते । 2 सुष्टु शोभनम् ( चतुर्दिग्भवप्रतिबन्धरहितम्) य
साध्ये अमिनर्थे प्रियाप्राप्तिरूपे अर्थे, अनर्थः पतितः व्याघातः समुपस्थित इति केचित् । तत्
पतितः' इत्येव पाठः । 3 'मां नेतुं समर्थः इत्येवोचितः पाठः । नेतुं कादम्बर्याः समीपे प्राग येतुनिति
तदर्थः ।
 
3
 
तेन
 
पाठा०-
-१ माम्. २ अनर्थ:. ३ किं करोमि कम्. ४ श्रोतव्यं वा. ५ वेत्ता. ६ सुखी वा. ७ अनुकोपितं.
८ नेतुम्. ९ निशा. १० किंवदन्तीम्. ११ दशपुरीम्.