कादम्बरी /562
This page has not been fully proofread.
यात्रार्थ चन्द्रापीडय विचार: ]
उत्तरभागः ।
५२९
समासादितेन चात्र कथं मया बदनं दर्शयितव्यम्, पृष्टेन वा किमुत्तरं दातव्यम् ? अथापि
कथंचि हैवनियोगानिःसृतोऽस्मि, तथाप्यनायासनीयं तातमेवं महीयस्यायासे, तातप्रसादाद-
दृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता ? अपि च सुबे-
हुदिवस प्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति तेनापरसंविधानादर्धपथादेव
निवृत्य पुनः प्रधावितव्यम् ।
अथावेच तातस्याम्बायाश्च ताभ्यां च विसर्जितः संविधानेन गच्छामि, तत्रापि किमिति
कथयामि -- 'मम लेहेंदु:खिता गन्धर्वराजपुत्री कादम्बरी मामुद्दिश्य मकरकेतुनायास्यमाना
दुःखं तिष्ठतीति ।' 'किं वा बलवान्मे तस्यामनुरागः । नै तया विनाहं प्राणान्संधारयामीति ।'
'किं तस्या मम च द्वयोरपि जीवितनियँन्धन हेतुभूतया महाश्वेतया तत्परिणयनाय मे संदिष्ट-
मिति ।' 'किंवा तदुःखमपारयन्सोदुमयं केयूरक स्तन्द्वक्त्या मामानेतुमागत इति ।' 'अपरोऽपि
वा कश्चिद्रवपदेशो न शक्यत एव पुनर्गमनाथ कर्तुम् । संप्रत्येव समधिकाद्वर्षत्रयात्प्रसाध्य
समासादितेन च पुनः प्राप्तेन च मया कथं वदनं दर्शयितव्यमन्येभ्यः प्रकाशयितव्यम् । पृष्टेन वा प्रश्नविषयी-
कृतेन मया किमुत्तरं प्रतिवचो दातव्यं प्रदेयम् । अथापीति । अथेति विचारणान्तरे । कथंचिदपि महता
कष्टेनापि दैवनियोगाद्विधिनिदेशान्निःसृतोऽस्मि निर्गतोऽस्मि । तथापि निःसृतेनाप्येवमनायासनीय मखेदनीयं
तातं पितरं महीयस्यत्यन्तदीर्घ आयासे प्रयासे, तातप्रसादात्पितुरनुप्रहाददृष्टदुःखामनवलो कि तकृच्छ्रामम्बां
मातरं वा निजस्य खस्यापक्रमणं निर्गमनं तस्माद्यः शोकः शुक्र स एवार्णवः समुद्रस्तस्मिन्पातयताक्षेपयताऽपुण्य-
बता पापिना मया कि कृतं भवति किमाचरितं स्यात् । अपि चेति । अपि च युक्त्यन्तरे । सुबहवश्च ते
दिवसाच सुबहुदिवसास्तान्यावत्प्रवासो देशान्तरे स्थितिस्तेनोपतप्तो व्याकुलीकृत एतादृशो मे मम स्कन्धा-
बारोऽपि सैन्यनिवेशोऽप्यद्यापीदानीमपि न परापतति नागच्छति । तेन हेतुनार्धपथादर्धमार्गानिवृत्य व्याघुट्या-
पर संविधानादेपर सैन्यग्रहणाद्धेतोः पुनः कालान्तरे मया प्रधावितव्यम् । त्वरितगत्या गन्तव्यमिति भावः ।
.
अथेति विचारान्तरे । तातस्य पितुः, अम्बायाश्च मातुः, आवेद्य निवेद्य ताभ्यां च मातृपितृभ्यां विस-
जितो गमनाय दत्ताज्ञः संविधानेनोत्तमप्रकारेण गच्छामि व्रजामि । तत्रापीति । तत्राप्यावेदने । किं किमिति
कथयामीति ब्रवीमि । इति वाच्यमाह - मभेति । मम स्नेहेन मत्प्रीत्या दुःखिता दुःखं प्राप्ता गन्धर्वराज-
पुत्री देवगायननृपाङ्गजा कादम्बरी मां चन्द्रापीडमुद्दिश्याश्रित्य मकरकेतुना कंदर्पेणायास्यमाना खेदं प्राप्य-
माणा दुःखं यथा स्यात्तथा तिष्ठति निषीदति । 'किंवा बलवान्' इत्यारभ्य 'महाश्वेतया तत्परिणयनाय मे
संदिष्टम्' इत्यन्तं स्पष्टम् । किं वेति । किंवा इति कथयामीति पूर्वेण संबन्धः । इति किम् । तद्दुःखं कादम्बर्या
दुःखं सोढुं तितिक्षितुमपारयन्त्रशक्नुवन् । अयं प्रत्यक्षः केयूरकरतस्या गन्धर्वपुत्र्या भक्त्यान्तरस्नेहेन मां चन्द्रा-
पीडमानेतुं तत्र प्रापयितुमागतः समायातः । अपरोऽपीति । अपरोऽप्येतद्भिन्नोऽपि कश्चिदन्यो व्यपदेशो मिषं
पुनर्गमनाय कर्तुं न शक्यत एव न पार्यत एव । संप्रत्येति । सांप्रतमेव समधिकात्किचिदधिकवर्षत्रयात्संव-
टिप्प० – 1 स्वयंकृतप्रसङ्गमपि विस्मरति वराकः । सकलराजकसैन्यानुधावनस्य कारणं चन्द्रापीड-
पलायनमुक्तम् । ततश्च मम पुनः प्रवासे सति अपरसंविधानात अपरस्सान्नवीनाद् मम गमनरूपघटना-
विशेषात् अर्धमार्गादेव परावर्तमानेन मम स्कन्धावारेण पुनः प्रधावितव्यमित्यर्थः । टीकाकारस्याक्षराणि
तु स एव बुद्धताम् ।
पाठा०-१ पातयसि २ स बहु. ३ धावितव्यम्. ४ लेहेन. ५ नानया. ६ किं च ७ विबन्ध.
६७ का०