कादम्बरी /561
This page has not been fully proofread.
૨૮
[ कथायाम्
मिः, ऊर्ध्वधियमाणधवलातपत्रमण्डलच्छायान्तरित वासरव्यतिकरैः, अतिबहलरेणूगमावि-
च्छेदापूरितभुवनकुहरैः, पुरःप्रसृतजवनवाजिभिः, अनुसंतानलमवेतण्डप्रायसाधनैः, श्रान्तै-
रपि बुभुक्षितैरव्यकृतगतिविलम्बैरापयोधेरैष्टाभ्यो दिग्थ्यो राजभिरनुधावितव्यम् । तिष्ठन्तु
तावत्सेवापरा राजानः । सुखपरिभुक्ताः प्रजा अपि तातस्नेहात्परित्यक्तपुत्रदाराः पृष्ठतो लग
न्तीति मे चेतसि । अपि च तातस्यापि कोऽपरोऽस्ति, यस्मिन्मदीयं स्नेहं संक्रमय्य मय्यपक्रान्ते,
'यातु किमनेन गँतेनागतेन वा' इत्यविनयकोपितोऽवष्टम्भं कृत्वा स्थास्यति । कस्य चौपरस्य
मुखमालोकयन्ती सुखायमानहृदया मत्प्रत्यानयनाय कृतार्तप्रलापा न तातमेवाकुली करोत्यम्बा ।
ताते च पृष्ठतो लग्नेऽष्टादशद्वीपमालिनी मेदिन्येव लग्ना भवतीति । तदा मया क गतम्,
चँ स्थितम्, क विश्रान्तम्, कं यातम्, क भुक्तम्, कापसृतम्, कात्मा मया गोपांयितव्यः,
कादम्बरी ।
प्रियमाणं यद्धवलातपत्रं श्वेतच्छत्रं तस्य मण्डलं वृत्तं तस्य छायातपाभावस्तेनान्तरितस्तिरोहितो वासरव्य-
तिकरो दिवसवृत्तान्तो यैस्ते तथा तैः । अतिबहला अतिनिबिडा ये रेणवो धूलयस्तेषामुद्गमः प्रादुर्भावस्तस्या-
विच्छेदेन संतानेनापूरितानि भरितानि भुवनकुहराणि त्रिविष्टपच्छिद्राणि यैस्ते तथा तैः । पुरोऽग्रे प्रसृताः
प्रसरणं प्राप्ता जवेनदेशोत्पन्ना वाजिनो हया येषां ते तथा तैः । अनुसंतानमनुसैन्यसमूहं लग्नाः संबद्धा ये
वेतण्डा गजास्तेषां प्रायो बाहुल्येन साधनं सैन्यं येषां तैः । कृष्णत्वसाधर्म्यात् । अत एवोत्प्रेक्षते - आ सम-
न्तात्पयोदैरिव मेघैरिव श्रान्तैरपि खिन्नैरपि बुभुक्षितैरपि क्षुधितैरप्यकृतोऽविहितो गतौ गमनविषये विलम्बो
मन्दता यैरेवंविधैः पयोधिं समुद्रं मर्यादीकृत्याष्टाभ्यः पूर्वादिदिग्भ्यो राजभिर्नृपैरनुधावितव्यं मत्पृष्ठे त्वरितगत्या
समेतव्यम् । एतेन राज्ञां स्वामिकार्योद्यतत्वं सूचितम् । तिष्ठन्त्विति । सेवापराः सपर्यायां तत्परा राजानो
भूभुजस्तावत्सांप्रतं तिष्ठन्त्वास्ताम् । सुखेति । सुखेन प्रतिबन्धकाभावेन परिभुक्तमुपभोगादिकं यासां ता
एवंविधाः प्रजा अपि प्रकृतयोऽपि तातस्नेहात्पितुः प्रीतेः परित्यक्तपुत्रदारा उज्झितसुतयोषितः सत्यः पृष्ठतः
पृष्ठं लगन्ति लगिष्यन्ति । भविष्यदर्थे वर्तमाना । इति मे मम चेतास मनसि । वर्तत इति शेषः । अपि चेति
विचारान्तरे । तातस्यापीति । तातस्यापि मत्पितुरपि कोऽपरोऽन्योऽस्ति । यस्मिन्मद्भिन्ने जने मदीयं
मद्विषयकं स्नेहं प्रीतिं संक्रमय्य संक्रमणं कृत्वा मय्यपक्रान्ते गते सति, 'यातु व्रजतु । अनेन गतेन आगतेन
घा, किम्' इत्यवनयेन पितृनियोगाकरणलक्षणेन कोपितः क्रोधं प्रापितोऽवष्टम्भं स्थैर्य कृत्वा स्थास्यव्यव
स्थानं करिष्यति । कस्य चेति । च पुनरर्थे । अपरस्य मद्भिन्नस्य कस्यचिदनिर्दिष्ट नाम्नो मुखं वदनमालोक -
यन्ती पश्यन्ती सुखं करोतीति सुखायते सुखायत इति सुखायमानं हृदयं चेतो यरयाः सा, तथा मम प्रत्या•
नयनं पश्चादानयनं तदर्थं कृतो विहित आर्तः प्रलापः पीडितरोदनं यया सैवंविधाम्बा माता न तातमेव न
पितरमेवाकुलीकरोति ? भविष्यदर्थे वर्तमाना ।व्याकुलीकरिष्यतीत्यर्थः । ताते चेति । ताते पितरि ।
पृष्ठत इति सार्वविभक्तिकस्तस् । पृष्ठे लम्रे प्राप्ते सत्यष्टादशसंख्याकानि द्वीपान्यन्तरीपाणि मलति
धारयतीत्येवंशीला मालिनी मेदिन्येव वसुधैव लभा भवतीति । पृष्ठसंचारिणी भविष्यतीत्यर्थः । तदै -
तस्मिन्काले मया व गतं क राम्यम्, क स्थितं क स्थातव्यम्, व विश्रान्तं क्व विश्रमितव्यम्, क्व यातं
क्व गन्तव्यम्, क्व भुक्तं क्व भोजनं कर्तव्यम्, क्वापसृतं क्वापसरितव्यम्, मयात्मा क गोपायितव्यो रक्षितव्यः ।
टिप्प० -1 यवनदेशः प्रसिद्धो न जवनदेशः अतः जवना: जव (वेग) शालिनो ये वाजिन इत्येवार्थ: ।
2 जासतामित्युचितम् ।
पाठा० --१ अष्टाभ्योऽपि २ अवश्यमनुधावितव्यम् ३ लगिष्यन्ति ४ गतेन वा. ५ वापरस्य ६ मेदिनीव.
७ भवति, ८ प्रस्थितम्. ९ क वा खादितं क्व पीतं क्व सुप्तं क्वापसृतमित्यनुयुञ्जनेभ्यः कथं कात्मा १० गोपयितव्यः•