This page has not been fully proofread.

केयूरकेण सह संलापः ]
 
उसरभागः ।
 
५२७
 
दृष्टि: । अरतिरेव नैकाकिन्याः क्षाम्यत्यवस्थानम् । जीवितमेव कण्ठस्थानान्नापसरति' ।
 
.9
 
एवं वदन्तं तैमादिदेश विभान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्राविशत् । यदि
तावदकथयित्वानभिपत्य चरणयोरनाघ्रातः शिरस्यगृहीताशी: सहसानुत्संकलित ईव ताते-
नाम्बैयोक्तमपक्रम्य गच्छामि, ततो गतस्यापि मम कुतः सुखम् कुतः श्रेयः, कुँतो वोश-
फैलावाप्तिः, कीदृशी वा हृदय निर्वृतिः । अथवा तिष्ठतु ताव दियमुत्तरकालागामिनी चिन्ता ।
अपक्रम्य गेत एवं कथमहम्, यत्तातेन दुस्तराहवार्णवोत्तरण महासेतुबन्धोदवन्ध्यवाञ्छितफ-
लप्रदान कल्पद्रुमा दहितविक्रान्तियशोनिष्क्रान्तिद्वारा र्गलदण्डौर्देशेषभुवनभवनोत्तम्भनस्तम्भा-
त्स्वभुजादबारोष्य मय्येव राज्यभार आरोपितः, तदनाख्याय पदमपि निर्याते मय्यबश्यम-
परिमितकरितुरगरथगमनसंक्षोभितधरातलैः, आलोलकदलिका कामनाकुलीकृतभास्वद्गभस्ति-
बपि निद्रां न गच्छतीति भावः । अरतिरिति । एकाकिन्या अद्वितीयाया अवस्थानमरतिरेवाधृतिरेव में
क्षाम्यति न सहते। अरतिरेवैकाकिनी न मुञ्चतीति भावः । जीवितमेवेति । कण्ठस्थानान्निगरणस्थलाजीवि-
तमेव प्राणितमेव नापसरति न दूरीभवति । प्राणाः कण्ठगता एव वर्तन्त इति भावः ।
 
एवं वदन्तं जल्पन्तं तं केयूरकं विश्रान्तये विश्रामायादिदेशादेशं दत्तवान् । आत्मनापि स्वेनापि गमनचिन्तां
प्राविशत्प्रवेशं कृतवान् । तच्चिन्तां प्रदर्शयन्नाह – यदीति चेदर्थे । तावदादावकथयित्वानापृच्छ्य चरणयोरनभिपत्या-
पतित्वा प्रणाममकृत्वा शिरस्युत्तमाङ्गेऽनाघ्रातो न चुम्बितोऽगृहीताशीरनात्ताशीर्वादः सहसैकऽनुत्त
इव स्वेच्छा प्रवृत्तपुरुष इव तातेन पित्रा, अम्बया जनन्या उक्त प्रतिपादितमपक्रम्योल्लङ्घष गच्छामि ब्रजामि ।
ततो हेत्वर्थे । तस्माद्गतस्यापि मम कुतः सुखं सौख्यम्, कुतः श्रेयः कल्याणम्, कुतो वोच्चं महद्यत्फलं साध्यं
तस्यावाप्तिः प्राप्तिः । कीदृशी हृदयस्य चित्तस्य निर्वृतिः संतुष्टिः । अथवेति पक्षान्तरे । उत्तरकाल आयतिस्त-
त्रागमिन्यागमनशीला येयं मानसिकी प्रत्यक्षा चिन्तार्तिस्तावत्सांप्रतं तिष्ठत्वास्ताम् । अपक्रम्येति । अपक्रम्यै
व्यावृत्य गत एव कथमहम्, तातेन पित्रा दुःखेन तीर्यत इति दुस्तर एतादृशो य आहवार्णवः संग्राम समुद्रस्तस्यो-
त्तरण उल्लङ्घने महान्सेतुबन्धःपालिबन्धस्तस्मात् । अवन्ध्यं योग्यं यद्वाञ्छितफलं समीहितसाध्यं तस्य प्रदाने
वितरणे कल्पद्रुमः कल्पवृक्षस्तस्मात् । अहितेति । अहितस्य शत्रोर्यद्विक्रान्तियशः पराक्रमाभिख्या तस्य निष्का-
न्तिद्वारं निर्गमप्रतोली तस्मिन्नर्गलादण्डः प्रतिषेधकाष्टं तस्मात् । अशेषाणि समप्राणि यानि भुवनानि विष्टपानि
तान्येव भवनं गृहं तस्योत्तम्भनं धारणं तत्र स्तम्भः स्थूणा तस्मात् । एवं विधात्स्वभुजात्स्वकीयबाहोरवारो-
प्योत्तार्य मय्येव मद्विषय एव राज्यभार आधिनत्यवीवध आरोपितो न्यस्तः, तत्तस्माद्धेतोरनाख्यायानापृच्छ्य
पदमपि क्रममात्रमपि मयि निर्याते निर्गते सत्यवश्यं निश्चितमपरिमिता असंख्या ये करितुरगरथा गजाश्व-
स्यन्दनास्तेषां गमनं यानं तेन संक्षोभितं क्षोभं प्रापितं धरातलं वसुधातलं यैस्ते तथा तैः । आलोलानि चबलानि
यानि कदलिका पताका एव काननानि वनानि तैराकुलीकृता भाखद्गभस्तयो र विकिरणा यैस्ते तथा तैः । ऊर्ध्वं
रतिस्तामेकाकिनी
 
टिप्प० - 1 धिङ् मूढताम् । किं तर्हि मदलेखादयः सख्यस्तां मुञ्चन्ति ? अत एव भर
न त्यजति । सर्वदा तिष्ठतीत्यर्थः । 2 अप्रे आगामित्वात्परोक्षेति वक्तव्यम् । 3 अपक्रम्य स्वेच्या पलाय्य
कथमहं गतः अर्थात् गतः स्याम् गच्छेयम्, यतो हि मदुपरि पित्रा स्वभुजादवतार्य भार भारोपित इत्य.
प्रेण संबन्धः ।
 
पाठा० -१ एवंच. २ एनम्. ३ अनिपत्य. ४ उत्संकलित; उच्छृङ्गलित. ५ एव. ६ अम्बया वाक्रम्य; अम्बया
वक्तव्यमपक्रम्य. ७ किं श्रेयः ८ वा फलावाप्तिः ९ गम्यत एव कथमयम् १० तातेन. ११ दुस्त दुःखार्णव.
१२ अवध्य. १३ अहितजन. १४ अशेषभवन. १५ समारोपितः १६ गज.