2023-09-16 16:03:29 by Lakshmainarayana achar

This page has been fully proofread twice.

प्रावृषमिव घनकेशजालाम्, मलयमेखलामिव चन्दनपल्लवा- वतंसाम्, नक्षत्रमालामिव चित्रश्रवणाभरणभूषिताम्, श्रियमिव हस्तस्थितकमलशोभाम्, मूर्च्छामिव [^१]मनोहारिणीम्, अरण्य -
भूमिमिव [^२]रूपसंपन्नाम्, दिव्ययोषितमिवाकुलीनाम्, निद्रामिव लोचनग्रहिणीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शवर्जिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्,
मधुमासकुसुमसमृद्धिमि [^३]वाजातिम्, अनङ्गकुसुमचापलेखा- मिव मुष्टिग्राह्यमध्याम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरो [^४]पारूढयौवनाम्, अतिशयरूपाकृति [^५]मनिमिषलोचनो ददर्श ।
 
[ टि ] -- सा तथेति विग्रहः । पुनः कमिव । प्रावृषमिव । वर्षाकालमिव । उभयोर्विशेषणसाम्यमाह - घनेति । घना निबिडा ये केशास्तेषां जालानि यस्याम् । पक्षे घना एव केशजालानि यस्यामिति विग्रहः । मलयेति । मलयस्य पर्वतस्य मेखला मध्यभागस्तमिव । उभयोः सादृश्यमाह - चन्दनेति । चन्दनस्य पल्लवाः किसला( लया)नि तेषामवतंसा यस्यां सा ताम् । पक्षे चन्दनपल्लवास्त एवावतंसः शेखरो यस्यामिति विग्रहः ।
नक्षत्रेति । नक्षत्राणामुडूनां माला पङ्किस्तामिव । उभयोः सादृश्यमाह-चित्रेति । चित्राणि विविधप्रकाराणि श्रवणे कर्ण आभरणानि भूषणानि यस्याः सा ताम् । पक्षे चित्राश्रवणावेव आभरणे ताभ्यां [^1]भूषितेति विग्रहः । श्रियमिति । श्रीलक्ष्मीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह- हस्तेति । हस्ते पाणौ स्थिता कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम् । पक्षे हस्ते स्थितं यत्कमलं तेन शोभा यस्या इति विग्रहः । मूर्च्छेति । मूर्च्छा मोहस्तामिव । एतयोः साम्यमाह - मनोहारिणीमिति । सुन्दराकृतित्वेन मनोहरामित्यर्थः । पक्षे नष्टचेतनात्मकत्वेन मनोहारिणीमिति भावः । अरण्येति । अरण्यमटवी तस्य भूमिः क्षितिस्तामिव । उभयोः सादृश्यमाह - रूपेति । रूपमाकृतिविशे-
षस्तेन संपन्नां सहिताम् । पक्षे रूपाः पशवस्तैः संपन्नां
संगताम् । 'रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये' इत्यनेकार्थः । दिव्येति । दिव्या देवसंबन्धिनीयोषित्स्त्री तामिव । उभयोः सादृश्यमाह - अकुलीनामिति । अकुलीनामकुलोत्पन्नाम् । 'कुलात्खः' । खस्येनादेशः । पक्षेन कौ पृथिव्यां लीनां स्थिताम् । निद्रेति । निद्रा प्रमीला तामिव । उभयोः सादृश्यं प्रदर्शयन्नाह -
लोचनेति । अत्यद्भुतरूपवशात्कामिजनानां लोचनग्राहिणीं नेत्राकर्षिणीम् । पक्षे निमेषोन्मेषसहिते लोचने ग्रहीतुं शीलमस्या इति शीले णिनिः । नान्तत्वान्ङिप् । अरण्येति । अरण्यं वनं तस्य या कमलिनी तामिव । उभयोः सादृश्यमाह - मातङ्गेति । मातङ्ग- श्चाण्डालस्तस्य कुलमन्वयस्तेन दूषितां मलिनीकृताम् । पक्षे मातङ्गकुलेन हस्तिसमुदायेन दूषिताम् । मर्दितामित्यर्थः । अमूर्तेति । अमूर्तेयत्तावच्छिन्नपरिमाणशून्या बुद्धि [^2]स्तामिव । उभयोस्तुल्यत्व- माह - स्पर्श इति । स्पर्शः संश्लेषः शिष्टानां तेन वर्जितां रहिताम् । अकुलीनत्वादेव । पक्षे स्पर्शो गुणस्तद्वर्जितां रहिताम् । अमूर्तत्वा- देव । आलेख्येति । आलेख्यं चित्रं तत्र गतां प्राप्तां पुत्रिकामिव । उभयोः साम्यमाह - दर्शनेतिचाण्डालत्वादेव न भोगफलकत्व- मस्याः । अत एव दर्शनमालोकनमात्रमेव फलं प्रयोजनं यस्याः सा तथा ताम् । पक्षेऽपि तथैव बोध्यम् । मध्विति । मधुमासे वस-
न्तसमये या कुसुमसमृद्धिस्तामिव । उभयोस्तुल्यतां प्रदर्शयन्नाह - अजातिमिति । न विद्यते जातिर्ब्राह्मणत्वादिर्यस्यां सा ताम् । पक्षे न विद्यते जातिर्मालती यस्यां सा तथा ताम् । 'वसन्ते मालतीपुष्पं फलपुष्पं च चन्दने न वर्णनीयम्' इति कविप्रसिद्धरपि । अनङ्गेति । अनङ्गस्य मदनस्य कुसुमचापस्य पुष्पधनुषो या लेखा तामिव । उभयोः साम्यं प्रदर्शयन्नाह - मुष्टीति । मुष्टिना ग्राह्यो ग्रहीतुं शक्यो मध्यो मध्यप्रदेशो यस्याः सा ताम् । यक्षाधिपलक्ष्मीमिति । यक्षाधिपानां गुह्यकेश्वराणां लक्ष्मीर्हरि [^3]प्रिया तामिव । उभयोः
सादृश्यमाह - अलकेति । अरुकैः केशैरु [^4]द्भासयत इत्येवंशीला सा तथा ताम् । पक्षे अलका [^5]भिर्नगरीभिरुद्भासिनीति विग्रहः । अचिरेति । अचिरं त्वरितमुपारूढं प्राप्तं यौवनं तारुण्यं यया ताम् । संप्राप्तयौवनामित्यर्थः । अतीति । अतिशयरूपोत्कृष्टाकृतिराकारो यस्याः सा तथा ताम् । अन्वयस्तु प्रागेवोक्तः ।
 
[^1]F. चित्रा - श्रवण- भरणी नामकैर्नक्षत्रैर्भूषितामित्युचितम् । श्लेषे लिङ्गव्यत्ययोऽदुष्टः ।
[^2]F. अमूर्ता मूर्तिरहिता (आकाररहिता) एव स्पर्शवर्जिता भवति, इयं तु मूर्ताऽपि अस्पृश्यत्वात्, अमूर्तेव स्पर्शे वर्जितेत्यर्थः।
[^3]F. संपदित्यर्थ उचितः ।
[^4]F. उद्भासते इति तात्पर्यम् ।
[^5]F. अलकानाम्न्या नगर्या उद्भासिनीमिति ज्ञेयम् ।
 
[^१]G. मनोहराम्.
[^२]G. अक्षतरूपसंपन्नाम् ; अन्याक्षतबहुशोभिरूपाम्.
[^३]G. विजातिम्.
[^४]G. उपरूढ.
[^५]G.अनिमेष.